परः सन्निकर्षः संहिता

1-4-109 परः सन्निकर्षः संहिता आ कडारात् एका सञ्ज्ञा

Sampurna sutra

Up

परः सन्निकर्षः संहिता

Neelesh Sanskrit Brief

Up

वर्णानाम् आतिशयसान्निध्यम् संहितासंज्ञकं भवति ।

Neelesh English Brief

Up

Extreme closeness of letters is called संहिता.

Kashika

Up

परशब्दोऽतिशये वर्तते। संनिकर्षः प्रत्यासत्तिः। परो यः संनिकर्षो वर्णनामर्धमात्राकालव्यवधानं स संहितासंज्ञो भवति। दध्यत्र। मध्वत्र। संहिताप्रदेशाः — <<संहितायाम्>> ६.१.७२ इत्येवमादयः॥

Siddhanta Kaumudi

Up

वर्णानामतिशयितः सन्निधिः संहितासंज्ञः स्यात् ॥

Laghu Siddhanta Kaumudi

Up

वर्णानामतिशयितः सन्निधिः संहितासंज्ञः स्यात् ॥

Neelesh Sanskrit Detailed

Up

व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति संहिता इति संज्ञा, या प्रकृतसूत्रेण पाठिता अस्ति । द्वयोः वर्णयोः उच्चारणम् आतिशयसान्निध्येन (immediately one after another) क्रियते चेत् तयोः वर्णयोः मध्ये विद्यमानस्य सान्निध्यस्य निर्देशः संहिता इति संज्ञया क्रियते - इति अस्य सूत्रस्य आशयः । यथा, रामः इति शब्दस्य उच्चारणे आहत्य पञ्च वर्णाः सन्ति - र्, , म्, अ, तथा च विसर्गः इति । एतेषाम् सर्वेषाम् वर्णानाम् क्रमेण (विना व्यवधानम्) उच्चारणं क्रियते चेदेव रामः इति शब्दस्य सम्यक् श्रवणम् सम्भवति । अतः अत्ररामः अस्मिन् शब्दे विद्यमानानां वर्णानां प्रत्येकस्मिन् युगले (every pair of adjacent letters) संहिता अस्ति — इति उच्यते । नव्यनायभाषायां <hl>संहिता</hl> इत्यस्य व्याख्या नव्यन्यायभाषायां संहिताशब्दस्य व्याख्या दीयते — स्वभावसिद्धार्धमात्राकालिकव्यवायातिरिक्तव्यवायशून्यत्वम् संहितात्वम् । द्वयोः वर्णयोः उच्चारणयोः मध्ये स्वभावतः अर्धमात्रा इति कालः अवश्यम् एव विद्यते । तस्मात् अधिकः कालः तयोः उच्चारणयोः मध्ये न विद्यते चेत् तयोः मध्ये संहिता अस्ति इति उच्यते - इति अस्याः व्याख्यायाः अर्थः । संहिताशब्दस्य प्रयोजनम् अष्टाध्याय्याम् अनेके विधयः संहितायां सत्याम् एव भवितुम् अर्हन्ति । एते सर्वेऽपि विधयःसंहिताधिकारे पाठिताः सन्ति । एतादृशाः आहत्य त्रयः संहिताधिकाराः अष्टाध्याय्याम् विद्यते । ते एते -

