2-1-1 समर्थः पदविधिः आ कडारात् एका सञ्ज्ञा
पदविधिः समर्थः (ज्ञातव्यः)
व्याकरणशास्त्रे उक्तः 'पदविधिः' समर्थानाम् विषये एव भवति ।
The 'पदविधि' given in the व्याकरणशास्त्र happens only for the words that exhibit सामर्थ्य (that is, those which are related to each other).
परिभाषेयम्। यः कश्चिदिह शास्त्रे पदविधिः श्रूयते स सर्वः समर्थो वेदितव्यः। विधीयत इति विधिः। पदानां विधिः पदविधिः। स पुनः समासादिः। समर्थः शक्तः, विग्रहवाक्यार्थाभिधाने यः शक्तः स समर्थो वेदितव्यः। अथ वा समर्थपदाश्रयत्वात् समर्थः। समर्थानां पदानां सम्बद्धार्थानां संसृष्टार्थानां विधिर्वेदितव्यः। वक्ष्यति — <<द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः>> २.१.२४ — कष्टं श्रितः, कष्टश्रितः। समर्थग्रहणं किम्? पश्य देवदत्त कष्टम्, श्रितो विष्णुमित्रो गुरुकुलम्। <<तृतीया तत्कृतार्थेन गुणवचनेन>> २.१.३० — शङ्कुलया खण्डः, शङ्कुलाखण्डः। समर्थग्रहणं किम्? किं त्वं करिष्यसि शङ्कुलया, खण्डो देवदत्त उपलेन। <<चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः>> २.१.३६ — यूपाय दारु, यूपदारु। समर्थग्रहणं किम्? गच्छ त्वं यूपाय, दारु देवदत्तस्य गेहे। <<पञ्चमी भयेन>> २.१.३७ — वृकेभ्यो भयम्, वृकभयम्। समर्थग्रहणं किम्? गच्छ त्वं मा वृकेभ्यः, भयं देवदत्तस्य यज्ञदत्तात्। <<षष्ठी>> २.२.८ — राज्ञः पुरुषः, राजपुरुषः। समर्थग्रहणं किम्? भार्या राज्ञः, पुरुषो देवदत्तस्य। <<सप्तमी शौण्डैः>> २.१.४० — अक्षेषु शौण्डः, अक्षशौण्डः। समर्थग्रहणं किम्? शक्तस्त्वमक्षेषु, शौण्डः पिबति पानागारे। पदग्रहणं किम्? वर्णविधौ समर्थपरिभाषा मा भूत्। तिष्ठतु दध्यशान त्वं शाकेन। तिष्ठतु कुमारीच्छत्रं हर देवदत्तात्। यणादेशो नित्यश्च तुग् भवति॥
पदसम्बन्धी यो विधिः स समर्थाश्रितो बोध्यः ॥
पदसंबन्धी यो विधिः स समर्थाश्रितो बोध्यः॥
<<समर्थः पदविधिः>> - अथ समासेष्वव्ययीभावः । तदेवं विभक्त्यर्थं निरूप्य तदाश्रितसमासान्निरूपयिष्यंस्तदुपोद्धातत्वेनाह समर्थः पदविधिः । विधीयते इति विधिः-कार्यम् । पदस्य विधिः पदविधिरिति शेषषष्ठआ समासः । तदाह-पदसंबन्धी यो विधिरिति । समर्ताश्रित इति । सूत्रे समर्थशब्दः समर्थाश्रिते लाक्षणिक इति भावः । सामर्थ्यं द्विविधम्-व्यपेक्षालक्षणमेकार्थीभावलक्षणं च । तत्र स्वार्थपर्यवसायिनां पदानामाकाङ्क्षादिवशाद्यः परस्परान्वयस्तद्व्यपेक्षाभिधं सामर्थ्यम्, विशिष्टा अपेक्षा व्यपेक्षेति व्युत्पत्तेः । संबद्धार्थः समर्थ इति व्युत्पत्तेश्च । इदं च