सन्वल्लघुनि चङ्परेऽनग्लोपे

7-4-93 सन्वत् लघुनि चङ्परे अनग्लोपे अभ्यासस्य

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

लघुनि धात्वक्षरे परतो योऽभ्यासः तस्य चङ्परे णौ परतः सनीव कार्यं भवति अनग्लोपे। <<सन्यतः>> 7.4.79 इत्युक्तम्, चङ्परेऽपि तथा। अचीकरत्। अपीपचत्। <<ओः पुयण्ज्यपरे>> 7.4.80 इत्युक्तम्, चङ्परेऽपि तथा। अपीपवत्। अलीलवत्। अजीजवत्। <<स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा>> 7.4.81 इत्युक्तम्, चङ्परेऽपि तथा। असिस्रवत्, असुस्रवत्। अशिश्रवत्, अशुश्रवत्। अदिद्रवत्, अदुद्रवत्। अपिप्रवत्, अपुप्रवत्। अपिप्लवत्, अपुप्लवत्। अचिच्यवत्, अचुच्यवत्। लुघुनि इति किम्? अततक्षत्। अररक्षत्। जागरयतेः अजजागरत्। अत्र केचिद् गशब्दम् लघुमाश्रित्य सन्ववद्भाम् इच्छन्ति, सर्वत्रैव लघोरानन्तर्यमभ्यासेन न अस्तीति व्यवधानेऽपि वचनप्रामाण्याद् भवितव्यम्, तदसत्। येन न अव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यातित्येकेन व्यवधानमाश्रीयते, न पुनरनेकेन। यद्येवम्, कथमचिक्षणतिति? आचार्यप्रवृत्तिर्ज्ञापयति भवत्येवं जातीयकानाम् इत्त्वम् इति। यदयं तद् बाधनार्थं सम्रत्यादीनामत्वम् विदधाति। चङ्परे इति किम्? अहं पपच। परग्रहणं किम्? चङि एव केवले मा भूत्, अचकमत। अनग्लोपे इति किम्? अचकथत्। दृषदमाख्यातवानददृषत्। वादितवन्तं प्रयोजितवानवीवददित्यत्र योऽसौ णौ णेर्लोपो नासावग्लोप इत्याश्रीयते। किं कारणम्? चङ्परे इति णिजातेर्निमित्तत्वेन आक्षेपात्, ततोऽन्यस्य अको लोपः परिगृह्यते। मीमादीनामत्र ग्रहणात् सन्वद्भावेन अभ्यासलोपो न भवति इत्युक्तम्। किं च सन्वतिति सनाश्रयं कार्यमतिदिश्यते, न च लोपः सनम् एव अपेक्षते, किं तर्हि, इस्भावाद्यपि। तदभावातमीमपतित्यादौ अभ्यासलोपो न भविष्यति।

Siddhanta Kaumudi

Up

चङ्परे इति बहुव्रीहिः । स चाङ्गस्येति च द्वयमप्यावर्त्तते । अङ्गसंज्ञानिमित्तं यच्चङ्परं णिरिति यावत् तत्परं यल्लघु तत्परो योऽङ्गस्याभ्यासस्तस्य सनीव कार्यं स्यात् णावग्लोपेऽसति । अथवाऽङ्गस्येति नावर्तते । चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरस्तस्येत्यादि प्राग्वत् ॥

Laghu Siddhanta Kaumudi

Up

चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरः, तस्य सनीव कार्यं स्याण्णावग्लोपेऽसति॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

