इदुद्भ्याम्

7-3-117 इदुद्भ्याम् ङेः आम्

Sampurna sutra

Up

इदुद्भ्याम् नद्याः अङ्गात् ङेः आम्

Neelesh Sanskrit Brief

Up

ह्रस्व-इकारान्त-ह्रस्व-उकारान्त-नदीसंज्ञकात् शब्दात् परस्य सप्तम्येकवचनस्य ङि-प्रत्ययस्य आम्-आदेशः भवति ।

Neelesh English Brief

Up

The ङि-प्रत्यय gets आमादेश when it comes after a ह्रस्व-इकारान्त or ह्रस्व-उकारान्त नदीसंज्ञक word.

Kashika

Up

इकारोकाराभ्यां नदीसंज्ञकाभ्यामुत्तरस्य ङेरामादेशो भवति। कृत्याम्। धेन्वाम्॥

Siddhanta Kaumudi

Up

नदीसंज्ञकाभ्यामिदुद्भ्यां परस्य ङेराम् स्यात् । पक्षे अच्च घेः <{SK247}> । मत्याम् । मतौ । एवं श्रुतिस्मृत्यादयः ॥

Laghu Siddhanta Kaumudi

Up

इदुद्भ्यां नदीसंज्ञकाभ्यां परस्य ङेराम्। मत्याम्, मतौ। शेषं हरिवत्॥ एवं बुद्ध्यादयः॥

Neelesh Sanskrit Detailed

Up

<<ङिति ह्रस्वश्च>> 1.4.6 इत्यनेन ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दाः ह्रस्व-उकारान्तस्त्रीलिङ्गशब्दाश्च ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञां प्राप्नुवन्ति । एतेषां परस्य ङि-प्रत्ययस्य आम्-आदेशः भवति । यथा - मति + ङि [सप्तम्येकवचनस्य प्रत्ययः] → मति + आम् [<<इदुद्भ्याम्>> 7.3.117 इति आम्-आदेशः ।] → मति + आट् + आम् [<<आण्-नद्याः>> 7.3.112 इति आडागमः ।] → मति + आम् [<<आटश्च>> 6.1.90 इति वृद्धि-एकादेशः ।] → मत्याम् [<<इको यणचि>> 6.1.77 इति यणादेशः ।] ज्ञातव्यम् - प्रश्नः - <<ङेराम्नद्याम्नीभ्यः>> 7.3.116 इत्यनेन सूत्रेण एषः नियमः पूर्वमेव उक्तः अस्ति । अतः अस्य सूत्रस्य का आवश्यकता ? उत्तरम् - अग्रिमसूत्रेण (<<औत्>> 7.3.118 इत्यनेन) ह्रस्व-इकारान्तशब्देभ्यः ह्रस्व-उकारान्तशब्देभ्यः च परस्य ङि-प्रत्ययस्य 'औत्' आदेशः विधीयते । अतः एतत् सूत्रम् न अभविष्यत् चेत् अग्रिमसूत्रेण ह्रस्व-इकारान्त-ह्रस्व-उकारान्त-नदीसंज्ञकात् परस्य ङि-प्रत्ययस्यापि (विप्रतिषेधेन) औत्-एव आदेशः अभविष्यत् । परन्तु तत् तथा मा भूत् इति स्पष्टीकर्तुम् एतत् सूत्रम् निर्मितमस्ति । अ उपप्रश्नः - परन्तु अस्य सूत्रस्य उपस्थितौ अपि विप्रतिषेधेन अग्रिमसूत्रेण औत्-एव आदेशः विधीयते खलु? उत्तरम् - न तथा । एतत् सूत्रमग्रिमसूत्रस्य अपवादः भवति । अनेन सूत्रेण 'नदीसंज्ञकेभ्यः इदुद्भ्यः परस्य ङि प्रत्ययस्य' आदेशः उच्यते, तथा अग्रिमसूत्रेण 'सर्वेभ्यः इदुद्भ्यः परस्य ङि प्रत्ययस्य' आदेशः विधीयते । अतः एतत् सूत्रमग्रिमसूत्रस्य अपवादरूपेण आगच्छति ।

Balamanorama

Up

<<इदुद्भ्याम्>> - इदुद्भ्याम् । 'ङेराम्' इति सूत्रान्नदीग्रहणं ङेरामिति चानुवर्तते । तदाह — नदीसंज्ञकाभ्यामित्यादिना । पक्षे इति । नदीत्वाऽभावपक्षे 'अच्च घेः' इत्यत्वसंनियोगशिष्टमौत्वमित्यर्थः । मत्यां मताविति । नदीत्वे तदभावे च रूपम् । मत्यामित्यत्र संनिपातपरिभाषाया अनित्यत्वाद्यण् । एवं श्रुत्यादय इति । आदिना स्मृत्यादिसग्रहः ।

Padamanjari

Up

नदीग्रहणमिहानुवर्तते । यद्येवम्, अपार्थकमिदम्, पूर्वेणैव सिद्धत्वात्, ततश्च ठिदुद्भ्यामौत्ऽ इत्येकयोग एव कर्तव्यः ? नैवं शक्यम्; औकारो हि स्यात्, नदीलक्षणस्यामोऽवकाशः - कुमार्यामिति, औत्वस्यावकाशः - पत्यौ, सख्याविति; कृत्यामित्यत्र यदा नदीसंज्ञा तदा परत्वादौत्वं प्राप्नोति ॥