  • 1) <<संहितायाम्>> 6.1.72 इति प्रथमः संहिताधिकारः । अस्य व्याप्तिः <<पारस्करप्रभृतीनि च संज्ञायाम्>> 6.1.157 इति यावत् वर्तते । अस्मिन् अधिकारे स्वरसन्धिविशिष्टानि सूत्राणि विद्यन्ते। सर्वे स्वरसन्धयः संहितायाः उपस्थितौ एव भवन्ति — इति अत्र आशयः । यथा, इति तथा अपि एतयोः द्वयोः शब्दयोः मध्ये संहिता विद्यते चेदेव तकारोत्तस्य इकारस्य <<इको यणचि>> 6.1.77 इत्यनेन यणादेशं कृत्वा इत्यपि इति शब्दः सिद्ध्यति । यदि एतयोः शब्दयोः मध्ये संहिता न विद्यते, तर्हि अत्र यणादेशः अपि न सम्भवति ।
  • 2) <<संहितायाम्>> 6.3.114 इति द्वितीयः संहिताधिकारः । अस्य व्याप्तिः <<द्व्यचोऽतस्तिङः>> 6.3.135 इति यावत् अस्ति । अस्मिन् अधिकारे प्रामुख्येण पूर्वपद-उत्तरपदयोः मध्ये जायमानानि कार्याणि सङ्कलितानि सन्ति । यथा, <<मित्रे चर्षौ>> 6.3.130 इति सूत्रेण विश्व इति पूर्वपदस्य मित्र इति उत्तरपदे परे संहितायाम् सत्याम् एव दीर्घादेशः विधीयते, येन विश्वामित्र इति ऋषेः नाम सिद्ध्यति ।
  • 3) <<तयोर्य्वावचि संहितायाम्>> 8.2.108 इति तृतीयः संहिताधिकारः । अस्य व्याप्तिः अष्टाध्याय्याः अन्तिमं सूत्रं यावत् विद्यते । अस्मिन् अधिकारे प्रामुख्येण हल्सन्धिविशिष्टानि सूत्राणि उक्तानि सन्ति । सर्वे हल्सन्धयः संहितायाः उपस्थितौ एव भवन्ति इति अत्र आशयः । यथा तद् तथा जलम् एतयोः द्वयोः शब्दयोः मध्ये संहिता विद्यते चेदेव दकारस्य <<स्तोः श्चुना श्चुः>> 8.4.40 इत्यनेन श्चुत्वे जकारादेशं कृत्वा तज्जलम् इति शब्दः सिद्ध्यति । यदि एतयोः शब्दयोः मध्ये संहिता न विद्यते, तर्हि अत्र श्चुत्वम् अपि न सम्भवति । संहितायाः नित्यत्वम्, विकल्पः च संहिता आहत्य त्रिषु स्थलेषु नित्या अस्ति । एतेषाम् परिगणनम् एकया कारिकया क्रियते - संहितैकपदे नित्या, नित्या धातूपसर्गयोः । नित्या समासे, वाक्ये तु सा विवक्षामपेक्षते ॥ अस्याः कारिकायाः अर्थः अयम् — 1. एकस्मिन् पदे विद्यमानेषु वर्णेषु संहिता नित्यं भवति । यथा, रामः इत्यत्र रेफ-आकारयोर्मध्ये, आकार-मकारयोर्मध्ये, मकार-अकारयोर्मध्ये, अकार-विसर्गयोर्मध्ये च संहिता नित्या अस्ति, अतः एतेषां वर्णानाम् उच्चारणम् विना-व्यवधानम् एव करणीयम् । 2. धातुः तथा उपसर्गः एतयोः मध्ये संहिता नित्या अस्ति । यथा, आगच्छति इत्यत्र इति उपसर्गस्य तथा च गच्छति इत्यस्य गकारस्य मध्ये संहिता नित्या विद्यते । अतएव आगच्छति इत्यस्य उच्चारणसमये आकारात् अनन्तरम् विना विरामम् एव गकारः उच्चारणीयः । उपसर्गाः स्वयं पदसंज्ञकाः सन्ति । इत्युक्ते, एकस्मिन् पदे इति पूर्वनियमेन उपसर्ग-धातु-सम्बन्धस्य ग्रहणं नैव भवति, अतएव तयोः अत्र विशेषः निर्देशः क्रियते । 