4-1-152 सेनान्तलक्षणकारिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् ण्यः
index: 4.1.152 sutra: सेनान्तलक्षणकारिभ्यश्च
'तस्य अपत्यम्' (इति) सेनान्त-लक्षण-कारिभ्यः ण्यः
index: 4.1.152 sutra: सेनान्तलक्षणकारिभ्यश्च
यस्य शब्दस्य अन्ते 'सेन' इति विद्यते तस्मात् शब्दात्, 'लक्षण'शब्दात् तथा 'कारिवाचि'शब्दात् 'तस्य अपत्यम्' अस्मिन् अर्थे ण्य-प्रत्ययः भवति ।
index: 4.1.152 sutra: सेनान्तलक्षणकारिभ्यश्च
सेनान्तात् प्रातिपदिकात् लक्षणशब्दात् कारिवचनेभ्यश्च अपत्ये ण्यः प्रत्ययो भवति। कारिशब्दः कारूणां तन्तुवायादीनां वाचकः। कारिषेण्यः। हारिषेण्यः। लाक्षण्यः। कारिभ्यः तान्तुवाय्यः। कौम्भकार्यः। नापित्यः।
index: 4.1.152 sutra: सेनान्तलक्षणकारिभ्यश्च
एभ्यो ण्यः । एति संज्ञायाम्-<{SK1023}> इति सस्य षः । हारिषेण्यः । लाक्षण्यः । कारिः शिल्पी तस्मात्तान्तुवाय्यः । कौम्भकार्यः । नापित्यः ॥
index: 4.1.152 sutra: सेनान्तलक्षणकारिभ्यश्च
सेनान्तलक्षणकारिभ्यश्च - सेनान्त । एभ्य इति । सेनान्तलक्षणकारिभ्य इत्यर्थः । अकुर्वादित्वाद्वचनम् । हारिषेण्य इति । हरिषेणो नाम कश्चित् ।एति संज्ञायां॑मिति षत्वम् । तस्याऽसिद्धत्वात्सेनान्तत्वाण्ण्यः । लाक्षण्य इति । लक्षणमस्यास्तीति लक्षणः । अर्शाअद्यच् । तस्यापत्यमिति विग्रहः । कारिपदं व्याचष्टे — कारिः शिल्पीति । तस्मादिति । कारिविशेषवाचिनो ण्ये सतीत्यर्थः । तान्तुवाय्य इति । तन्तुवायस्यापत्यमिति विग्रहः । कौम्भकार्य इति । कुम्भकारस्यापत्यमिति विग्रहः । नापित्य इति । नापितस्यापत्यमिति विग्रहः ।
index: 4.1.152 sutra: सेनान्तलक्षणकारिभ्यश्च
लक्षणेति स्वरूपग्रहणमित्याह - लक्षणशब्दादिति । कारीत्यर्थग्रहणमित्याह - कारिवचनेभ्यश्चेति । साधु कुर्वन्तीति कारिणःउशिल्पिनः । नापित्य इति । प्राचां मते ण्य उदाहृतः । उदीचां तु मते परत्वाद् ठुदीचां वृद्धात्ऽ इति फिञेव भवति - नापितायनिरिति ॥