तृतीयासप्तम्योर्बहुलम्

2-4-84 तृतीयासप्तम्योः बहुलम् न अव्ययीभावात् अतः अम् तु

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पूर्वेण नित्यमम्भावे प्राप्ते वचनमिदम्। तृतीयासप्तम्योर्विभक्त्योर्बहुलमम्भावो भवत्यव्ययीभावे। उपकुम्भेन कृतम्। उपकुम्भं कृतम्। उपकुम्भे निधेहि। उपकुम्भं निधेहि॥ सप्तम्या ऋद्धिनदीसमाससंख्यावयवेभ्यो नित्यममिति वक्तव्यम्॥ सुमद्रम्। सुमगधम्। उन्मत्तगङ्गम्। लोहितगङ्गम्। एकविंशतिभारद्वाजम्। बहुलवचनात् सिद्धम्॥

Siddhanta Kaumudi

Up

अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुलम्भावः स्यात् । अपदिशम् । अपदिशेन । अपदिशम् । अपदिशे । बहुलग्रहणात्सुमद्रमुन्मत्तगङ्गमित्यादौ सप्तम्या नित्यमम्भावः । विभक्तीत्यादेरयमर्थः । विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह समस्यते सोऽव्ययीभावः । विभक्तौ तावत् । हरौ इत्यधिहरि । सप्तम्यर्थस्यैवात्र द्योतकोऽधिः । हरि ङि अधि इत्यलौकिकं विग्रहवाक्यम् । अत्र निपातेनाभिहितेऽप्यधिकरणे वचनसामर्थ्यात्सप्तमी ॥

Laghu Siddhanta Kaumudi

Up

अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुलमम्भावः स्यात् । अधिगोपम्, अधिगोपेन, अधिगोपे वा । कृष्णस्य समीपम् उपकृष्णम् । मद्राणां समृद्धिः सुमद्रम् । यवनानां व्यृद्धिर्दुर्यवनम् । मक्षिकाणामभावो निर्मक्षिकम् । हिमस्यात्ययोऽतिहिमम् । निद्रासंप्रति न युज्यत इत्यतिनिद्रम् । हरिशब्दस्य प्रकाश इतिहरि । विष्णोः पश्चादनुविष्णु । योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः । रूपस्य योग्यमनुरूपम् । अर्थमर्थं प्रति प्रत्यर्थम् । शक्तिमनतिक्रम्य यथाशक्ति ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<तृतीयासप्तम्योर्बहुलम्>> - तृतीया ।नाव्ययीभावा॑दित्यस्मादत इत्यनुवर्तते, तदाह — अदन्तादिति । अमादेशाऽभावे तुनाव्ययीभावा॑दित्यलुक् । ननु वेति सिद्धे किं बहुलग्रहणेनेत्यत आह — बहुलग्रहणादिति । तदेवमव्ययमिति योगं विभज्य व्याख्याय तदुत्तरखण्डं व्याख्यातुमुपक्रमते-विभक्तीत्यादेरयमर्थ इति । विभक्तीत्यनेन विभक्त्यर्थो विवक्षितः । उच्यन्त इति वचनाः । कर्मणि ल्युट् । विभक्ति-समीप समृद्धि-व्यृद्धि-अर्था-ऽभावाऽत्यया-ऽसंप्रति-शब्दप्रादुर्भाव-पश्चात्-यथा-ऽऽनुपूर्व्य-यौगपद्य-सादृश्य-संपत्ति-साकल्य-अन्त॑ — एतेषां षोडशानां द्वन्द्वः । ते च ते वचनाश्चेति विग्रहः । विभक्त्यर्थादिषु वाच्येइआत्यर्थः ।अव्यय॑मित्यनुवर्तते । 'अव्ययीभावः' 'समास' इति चाधिकृतं । तदाह — विभक्त्यर्थादिष्विति । विभक्तौ तावदिति । विभक्त्यर्थे प्रथममुदाह्यियत इत्यर्थः । हरौ इत्यधिहरीति । हरौ इति लौकिकविग्रहः । तेन यावदवगम्यते तावदेवाधिहरीति समासेनाप्युच्यत इत्यर्थः । अधिशब्दस्य हरावित्यनेन अव्ययीभावसमासे सुब्लुकि समासविधावव्ययमिति प्रथमानिर्दिष्टत्वादधेः पूर्वनिपाते समासादुत्पन्नस्य सुपःअव्ययादाप्सुपः॑इति लुगिति भावः । ननु लौकिकविग्रहे समस्यमान#ओऽधिशब्दः कुतो नोपात्त इत्यत आह — सप्तम्यर्थस्यैवात्रेति । तथाचाऽधिद्योत्यार्थस्याऽधिकरणत्वस्य सप्तम्यैव उक्तत्वादधिशब्दो न पृथगुपात्तः, नित्यसमासताया वक्ष्यमाणत्वेन स्वपदविग्रहानोचित्नादिति भावः । ननु हरौ इति परिनिष्ठितसन्धिकार्यस्य समासे सति 'औ' इत्यस्य सुपो लुकि समासे रेफादिकारः कुतः श्रूयेतेत्यत आह-हरि ङि इति । संधिकार्यात्प्रागलौकिकविग्रहवाक्य एव समासप्रवृत्तेःप्रत्ययोत्तरपदयोश्चे॑ति भाष्यसंमतत्वादिति भावः । यथा चैत्तथा 'भूतंपूर्व' इत्यत्रानुपदमेवोक्तम् । नन्वधिना निपातेनाकरणत्वस्योक्तत्वात् कथं हराविति सप्तमीत्यत आह-अत्र निपातेनेति । वचनेति । सुप्तेयनुवर्त्त्य सुबन्तेनाऽत्र समासविधिसामर्थ्यात् सप्तमी स्यादेवेति भावः । वस्तुतस्तु अनभिहितसूत्रभाष्ये तिङ्कृत्तद्धितसमासैरित्येव परिगणमनं दृष्टम् । अतो निपातेनाऽधिना अभिहितेऽप्यधिकरणत्वे सप्तमी निर्बाधा ।विषवृक्षोऽपि संबध्र्य स्वयं छेत्तुमसांप्रत॑मित्यत्र तु 'एष्टव्य' इत्यध्याहार्यम् । कृताऽभिधानाद्विषवृक्षाद्द्वितीया न भवति । नच कृत्तद्धितसमासैरिति परिगणनं भाष्ये प्रत्याख्यातमिति वाच्यम्,कटं करोति भीष्ममुदारं दर्शनीय॑मित्यत्र परिगणनफलस्याऽन्यथासिद्धेरेव तत्रोक्तत्वादित्यास्तां तावत् ।

Padamanjari

Up

तृतीयासप्तम्योर्बहुलम्॥ सुभद्रमिति। मद्राणां समृद्धिरित्यव्ययीभावः, ततः सप्तमी, तस्या नित्यमम्भावः। एकविशतिभारद्वाजमिति। एकविशतिर्भरद्वाजा वंश्या इति'सङ्ख्या वंश्येन' इति समासः। तत्र वर्तिपदार्थानां स्वार्थोपसर्जनार्थान्तराभिधायित्वाद्भारद्वाजशब्द एकत्वविशष्टार्थान्तरे सङ्क्रान्त इत्यञो लुगभावः। नेति वयम्, गर्गाणां कुलं गर्गकुलमित्यादावपि प्रसङ्गात्। तस्माद् भाष्यकारप्रयोगादत्र लुगभावः॥