3. समस्तपदे विद्यमानयोः पूर्वपद-उत्तरपदयोः मध्ये संहिता नित्यं भवति । यथा, सीतापतिः इत्यत्र सीता इति पूर्वपदम् तथा च पतिः इति उत्तरपदम् - एतयोमर्ध्ये संहिता नित्या अस्ति । 4. वाक्ये विद्यमानयोः पृथक्-शब्दयोः मध्ये वक्तुः इच्छाम् अनुसृत्य संहिता भवति । यथा, फलम् पतति इत्यस्य वाक्यस्य उच्चारणसमये फलम् तथा च पतति एतयोर्मध्ये संहिता विवक्षाम् अनुसरति । यदि अत्र संहिता स्वीक्रियते, तर्हि <<मोऽनुस्वारः>> 8.3.23 इत्यनेन मकारस्य अनुस्वारादेशे कृते फलं पतति इति अनुस्वारघटितम् उच्चारणं करणीयम् । परन्तु यदि एतयोर्मध्ये संहिता न स्वीक्रियते, तर्हि फलम् शब्दस्य उच्चारणात् अनन्तरम् अर्धमात्रातः अधिकं कालं यावत् विरामं स्वीकृत्य ततः पतति अस्य उच्चारणम् करणीयम् । संहिता तथा सन्धिः संहिता तथा सन्धिः एतौ व्याकरणे विद्यमानौ द्वौ पृथक् विषयौ स्तः । संहिता इत्युक्ते वर्णानाम् आतिशयसान्निध्यम्सन्धिः इत्युक्ते वर्णविकारः (वर्णेषु जायमानं परिवर्तनम् इत्याशयः) । सन्धिप्रकरणस्य सर्वाणि सूत्राणि संहिताधिकारे एव वर्तन्ते, अतः संहितायाम् सत्याम् सन्धिः अपि अवश्यम् एव करणीयःसंहिता तथा संयोगः संहिता तथा संयोगः एतौ व्याकरणे विद्यमानौ द्वौ पृथक् विषयौ स्तः । संहिता इत्युक्ते वर्णानाम् आतिशयसान्निध्यम् । संयोगः इत्युक्ते व्यञ्जनानाम् आतिशयसान्निध्यम् । अतः <ब>संयोगः अस्ति चेत् संहिता अवश्यम् एव विद्यते । परन्तु संहिता तु स्वर-व्यञ्जनयोर्मध्ये अपि भवितुम् अर्हति, अतः संहिता अस्ति चेत् संयोगः अपि अस्ति इति न उचितम् । यथा, रामः इति शब्दे रेफ-आकारयोः, आकार-मकारयोः, मकार-अकारयोः मध्ये संहिता विद्यते, परन्तु कुत्रापि संयोगः नास्ति । संहिता तथा विरामः संहिता तथा विरामः एतौ विरुद्धार्थकशब्दौ । यत्र द्वयोः वर्णयोः उच्चारणयोः मध्ये अर्धमात्रायाः एव व्यवधानम् विद्यते (यतः तस्मात् न्यूनं व्यवधानम् नैव शक्यम्), तत्र संहिता अस्ति इति उच्यते । यत्र द्वयोः वर्णयोः मध्ये अर्धमात्रायाः अपेक्षया अधिकं व्यवधानम् अस्ति, उत यत्र द्वितीयः वर्णः एव नास्ति, तत्र विरामः अस्ति इति उच्यते । अस्यैव विरामस्य व्याकरणशास्त्रे <<विरामोऽवसानम्>> 1.4.110 इत्यनेन अवसानम् इति अपि संज्ञा दीयते । <pv>अस्य सूत्रस्य प्रत्याख्यानम् <<विरामोऽवसानम्>> 1.4.110 इत्यस्मिन् सूत्रे भाष्यकारः इति किञ्चन वार्त्तिकं पाठयति । संहिता तथा अवसानम् एते द्वे अपि संज्ञे वेदाध्ययनव्यवहारात् लोके प्रचलिते एव स्तः, अतः एतयोः द्वयोः अपि संज्ञयोः कृते विशिष्टसूत्रनिर्माणम् अनावश्यकम् अस्ति — इति अत्र भाष्यकारस्य आशयः वर्तते । अस्मिन् एव विषये कैयटः प्रदीपे — न अर्थः संज्ञाद्वयविधानेन, तेन विना अपि इष्टस्य सिद्धत्वात् — इति उक्त्वा इदं सूत्रद्वयं