ङसिङसोश्च

6-1-110 ङसिङसोः च संहितायाम् अचि एकः पूर्वपरयोः पूर्वः एङः अति

Sampurna sutra

Up

एङः ङसिङसोः अति पूर्वपरयोः एकः पूर्वः

Neelesh Sanskrit Brief

Up

एङ्-वर्णात् ङसिँ/ङस्-प्रत्यययोः अकारे परे पूर्वपरयोः एकः पूर्वरूप-एकादेशः भवति ।

Neelesh English Brief

Up

If an एकार or ओकार is followed by the अकार of ङसिँ or ङस् प्रत्यय, then both of them combined to form a पूर्वरूप एकादेश.

Kashika

Up

एङ इति वर्तते, अतीति च। एङ उत्तरयोर्ङसिङसोरति परतः पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति। अग्नेरागच्छति। वायोरागच्छति। अग्नेः स्वम्। वायोः स्वम्। अपदान्तार्थ आरम्भः॥

Siddhanta Kaumudi

Up

एङो ङसिङसोरति परे पूर्वरूपमेकादेशः स्यात् । हरेः । हर्योः । हरीणाम् ॥

Laghu Siddhanta Kaumudi

Up

एङो ङसिङसोरति पूर्वरूपमेकादेशः। हरेः हरेः। हर्योः हर्योः। हरीणाम्॥

Neelesh Sanskrit Detailed

Up

एकारात् ओकारात् वा पञ्चमी-एकवचनस्य ङसिँ-प्रत्ययस्य अकारः, षष्ठ्येकवचनस्य ङस्-प्रत्ययस्य अकारः वा विद्यते चेत्, <<एचोऽयवायावः>> 6.1.78 इत्यनेन प्राप्तम् अय्/अव्-आदेशं बाधित्वा प्रकृतसूत्रेण पूर्वरूप-एकादेशः भवति । अस्य सूत्रस्य प्रयोगः इकारान्त/उकारान्त/एकारान्त/ओकारान्तप्रातिपदिकानाम् पञ्चमी/षष्ठी-एकवचनस्य प्रक्रियायाम् एव भवति । उदाहरणानि एतानि — 1. इकारान्तशब्दस्य पञ्चमी/षष्ठी-एकवचनस्य रूपस्य सिद्धिः — मुनि + ङसिँ/ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः] → मुने + अस् [इत्संज्ञालोपः । <<घेर्ङिति>> 7.3.111 इति अङ्गस्य गुणः एकारः ] → मुनेस् [<<एचोऽयवायावः>> 6.1.78 इत्यनेन अयादेशे प्राप्ते, अपवादत्वेन <<ङसिङसोश्च>> 6.1.110 इति पूर्वरूप-एकादेशः ] → मुनेः [रुत्वम्, विसर्गनिर्माणम्] एवमेव मति + ङसिँ/ङस् → मतेः इत्यपि रूपम् सिद्ध्यति । यत्र मतिशब्दस्य घिसंज्ञा पक्षे निषिध्यते, तत्र तु घिसंज्ञायाः अभावात् गुणः अपि न भवति, अतः एकारस्य अनुपस्थितौ प्रकृतसूत्रेण पूर्वरूपैकादेशःअपि नैव प्रवर्तते । 2. उकारान्तशब्दस्य पञ्चमी/षष्ठी-एकवचनस्य सिद्धिः — साधु + ङसिँ/ङस् [पञ्चमी/षष्ठी-एकवचनस्य रूपस्य प्रत्ययः] → साधो + अस् [इत्संज्ञालोपः । <<घेर्ङिति>> 7.3.111 इति अङ्गस्य गुणः ओकारः ] → साधोस् [<<एचोऽयवायावः>> 6.1.78 इत्यनेन अवादेशे प्राप्ते, अपवादत्वेन <<ङसिङसोश्च>> 6.1.110 इति पूर्वरूप-एकादेशः ] → साधोः [रुत्वम्, विसर्गनिर्माणम्] एवमेव धेनु + ङसिँ/ङस् → धेनोः इत्यपि रूपम् सिद्ध्यति । यत्र धेनुशब्दस्य घिसंज्ञा पक्षे निषिध्यते, तत्र तु घिसंज्ञायाः अभावात् गुणः अपि न भवति, अतः ओकारस्य अनुपस्थितौ प्रकृतसूत्रेण पूर्वरूपैकादेशःअपि नैव प्रवर्तते । 3. एकारान्तशब्दस्य पञ्चमी/षष्ठी-एकवचनस्य रूपस्य सिद्धिः — सिद्धान्तकौमुद्याम् 'स्मृते' इति एकारान्तपुंलिङ्गशब्दः पाठ्यते । 'स्मृतः इः (कामदेवः) येन सः', अथ वा 'स्मृता ई (लक्ष्मीः) येन सः' इति बहुव्रीहिसमासेन अयं शब्दः सिद्ध्यति । अस्य पञ्चमी/षष्ठी-एकवचनस्य रूपनिर्माणे प्रकृतसूत्रं प्रयुज्यते — स्मृते + ङसिँ/ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः] → स्मृते + अस् [इत्संज्ञालोपः ] → स्मृतेस् [<<एचोऽयवायावः>> 6.1.78 इत्यनेन अयादेशे प्राप्ते, अपवादत्वेन <<ङसिङसोश्च>> 6.1.110 इति पूर्वरूप-एकादेशः ] → स्मृतेः [रुत्वम्, विसर्गनिर्माणम्] 4. ओकारान्तशब्दस्य पञ्चमी/षष्ठी-एकवचनस्य रूपस्य सिद्धिः — 'गो' इति ओकारान्तशब्दस्य पञ्चमी/षष्ठी-एकवचनस्य रूपनिर्माणे प्रकृतसूत्रं प्रयुज्यते — गो + ङसिँ/ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः] → गो + अस् [इत्संज्ञालोपः ] → गोस् [<<एचोऽयवायावः>> 6.1.78 इत्यनेन अवादेशे प्राप्ते, अपवादत्वेन <<ङसिङसोश्च>> 6.1.110 इति पूर्वरूप-एकादेशः ] → गोः [रुत्वम्, विसर्गनिर्माणम्]

