रि च

7-4-51 रि च सः सि तासस्त्योः लोपः

Sampurna sutra

Up

तासः अङ्गस्य रि लोपः

Neelesh Sanskrit Brief

Up

तास्-प्रत्ययस्य अन्तिमवर्णस्य रेफे परे लोपः भवति ।

Neelesh English Brief

Up

The last letter (सकार) of the तास्-प्रत्यय is removed when followed by a रेफ.

Kashika

Up

रेफादौ च प्रत्यये परतः तासस्त्योः सकारास्य लोपो भवति। कर्तारौ। कर्तारः। अध्येतारौ। अध्येतारः।

Siddhanta Kaumudi

Up

रादौ प्रत्यये प्राग्वत् । भवितारौ । भवितारः । भवितासि । भवितास्थः । भवितास्थ । भवितास्मि । भवितास्वः । भवितास्मः ॥

Laghu Siddhanta Kaumudi

Up

रादौ प्रत्यये तथा। भवितारौ। भवितारः। भवितासि। भवितास्थः। भवितास्थ। भवितास्मि। भवितास्वः। भवितास्मः॥

Neelesh Sanskrit Detailed

Up

लुट्-लकारस्य विकरणप्रत्ययः 'तास्' - इत्यस्य रेफे परे लोपः जायते । <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन अयं लोपः अन्तिम-वर्णस्यैव भवति । यथा, पठ्-धातोः लुट्-लकारस्य प्रथमपुरुष-द्विवचनस्य रूपम् - पठ् + लुट् [<<अनद्यतने लुट्>> 3.3.15 इति लुट्] → पठ् + तास् + ल् [<<स्यतासी लृलुटोः>> 3.1.33 इति विकरणप्रत्ययः तास्] → पठ् + इट् + तास् + ल् [<<आर्धधातुकस्येड्वलादेः>> 7.2.35 इति इडागमः] → पठ् + इ + तास् + तस् [<<तिप्तस्..>> 3.4.78 इति तस् ] → पठ् + इ + तास् + रौ [ <<लुटः प्रथमस्य डारौरसः>> 2.4.85 इति तस्-प्रत्ययस्य रौ-आदेशः] → पठ् + इ + ता+ रौ [<<रि च>> 7.4.51 इति रेफे परे तास्-इत्यस्य सकारस्य लोपः] → पठितारौ ज्ञातव्यम् - अस्मिन् सूत्रे 'तास्त्योः' इत्यस्मात् केवलं 'तास्' इति अनुवर्तते, 'अस्' इति न - यतः अस्-इत्यस्मात् परे रेफादिप्रत्ययः न भवितुम् सम्भवति ।

Balamanorama

Up

<<रि च>> - प्राग्वदिति । तासेर्लोप इत्यर्थः । अस्तिस्तु नेह संबध्यते, ततो रादिप्रत्ययस्याऽसंभवात् ।

Padamanjari

Up

अस्तेरुदाहरणं न प्रदर्शितम्, रेफादेरसम्भवात् ॥