राज्ञः पुरुष इत्यादिवाक्य एव भवति । तत्र च एकैकस्य शब्दस्य यो यः संनिहितो योग्यश्च तेन तेनान्वयो भवति । यथा राज्ञः पुरुषोऽआश्चेति, राज्ञो देवदत्तस्य च पुरुष इति, ऋद्धस्य राज्ञः पुरुष इति च । एकार्थीभावलक्षणसामर्थ्यं तु प्रक्रियादशायां प्रत्येकमर्थवत्त्वेन पृथग्गृहीतानां पदानां समुदायशक्त्या विसिष्टैकार्थप्रतिपादकतारूपम् ।सङ्गतार्थः समर्थः॑,संसृष्टार्थः समर्थ॑ इति व्युत्पत्तेः । सङ्गतिः संसर्गश्च एकीभाव एव । यथा-सङ्गतं घृतं तैलेनेति । एकीभूतमिति गम्यते । यथा वा संसृष्ट#ओऽग्निरिति । एकीभूत इति गम्यत इति भाष्याच्च । इदंच सामर्थ्यं राजपुरुष इत्यादिवृत्तावेव । अत एव 'ऋद्धस्य राजपुरुष' इत्येवं राज्ञि पुरुषविशेषणे ऋद्धत्वविशेषणं नान्वेति, विशिष्टस्य एकपदार्थतया राज्ञः पदार्थैकदेशत्वात् ।देवदत्तस्य गुरुकुल॑मित्यत्र तु उपसर्जनस्य नित्यसापेक्षत्वात्समासः । यद्वा गुरुवद्देवदत्तोऽपि विशेष्ये प्रदाने कुल एवान्वेति । तत्र गुरुणा कुलस्य उत्पाद्यत्वसंबन्धेनान्वयः । देवदत्तेन तु कुलस्य तदीयगुरूत्पाद्यतयाऽन्वयो गुरुगर्भः । उक्तं च हरिणा-॒संबन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते । वाक्यवत्सा व्यपेक्षा हि वृत्तावपि न हीयते ।॑ इति । समुदायेन संबन्धो येषां गुरुकलादिना । संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह.॑ इति च ।एतेन 'अयश्शूल' इति सूत्रे भाष्येशिवस्य भगवतो भक्तः॑ इत्यर्थे 'शिवभागवतः' इत्यादि व्याख्यातम् । एकार्थीभावश्चाऽयमलौकिकविग्रहवाक्ये कल्प्यते । यथा लादेशभूतशतृशानचोरप्रथमासामानाधिकरण्यं लकारेऽपि कल्प्यते तद्वत् । अत एवलस्य अप्रथमासमानाधिकरणेनार्थेनाऽयोगादादेशानुपपत्तिः, तस्य क्वापि प्रयोगाऽभावा॑दि त्याक्षिप्यआदेशे सामानाधिकरण्यं दृष्ट्वा अनुमानाद्गन्तव्यं प्रकृतेरपि तद्भवति ॑ इति 'लटश्शतृशानचौ' इति सूत्रभाष्ये समाहितम् ।सिद्धानां शब्दानामन्वाख्यानात् पचन्तं देवदत्तं पश्येत्यादिप्रयोगदर्शनात् स्थानिनोऽपि लस्य प्रक्रियार्थं कल्पितस्य बोधकत्वकल्पना सूचिता । अलोकिकविग्रहवाक्ये श्रूयमाणानां च शब्दानां कॢप्तशक्तित्यागे मानाऽभावात् प्रत्येकशक्तिसहकृतया समुदायशक्त्या विशिष्टोपस्थितिः । ततश्च यमेकार्थीभावोऽजहत्स्वार्था वृत्तिरिष्यते । वृत्तिविषये पदानां प्रत्येकमनर्थकत्वमाश्रित्य जहत्स्वार्था वृत्तिस्तु नाश्रयितुं युक्ता, महाबाहुः, सुपन्था इत्यादौ आत्त्वाद्यनापत्तेः, वृत्तौ महादादिशब्दानामनर्थकत्वादर्थवद्ग्रहणसंभवे अनर्थकस्य 'आन्महतः' इत्यादौ ग्रहणाऽयोगात् । तदुक्तम् — ॒जहत्स्व#आर्था तु तत्रैव यत्र रूढिर्विरोधिनी॑ इति । अवयवार्थविरुद्धो यत्र समुदायार्थस्तत्रैव सेति तदर्थः । यथा अआकर्णमण्डपादौ । विस्तरस्तु शब्देन्दुशेखरे मञ्जूषायां चानुसंधेयः । समर्थः किम् । पश्य कृष्णं, श्रितो रामं मित्रम् । अत्र कृष्णश्रितयोः परस्परान्वयाऽभावाद्विशिष्टैकार्थोपस्थित्यजनकत्वान्न सामर्थ्यम् ।