Balamanorama

Up

<<ङसिङसोश्च>> - ङसिङसोश्च ।एङः पदान्ता॑दित्यत 'एङ' इति,अती॑ति चानुवर्तते । 'अमि पूर्व' इत्यतः 'पूर्व' इत्यनुवर्तते । 'एकः पूर्वपरयोः' इत्यधिकृतं, तदाह — एङो ङसिङसोरिति । हरेरिति । पूर्वरूपे रुत्वविसर्गौ पञ्चम्येकवचनस्य षष्ठएकवचनस्य च रूपमेतत् । यद्यपि ङसिङसौ द्वौ, एङौ च द्वौ, तथापि न यथासङ्ख्यमिष्यते ।यथासङ्ख्यमनुदेशः समाना, स्वरितेने॑ति सूत्रच्छेदमभ्युपगम्य यत्र स्वरिततं प्रतिज्ञातं तत्रैव यथासङ्ख्याविज्ञानादिति यथासङ्ख्यसूत्रभाष्ये स्पष्टम् । 'अच्च घेः' 'उपसर्गे घोः किः' इत्यादिनिर्देशाच्च । हर्योरिति । षष्ठीद्विवचने यणादेशे रूपम् । हरीणामिति । 'ह्रस्वनद्यापः' इति नुट् ।नामी॑ति दीर्घः ।अट्कुप्वा॑ङिति णत्वम् ।

Padamanjari

Up

एङ् उतरयोरिति। एङ् उतरौ यौ ङसिङ्सौ, तयोर्यः सम्बन्धयकारः, तस्मिन् परत इत्यर्थः। अग्नेरागच्छति, अग्नेः स्वमिति। यद्यपि द्वावेङै, ङसिङसावपि द्वावेव; तथापि यतासङ्ख्यं न भवति, न ह्यत्र ङसिङ्सोः काय विधीयते, किं तर्हि? तत्सम्बन्धिन्यति; स चैक एव। अथापि सम्बन्धिभेदेन तस्य भेदः स्यात् ? एवमपि न दोषः; ठीदग्नेः सोमवरुणयोःऽ,'धातोः' इत्यादिनिर्देशात् ॥