भर्गात् त्रैगर्ते

4-1-111 भर्गात् त्रैगर्ते प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् गोत्रे फञ्

Sampurna sutra

Up

'तस्य गोत्रे अपत्यम्' (इति) त्रैगर्ते भर्गात् फञ्

Neelesh Sanskrit Brief

Up

त्रैगर्तकुलवाची यः भर्गशब्दः, तस्मात् गोत्रापत्यस्य निर्देशार्थम् फञ् प्रत्ययः भवति ।

Kashika

Up

भर्गशब्दादपत्ये विशेषे त्रैगर्ते गोत्रे फञ् प्रत्ययो भवति। भार्गायणो भवति त्रैगर्तश्चेत्। भार्गिरन्यः॥

Siddhanta Kaumudi

Up

गोत्रे फञ् । भार्गयणस्त्रैकर्तः । भार्गिरन्यः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<भर्गात् त्रैगर्ते>> - भर्गात्रैगत्रे । इदमपि गणसूत्रम् । त्रिगर्तो नाभ भर्गस्य पुत्रः । तस्यापत्यं त्रैगर्तः । ऋष्यण् । तस्मिन्गोत्रे भर्गात्फञ् ।

Padamanjari

Up