'लघुनि चङ्परे' इति व्यधिकरणे सप्तम्यौ, न सामानाधिकरणे; चङ्परस्य लघुनोऽसम्भवात् । चङ्परे णौ परत इति । कृथं पुनर्णाविति लभ्यते ? चङ्परस्यान्यस्यासम्भवात् । ननु चाचकमतेत्यत्र मकारः । सम्भवति, अदुद्रुवद्, असुस्रवदित्यत्र वकारः ? एवं तर्हि'चङ्परे' इत्यङ्गस्य विशेषणम् - चङ्परे यदङ्गं तस्य योऽभ्यासस्तस्य सन्वत्कार्यं भवति । लघुनि धात्वक्षर इति । चङ्परे णौ यदङ्गं तस्य सम्बन्धि यल्लघ्वित्यर्थः । सामर्थ्याण्ण्यन्तस्य ग्रहणमिते । णेः समीपभूतस्याङ्गस्य ग्रहणमित्यर्थः । ण्यन्तस्यावयवभूतं यदङ्गं तस्य ग्रहणमिति वा । अनग्लोप इति । नास्मिन्नग्लोपो विद्यत इति अनग्लोपः । एतच्च'चङ्परे' इत्यनेन समानाधिकरणम् । तेनायमर्थः - चङ्परे णावको लोपेऽसतीति । अततक्षदित्यत्र संयोगपरत्वाद् गुरुसंज्ञया लघुसंज्ञाया बाधः, अजजागरदित्यत्र आकारः । परः । अत्र केचिदित्यादि । ननु च गकारो जाशब्देन व्यवहितः ? अत आह - सर्वत्रैवेति । अचीकरदित्यादावपि ककारादिना व्यवधानाल्लघोरानन्तर्यं नास्ति, ततश्च वचनप्रामाण्याद्व्यवधान एव सन्वद्भावेन भवितव्यमिति तेषामभिप्राय इत्यर्थः । दूषयति - तदसदिति ॥ यदि तहि वर्णसङ्घातेन व्यवधानं नाश्रीयते व्यञ्जनसङ्घातेनापि व्यवधाने न सिध्यतीति मन्यमानः पृच्छति - कथमिति । एवञ्जातीयकानामिति । संयोगव्यवहितानामित्यर्थः । अचकमतेति ।'कमेरुपसंख्यानम्' इति च्लेश्चङदेशः । अचकथदिति ।'कथ वाक्यप्रबन्धे' चुरादावदन्तः, ठतो लोपःऽ । अत्राल्लोपस्य स्थानिवद्भावे सति व्यवधानान्न भविष्यति, अतः प्रत्युदाहरणान्तरोपन्यासः । अददृषदिति ।'तदाचष्टे' इति णिच इष्ठवद्भावेन टिलोपः । अत्राज्झलोर्लोपः, नाच एव केवलस्येति नास्ति स्थानिवद्भावः । एतदर्थं च ठनग्लोपेऽ इत्येतत्क्रियमाणमचकथदित्यत्र सन्वद्भ्वावं निवर्तयतीति तस्योपन्यासः । यदि चङ्परे णौ यदङ्गं तस्य यल्लघु तत्र परतोऽभ्यासस्य सन्वद्भावो विधीयते, वादितवन्तं प्रयोजितवानवीवददित्यत्रापि तर्हि न प्राप्नोति, किं कारणम् ? यश्चङ्परो णिर्न तत्र लघुः; पूर्वेण णिचा व्यवहितत्वात् । लोपे कृते नास्ति व्यवधानम् । अजादेशः पूर्वविधौ स्थानिवद् भवतीति स्थानिवद्भावाद्व्यवधानमेव । यद्यपि दीर्घविधिं प्रति स्थानिवद्भावो निपिद्धः, सन्वद्भावे तु प्राप्नोति । यस्मिंश्च णौ लघुर्नासौ चङ्परः; द्वितीयेन णिचा व्यवहितत्वात् । भवतु वा स्थानिवत्वनिषेधः, अग्लोपित्वान्न प्राप्नोति । वृद्धौ कृतायां णेलेपिः, तन्नाग्लोप्यङ्गं भवति । अग्लोपि वास्तु, प्रागेव वृद्धेर्णिलोपे कृते ? तत्रापि परिहारमाह - योऽसौ णौ णेर्लोप इत्यादि । ततोऽन्योऽग्लोप इति अन्याकारोऽन्य उक्तः । जात्याश्रयणे हि गोबलीवर्दन्यायेन णिजातेनिंमितत्वेन परिगृहीताया अन्यस्याको लोपः प्रतिषेधविषयः परिगृह्यते, न तु तस्या णिजातेः; ततश्चास्य लोपस्याग्लोपत्वेनानाश्रयणाअतेनाग्लोप्यङ्गं न भवतीति भवत्येवात्र सन्वद्भावः । मीमादीनामत्र ग्रहणादिति । तत्र ह्यचेति ठभ्यासलोपश्चऽ इत्येव सिद्धेऽत्रग्रहणं विषयावधारणार्थम् । अत्र मुख्ये सन्येव भवति, न सन्वद्भावविषय इति । किञ्चेत्यादि । अनेनेदमाह - न केवलं मुख्यसन्परिग्रहमात्रमत्र कारणम्, किं तर्हि ? हस्भावद्यपि विषयत्वेन निर्दिश्यते । इह च धातोः सन्वद्भावादिस्भावादि न भवति, ततश्चाभ्यासलोपोऽपि न भवतीति । यद्वा - सकारादौ सन्यभ्यासलोपो विहितः, न सन्मात्रे, ततश्च सामान्यातिदेशे विशेषानतिदेशात् लोपाभावः ॥