6-4-135 षपूर्वहन्धृतराज्ञाम् अणि असिद्धवत् अत्र आभात् भस्य अल् लोपः अनः
भस्य अङ्गस्य ष-पूर्व-हन्-धृतराज्ञामनः अणि अत्-लोपः
(1) षन्-यस्य अन्ते तादृशस्य, (2) हन्-शब्दस्य, तथा (3) धृतराजन् शब्दस्य - भसंज्ञकस्य उपधा-अकारस्य अण्-प्रत्यये परे लोपः भवति ।
The उपधा-अकार of a भसंज्ञकस्य अङ्ग is omitted in presence of an अण्-प्रत्यय, if the अङ्ग ends in one of (1) षन्, (2) हन् or (3) धृतराजन् .
षकारपूर्वो योऽन् हनो धृतराज्ञश्च तस्याकारलोपो भवत्यणि परतः। औक्ष्णः। ताक्ष्णः। भ्रौणघ्नः। धार्तराज्ञः। षपूर्वहन्धृतराज्ञामिति किम्? सामनः। वैमनः। <<अन्>> ६.४.१६७ इति प्रकृतिभावेनाल्लोपटिलोपावुभावपि न भवतः। अणीति किम्? ताक्षण्यः॥
षपूर्वो योऽन्तस्य हनादेश्च भस्यातो लोपोऽणि । औक्ष्णः । ताक्ष्णः । भ्रौणघ्नः । धृतराज्ञोऽपत्यं धार्तराज्ञः । षुपूर्व इति किम् ? साम्नोऽपत्यं सामनः । अणि किम् ? ताक्षण्यः ॥
अण्-इति कश्चन तद्धितप्रत्ययः । अण्-प्रत्यये परे <<यचि भम्>> 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा भवति । एवं भसंज्ञायां प्राप्तायाम् <<अल्लोपोऽनः>> 6.4.134 इत्यनेन भसंज्ञकस्य उपधा-अकारस्य लोपः सम्भवते । परन्तु <<अन्>> 6.4.167 इत्यनेन अण्-प्रत्यये परे अयं लोपः निषिध्यते । अतः सामान्यरूपेण अन्नन्तस्य भसंज्ञकस्य अङ्गस्य उपधा-अकारस्य अण्-प्रत्यये परे लोपः न भवति । परन्तु, वर्तमानसूत्रेण अस्य निषेधस्यापि केषुचन स्थितिषु निषेधं कृत्वा उपधा-अकारस्य लोपः पुनः विधीयते । ताः स्थित्यः एतादृशाः - 1) षन्-यस्य अन्ते, तादृशस्य भसंज्ञकस्य उपधा-अकारस्य अण्-प्रत्यये परे लोपः भवति । यथा - 'पूषन्' (= सूर्यः) इत्यस्मात् प्रातिपदिकात् <<तस्यापत्यम्>> 4.1.92 इत्यनेन अण्-प्रत्ययः विधीयते । पूष्णः अपत्यम् = 'पूषन् + अण्' इत्यत्र वर्तमानसूत्रेण षकारात् परस्य अकारस्य लोपः भवति । अग्रे अन्यां प्रक्रियां कृत्वा पौष्णः इति रूपं सिद्ध्यति - पूषन् + अण् → पौषन् + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → पौष् न् + अ [<<षपूर्वहन्धृतराज्ञामणि>> 6.4.135 इत्यनेन भस्य उपधा-अकारस्य लोपः] → पौष्ण [<<रषाभ्यां नो णः समानपदे>> 8.4.1 इति णत्वम्] 2) हन्-यस्य अन्ते, तादृशस्य भसंज्ञकस्य उपधा-अकारस्य अण्-प्रत्यये परे लोपः भवति । यथा - 'वृत्रहन्' (=इन्द्रः) इत्यस्मात् प्रातिपदिकात् अण्-प्रत्यये