परिभाषेयमिति। नाधिकारः, पदविधिग्रहणात्, अन्यथा वक्ष्यमाणानां पराङ्वद्भावदीनां पदविधित्वाव्यभिचारादनर्थकं तत्स्यात्। परितः उ सर्तत्र, परत्र, व्यवहिते च, अनन्तरे च - भाष्यते कार्यमानयेति करणे'गुरोश्च हलः' अत्यकारप्रत्ययः। भावसाधन एव वाऽभेदोपचारात्सूत्रे प्रयुज्यते। इदंशब्दस्य सूत्रे प्रयुक्तस्यापि विधेयपरिभाषाशब्दसामानाधिकरण्यात् स्त्रीलिङ्गता। स कर्व इति। ननु यः कश्चित्पदविधिरिति सामान्यनिर्देशेनैव तध्दर्मभूता व्याप्तिरुक्ता, किं कर्मग्रहणेन? नैतदस्तिः'यः कश्चिद् ब्राह्मण आनीयताम्' इत्युक्ते क्षत्रियादिनिवृत्तिः प्रतीयते, न व्याप्तिः। प्रथमपठितमपि समर्थसब्दमुल्लङ्घ्योद्देश्यसमर्पकत्वबलादार्थेन क्रमेण प्रथमे भाविनं पदविधिशब्दं व्याख्यास्यान्विधिशब्दः कर्मसाधन इति दर्शयति-विधीयत इति विधिरिति। कार्यमित्यर्थः। पदानामिति। शेषलक्षणा षष्ठी। पदानां सतां यत्कार्यं विधीयत इत्यर्थः। यदि तु भावसाधनो विधिशब्द आश्रीयेत-विधानं विधिरिति, ततः पदेषु कृद्योगलक्षणा कर्मणि षष्ठ ई-पदानामसतां निष्पादनं पदविधिरिति, तत्र समासतध्दितसुब्धातुवृतयो न संगृहीताः स्युः। तत्र हि पदानां सतां समासादिकार्यं विधीयते, न पुनः पदत्वम्। ननु च कर्मसाधनपक्षेऽपि विभक्तिविधानमसंगृहीतं स्यात्, पदान्येव हि तत्र विधीयन्ते न तु पदानां सतां किञ्चिद्? उच्यते-ठ्कर्मणि द्वितायाऽ इत्यादिना तु नियमः क्रियते, न पदविधिः। अथाप्येकवाक्यतया स्वादिसूत्रेण विभक्तीनां विधानम्? एवमपि कारकविभक्तिषु तावत्क्रियाकारकयोरविनाभूतः सम्बन्धः, उपपदविभक्तीनां तु ठनतरान्तरेणयुक्तेऽ इत्यादीनामुपसर्गविभक्तीनां च'नेर्विशः' इत्यादीनामेकवाक्यतायां भिन्नवाक्यतायां च पदविधित्वमस्त्येव; उपपदानामुपसर्गाणां च पदत्वात्। समासादिरित्यादिशब्देन तध्दितवृत्यादीनां ग्रहणम्, तध्दिता अपि सुबन्तादुत्पद्यन्ते।'