प्रत्याचष्टे । <pv>त्रयाणाम् संहिताधिकाराणाम् प्रत्याख्यानम् अष्टाध्याय्यां विद्यमानाः त्रयः अपि संहिताधिकाराः अनावश्यकाः सन्ति इति <<संहितायाम्>> 6.1.72 इति सूत्रस्य विवरणे भाष्यकारः स्पष्टी करोति । अस्मिन्नेव सन्दर्भे संहिताधिकारे च प्रत्याख्याते संहितासंज्ञा अपि प्रयोजनाभावात् प्रत्याख्याता एव इति उक्त्वा कैयटेन संहितासंज्ञायाः अपि प्रत्याख्यानं कृतम् अस्ति । अस्मिन् विषये <<संहितायाम्>> 6.1.72 इति सूत्रस्य सूत्रार्थे विस्तरेण विवरणम् कृतम् अस्ति । ##Balamanorama <<परः सन्निकर्षः संहिता>> - परः संनिकर्षः । परः=अतिशयितः ।दूरानात्मोत्तमाः पराः॑ इत्यमरः । सन्निकर्षः=सामीप्यम् । अर्धमात्राधिककालव्यवधानाऽभावः । अर्धमात्राकालव्यवधानस्याऽवर्जनीयत्वात् । तदेतदभिप्रेत्याह-अतिशयित इत्यादिना । ##Padamanjari परशब्दोऽतिशये वर्तत इति। यथा परं सुखं परं दुःखमिति, दिगादिषु वर्तमानस्य ग्रहणं न भवति सन्निकर्षस्य दिग्देशकालायोगात्। अर्थान्तरापेक्षमन्यत्वम्, अव्यभिचारिसन्निकर्षः प्रत्यासतिरिति, न तु संश्लेषः, तस्य वर्णेष्वसंभवात्। स हि संयोगश्चेद् द्रव्यधर्मत्वान्न शब्दस्य गुणस्य संभवति। समवायश्चेन्न वर्णे वर्णः समवैति; शब्दस्याकाशसमवायित्वात्। येषां तु शब्दो द्रव्यं तेषां न क्वापि शब्दः समवैति। अतिशयोऽपि संयोगसमवाययोः कीद्दश इति न विद्मः। प्रत्यासतेस्त्वपेक्षाभेदात् सम्भवति प्रकर्षाप्रकर्षयोगः, तस्मात्प्रत्यासतिरेव सन्निकर्षः। ननु च क्रमेणोच्चार्यमाणेषु वर्णेषु पूर्वस्य वर्णस्य ये निष्पादकाः स्थानादयस्तेषां व्यापरोपरतौ वर्णान्तरस्य ये निष्पादकास्तेषां व्यापारारम्भः। तत्रावश्यंमध्ये कियत्यपि कालकला भवति, सूक्ष्मत्वातु नोपलभ्यते; पद्मपत्रशतव्यक्तिभेदवत्, तत्कथं परः सन्निकर्ष इत्यत्राह - अर्धमात्राकालव्यवधान इति। सत्यम्, एतावद्व्यवधानमवर्जनीयत्वात्सह्यते, अधिकेन तु कालेन व्यवधानं परग्रहणेन व्यावर्त्यत इत्यर्थः। यद्येवम्, द्रुतायामेव वृतौ स्यान्न मध्यमायां विलम्बितायां वा, न हि तथा तयोः सन्निकर्षो यथा द्रुतायां तुल्यः सन्निकर्षः। सर्वासु वृत्तिषु नैरन्तर्येणोच्चारणाद्यवर्णोपलम्भकभेदातु वृत्तिविशेषः। द्रुतायां स्वल्प उपलब्धिकालः, मध्यमायामधिकः, विलम्बितायामधिकतरः। द्विविधा हि ध्वनयः- प्राकृताः, वैकृताश्च। प्राकृता वर्णानामुत्पादकाः, वैकृते तु पुनः पुनरुपलम्भः, मध्यवर्ती तु कालः सर्वासु वृत्तिषु तावानेव। यद्वा - यस्यां वृतौ यावता कालेन व्यवायोऽवश्यम्भावी, ततोधिकेन व्यवायः परग्रहणेन व्यावर्त्यते। पदस्य पदान्तरेण यदानन्तर्थं तत्रैव लोके संहिताशब्दः प्रसिद्धः। तथा च - संहितामधीते न पदानि, ततश्च कुमार्यावित्यादौ पदावयवे संहिताकार्यं न स्यादितिसूत्रारम्भः॥