कृते अनेन सूत्रेण हकारात्-परस्य अकारस्य लोप भवति । अग्रे 'वृत्रह् न् + अण्' इत्यस्य अन्यां प्रक्रियां कृत्वा अन्ते 'वार्त्रघ्नः' इति रूपं सिद्ध्यति - वृत्रहन् + अण् → वार्त्रहन् + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः । <<उरण् रपरः>> 1.1.51 इति रेफः] → वार्त्रह् न् + अण् [<<षपूर्वहन्धृतराज्ञामणि>> 6.4.135 इत्यनेन भस्य उपधा-अकारस्य लोपः] → वार्त्रघ् न् + अस् [<<हो हन्तेर्ञ्णिन्नेषु>> 7.3.54 इत्यनेन णित्-प्रत्यये परे हन्-इत्यस्य हकारस्य घकारादेशः ] → वृत्रघ्नः 3) 'धृतराजन्' इत्यस्य भसंज्ञकस्य उपधा-अकारस्य अण्-प्रत्यये परे लोपः भवति । धृतराजन् + अण् → धार्तराज्ञः । एतान् त्रीन् शब्दस्वरूपान् विहाय अन्येषाम् भसंज्ञकानाम् उपधा-अकारस्य अण्-प्रत्यये परे लोपः न भवति । यथा - 'राजन्' शब्दात् <<तस्येदम्>> 4.3.120 अनेन सूत्रेण 'राज्ञः इदम्' अस्मिन् अर्थे अण्-प्रत्ययः भवति । राज्ञः इदम् = राजन् + अण् = राजनः । अत्र उपधा-अकारस्य लोपः न दृश्यते, यतः <<अन्>> 6.4.147 इत्यनेन अयं लोपः निषिध्यते, वर्तमानसूत्रेण च तस्य निषेधस्य प्रतिषेधः अपि न भवति ।
<<षपूर्वहन्धृतराज्ञामणि>> - ननु प्रकृतिभावादल्लोपो न स्यादत आह — षपूर्वहन् । 'अल्लोपोऽनः' इत्यनुवर्तते ।भस्ये॑त्यधिकृतं, तदाह — षपूर्व इति । ताक्ष्ण इति ।तक्ष्णोऽण उपसङ्ख्यान॑मिति कारिलक्षणण्यस्यापवादोऽण् । ताक्षण्य इति ।सेनान्तलक्षणकारिभ्यश्च॑ इति ण्यः ।
किमिदं नियमार्थम्, आहोस्विद्विध्यर्थम् कथं चेदं नियमार्थम्, कथं वा विध्यर्थम् यद्यन्निति प्रकृतिभावोऽनन्तरस्यैव टिलोपस्य, तदाल्लोपस्य प्रकृतिभावेनानिवर्तितत्वात्पूर्वेणैव सिद्धे नियमार्थम्, अथाविशेषेणाल्लोपटिलोपयोर्द्वयोरपि प्रकृतिभावस्ततो विध्यर्थम् । तत्रापि नियमपक्षे यदि तावदेवं नियमः - षपूर्वदीनामेवाणीति भवेत्, इह न स्यात् - सामनः वैमनः, ताक्षण्य इत्यत्र तु प्रसङ्गः । अथाप्युभयनियमः एस्यात्, षपूर्वदीनामेवाणि, षपूर्वदीनामण्येवेति एवमपि सामनः वैमनः, ताक्षण्य इति सिद्धम् सामसु साधुः सामन्योऽत्र प्राप्नोति । तस्मादुभयोः प्रकृतिभाव इत्याश्रित्य विद्यर्थमिदमित्याह - तस्याकारस्य लोपो भवतीति । ताक्ष्ण इति । इदमर्थेऽण्, अपत्ये तु कारिलक्ष्णो ण्यो भवति । उभावपि न भवत इति । टिलोपमात्रव्यावृत्तिर्निषेधेनापि सिध्यति । तत्प्रकृत्येति वचनान्निवृत्तिरुभयोरपि ॥