समर्थानां प्रथमाद्वा' इत्यस्य तु समर्थग्रहणस्य प्रयोजनं तत्रैव वक्ष्यामः। एवम् ठिसुसोःऽ सामर्थ्येऽ इत्यादीनामपि समर्थः शक्त इति; तत्रैव समर्थसब्दस्य रूढत्वात्। स्वकार्यनिष्पादनक्षमो हि लोके'समर्थः' इत्युच्यते। अर्थप्रतिपादनं च शब्दानां स्वकार्यव्युत्पाद्यत्वेन चाधिकृता लौकिकाः वैदिकाञ्च यस्य कस्यचित्प्रतिपादने समर्थाः, उच्यते चेदं समर्थ इति, तत्र सामर्थ्याद्विशेषोऽवगम्यते, स तु विशेषः प्रत्यासतेरेवंरूप इत्याह-विग्रहवाक्यार्थाभिधाने इति। विशेषेण गृह्यते उ ज्ञायतेऽनेन समासार्थ इति विग्रहः। तादृशं च तद्वाक्यं चेति विशेषणसमासः। यद्वा-विशेषेण ग्रहणं विग्रहः, तदर्थं वाक्यं विग्रहवाक्यम्, अश्वघासादिवत्षष्ठीसमासः। अथ वा-अभेदोपचाराद्विग्रहार्थवाक्यं विग्रह इति विशेषणसमासः, तद्यथा-राजपुरुष इत्ययं समासः, तदर्थं विग्रहवाक्यं राज्ञः पुरुष इति, अस्य योऽर्थस्तदभिधाने राजपुरुषशब्द समर्थः, अतोऽपि तत्प्रतीतेः, स पुना राजविशिष्टः पुरुषः। समर्थो वेदितव्य इति। साधुत्वेनेति शेषः। यः पदविधिः स विग्रहवाक्यार्थाभिधाने समर्थः सनासाधुर्भवतीत्यस्मिन्पक्षे सूत्रार्थः, नार्थान्तरं साधीयः पश्यामः। ततु सामर्थ्यं प्रयोगतोऽनुसर्तव्यम्। न पुनरियं वृत्तिरस्य वाक्यस्यार्थाभिधानसमर्था, नान्यस्येत्येतत्सूत्राक्षरैर्लभ्यते। अत एवास्मिन्व्याख्यानेऽपरितुष्टः सन्व्याख्यानान्तरमाह - अथ वेति। अत्र पक्षे उपचरितवृत्तिः समर्थशब्दः, तदाहसमर्थपदाश्रयत्वादिति। समर्थानां पदानां सम्बध्दार्थानां संसृष्टार्थानासिति। यः पदानां विधिः स समर्थानअं विदितव्यः। समर्थानामिति कोऽर्थः? संबध्दार्थानां संसृष्टार्थानां वेत्यर्थः। तत्र वाक्ये संबध्दार्थता। व्यपेक्षा हि तत्र सामर्थ्यम्। अन्योऽन्यापेक्षा उ व्यपेक्षा। आकांक्षामन्निधियोग्यत्वेषु सत्सुः यः परस्परसम्बन्धः सा व्यपेक्षा। वाक्ये हि राज्ञःऽ इति पदनियतसंबन्ध्यपेक्षयोद्भूतसंबन्धं विशेषणभूतमर्थमाचष्टे, स्वसंनिहितं योग्यं च पुरुषमपेक्षते। ममायमिति'पुरुषः' ईत्येनेनापि पुरुषः स्वनिष्ठोऽभिधीयमानः स्वसंनिहितं राजत्वमवच्छेदकत्वेनापेक्षते-अहमस्येति। अतो विशेषणविशेष्यभावेन सम्बन्धोऽनियतसंबन्धिविषयत्वाच्चापेक्षया यो यः सन्निहितो योग्यश्च तेन सम्बध्यते-राज्ञः पुरुश्चाश्चश्च, राज्ञो देदतस्य च पुरुष इति, नार्थान्तरस्य। वृतो तु संसृष्टार्थता। एकार्थीभावो हि तत्र सामर्थ्यम्। वृतौ हि राजपदं राजानमभिधाय न तावति पर्यवस्यति, पुरुषमप्याचष्टे, यथा-ठ्गङ्गायां घोषःऽ इति गङ्गापदं तीरम्। यदि तु तावत्येव पर्यवस्येततो यथा वाक्ये राज्ञः पुरुषोऽश्वश्चेति द्वाभ्यां सम्बन्धो भवति, तथा राजपुरुषोऽश्वश्चेत्यत्रापि स्यात्। स्वविशेषणसम्बन्धोऽपि स्याद्-ऋध्दस्य राडपुरुष इति यथा ऋध्दस्य राज्ञः पुरुष इति तथा पुरुषपदमपि राजविशिष्टमेव पुरुषमाचष्टे, न पुरुषमात्रम्। यदि तथा स्याततो यथा वाक्ये राज्ञः पुरुषो देवदतस्य चेति द्वाभ्यां सम्बन्धो भवति, तथा रापुरुषो देवदतस्य चेत्यपि स्यात्। अतो यस्य विशेषस्य भावादयं विशेषः स एकार्थीभावः। भाष्योक्ताश्चापरे विशेषाः-ठ्सुबलोपो व्यवधानं यथेष्टमन्यतरेणाभिसम्बन्धः स्वरभेदश्च संख्याविशेषो व्यक्ताभिधानमुपसर्जनविशंषणं च योगश्च ऽ इति। तथा सुपि अलोपश्च भवति वाक्ये-राज्ञः पुरुषः, नीलमुत्पलमिति समासे तु द्योरेकस्मिन्विशिष्टेऽर्थे वृतेः पृथगर्थाभावात्स्वभावत एव विभ्क्तनिवर्तते। सैव च स्वाभाविकी निवृत्तिः शास्त्रेणान्वाख्यायते-ठ्सुपो धातुप्रातिपदिकयोःऽ इति प्रत्ययलक्षणेन नलोपादिकार्थं यथा स्यादिति। पृथगर्थाभावे तु पथग्विभक्तिर्न भवति। तथा वर्णेषु व्यवधानं च पृथगपर्थत्व एव दृष्टः - राज्ञः पुरुष इति द्वावपि नित्स्वरेणाद्यौदाती। अभेदेन दृष्टः, यथा - पुरुष इति वृतौ चैकस्वर्यं दृश्यते। किं च, संख्याविशेषोऽवगम्यते पृथगरेथेषु - राज्ञः राज्ञोः राज्ञां पुरुष इति। वृतौ त्वव्यक्तमभिधानं विष्ठति, ब्राह्मणकम्बल इति मन्देहो भवति-संबुध्दिर्वा स्यात्? षष्ठीसमासो वा? इति, न चात्रस्वरान्नर्णयः। वाक्येऽप्यामन्त्रितनिघातः कम्बलशब्दो घृतादितावादन्तोदातः, समासेऽप्यन्तोदातता। उपसर्जनविशेषणं च व्याख्यातम्। योगश्च भवति पृथगर्थेषु-राज्ञो गौश्चाश्चश्च कम्बलश्चेति। वृतौ त्वेकार्थ्याद्भेदनिबन्धनस्य समुच्च यस्याभावाच्चशब्दो निवर्तत-राज्ञो गवाश्वकम्बला इति, तदेतैर्विशेषैर्वज्ञायते संभिन्नोभयरूपः पासूदकवदविभागापन्नो वृतावर्थ इति। तेन राज्ञः पुरुषमानय राजपुरुषमानयेति च यद्यचप्येक एवानीयत इति कार्ययोगिनोऽभेदस्तथाच्यभिधानप्रकारो भिद्यते, यथा-ब्राह्मणानां शतं भोज्यतामिति। तदेवं वृत्तिवाक्ययोरर्थो भिद्यत इति स्थितम्। एवं च त्र तत्र वावचनं चिन्त्यप्रयोजनम्; भिन्नार्थया वृत्या वाक्यस्य बाधाऽप्रसङ्गात्। अन्ये तु जहत्स्वार्था वृत्तिरिति वदन्तो वर्तिपदानामानर्थक्यमेवाहुः, ततु न रोचयामहे। किं राजपुरुष इत्यत्र राजार्थो न गम्यते? ओमिति चेत्, पुरुषमात्रानयनं प्राप्नोति। अथ गम्यते? किंनिबन्धना तस्यावगतिः? न तावत् समासस्य तत्र शाक्तिः कल्प्या; राजशब्दनिबन्धनायामपि तस्यामनर्थाभावात्। न च वाक्ये राजपदं व्युत्पन्नं पुनः समासे वियुत्पत्तिमपेक्षते, तावत्येव च प्रतिपद्यते राजार्थः। अते न जहत्स्वार्था वृत्तिः, अर्थाभिधानप्रकारभेद इत्येतदेव सांप्रतम्। तत्र सम्बध्दार्थानां संसृष्टार्थानामिति स्थतं परिभाषाप्रवृतौ हेतुर्नान्यतरत्, यतो मा भूद्व्यपेक्षामात्राश्रयेण सापेक्षस्यापि वृत्तिः। यदेयेवम्, पराङ्गवद्भावे विभक्तिविधाने च सा न प्रवर्तेत; तत्रैकार्थीभावस्यासम्भवात्। मा प्रवर्तिष्ट, पराङ्गवद्भावेत्न्निमितग्रहणं नोदयिष्यति। विभक्तिविधानेऽपि क्रियाकारकयोर्व्यपेक्षाऽविनाभाविनी क्वचिद्यौक्तग्रहणम्; क्वचिद्योगग्रहणम्, क्वचित्-तृतीयया योगस्याक्षेप इति न क्वापि दोषः। अत एवानन्तरमपि पराङ्गवद्भावमुल्लङ्घ्य समासमुदाहरति - वक्ष्यतीति। समर्थग्रहणं किमिति। सूत्रं किमर्थमित्यर्थः। न हि केवलेन पदविधिग्रहणेन किञ्चत्क्रियते। पश्येत्यादि। ननु च श्रितादिभिर्द्वितीयां विशेषयिष्यामः-श्रितादियोगे या द्वितीयोति। एवमपि सापेक्षस् प्रसङ्गः-महत्कष्ट्ंअ श्रित इति, भवति ह्यत्र श्रितादिनिमिता द्वितीया, समर्थग्रहणे तु सति न भवति। यद्यप्यत्र वाक्यावस्थायां व्यपेक्षानक्षणसामर्थ्यमस्ति, वृत्यवस्थायान्तु नैकार्थीभावः संभवतीत्यवोचाम। कथं तर्हि देवदतस्य गुरुकुलमिति सापेक्षस्य वृत? नात्र गुरुण देवदतस्य सम्बन्धः; किं तर्हि? समुदायेन, गुरुद्वारकश्च सुलेन सम्बन्ध इत्यर्थाद् गुरुणापि योगो भवति। उक्तं च- समुदायेन सम्बन्धो येषां गुरुकुलादिना। संस्पृश्यावयवांस्तेऽपि युज्यन्ते तद्वता सह॥ इति अथ वा - परिपरूर्णार्थस्यान्येन सहैकार्थीभावः स्वार्थपरिपूर्तिश्च समाबन्धि शब्दस्य प्रतियोगिनेति भवति तदपेक्षस्यापि वृत्तिः। उक्तं च - सम्बन्धिशब्दः सापेक्षो न्त्यं सर्वः प्रयुज्यते। स्वार्थवत्सा व्यपेक्षाऽस्य वृतावपि न हायते॥ इति किं त्वं करिष्यसीत्यादि अत्र शक्यं वक्तुम्। तत्कृतार्थेनेति। तच्छब्दः प्रकृतपरार्म्शाय तृतीयान्तं समस्यत - तदर्थेन यः कृचो गुणस्तद्वचनेनेति। अत्र च यस्य समासः शह्क्यते - शंकुलयेति, न तदर्थेन कृतं खण्डनम्; यदथंन च कृतं खण्डनमुपलेनेति, न तस्य समासः शङ्क्यचेति न भविष्यतीति। तस्मान्महत्या शंकुलया खण्ड इति सापेक्षमुदाहर्तव्यम्। गच्छ त्वं यूपायेति।'गत्यर्थकर्मणि' इति चतुर्थी। तद्वा-ठ्क्रियार्थापपदस्य च कर्मणिऽ इति, यूपमाहर्तु गच्छेति, अत्राप्येतदर्थत्वादेव दारुणो न भविष्यतीति सापेक्षं प्रत्युदाहर्तव्यम्-महते यूपाय दार्विति। यणादेशो नित्यश्च तुग्भवतीति। द्वावप्येतौ वर्णविधी, नित्यस्तुक् च'दीर्घात्' इत्यायमेव, यस्तु'पदान्ताद्वा' इति विकल्पितस्तुक् स पदविधित्वादत्र न भवति। अन्ये तु यणादेशोऽनित्यश्च तुगभवतीत्यकारप्रश्लेषं वर्णयन्तः'पदान्ताद्वा' इति विकल्पितस्तुग्भवतीति व्याचक्षते। नन्वसौ पदविधिर्नेति? आह-तत्रन्तग्रहणं एवं सिध्देऽन्तग्रहणस्यैतत्प्रयोजनम्-पदान्तस्य दूर्घस्य वर्णस्य विधिस्तुग् यथा स्याति, दीर्घान्तस्य पदस्य मा भूदिति॥