षष्ठीयुक्तश्छन्दसि वा

1-4-9 षष्ठीयुक्तः छन्दसि वा आ कडारात् एका सञ्ज्ञा पतिः

Sampurna sutra

Up

षष्ठीयुक्तः पति छन्दसि घि वा

Neelesh Sanskrit Brief

Up

षष्ठ्यन्तपदेन युक्तः "पति" शब्दः वेदेषु विकल्पेन घि-संज्ञकः भवति । यथा - क्षेत्रस्य पतिना, क्षेत्रस्य पत्या ।

Neelesh English Brief

Up

The word पति, when associated with a word of षष्ठी विभक्ति, optionally gets the term घि in वेदाः.

Kashika

Up

पतिरिति वर्तते। पूर्वेण नियमेनासमासे न प्राप्नोतीति वचनमारभ्यते। षष्ठ्यन्तेन युक्तः पतिशब्दः छन्दसि विषये वा घिसंज्ञो भवति। कुलु॒ञ्चानां॒ पत॑ये॒ नमः॑ (तै०सं० ४.५.३.१)। कुलुञ्चानां पत्ये नमः। षष्ठीग्रहणं किम्? मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथासः॑ (ऋ० १०.८५.३६)। छन्दसीति किम्? ग्रामस्य पत्ये॥

Siddhanta Kaumudi

Up

षष्ठ्यन्तेन युक्तः पतिशब्दश्छन्दसि घिसंज्ञो वा स्यात् । क्षेत्रस्य पतिना वयम् (क्षेत्र॑स्य पति॑ना व॒यम्) । इह वेति योगं विभज्य छन्दसीत्यनुवर्तते । सर्वे विधयश्छन्दसि वैकल्पिकाः । तेन बहुलं छन्दसि - <{SK3401}> इत्यादिरस्यैव प्रपज्ञः । यचि भम् <{SK231}> ॥<!नभोऽङ्गिरोमनुषां वत्युपसंख्यानम् !> (वार्तिकम्) ॥ नभसा । तुल्यं नभस्वत् । भत्वाद्रुत्वाभावः अङ्गिरस्वदङ्गिरः (अ॒ङ्गि॒र॒स्वद॑ङ्गिरः) । मनुष्वदग्ने (म॒नु॒ष्वद॑ग्ने) । जनेरुसिः <{उ272}> इति विहित उसिप्रत्ययो मनेरपि बाहुलकात् ।<!वृषण्वस्वश्वयोः !> (वार्तिकम्) ॥ वृषन् वर्षुकं वसु यस्य स वृषण्वसुः । वृषा अश्वो यस्यासौ वृषणश्वः । इहान्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वे सति नलोपः प्राप्तो भत्वाद्वार्यते । अत एव पदान्तस्य <{SK198}> इति णत्वनिषेधोऽपि न । अल्लोपोनः <{SK234}> इत्यल्लोपो न । अनङ्गत्वात् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

ह्रस्व-इकारान्तस्य पति-शब्दस्य <<पति समास एव>> 1.4.8 इत्यनेन घिसंज्ञायाः निषेधे प्राप्ते, वैदिक-प्रयोगाणां साधुत्वार्थम् अस्य शब्दस्य केषुचन स्थलेषु विकल्पेन घिसंज्ञा इष्यते । तदर्थम् एव प्रकृतसूत्रस्य निर्माणं कृतम् अस्ति । षष्ठ्यन्त-शब्दस्य अन्वये विद्यमानस्य पति-शब्दस्य विकल्पेन घिसंज्ञा भवति - इति सूत्रस्य आशयः । पति-शब्दस्य एतादृश्या घिसंज्ञायां लब्धायाम् घिसंज्ञाविशिष्टानि कार्याणि कृत्वा पतिना, पतये इत्यादीनि मुनि-शब्दसदृशानि एव रूपाणि भवन्ति । कानिचन उदाहरणानि एतानि -

  • 1. ऋग्वेदे 4.57.1 इत्यत्र - क्षेत्रस्य पतिना वयं हितेनेव जयामसि । अत्र पति-शब्दस्य क्षेत्रस्य इति षष्ठ्यन्तेन शब्देन अन्वयः अस्ति, अतः अत्र पति-शब्दस्य घिसंज्ञा भवति । घिसंज्ञायां सत्यां तृतीयैकवचनस्य प्रत्ययस्य <<आङो नाऽस्त्रियाम्>> 7.3.120 इत्यनेन ना-आदेशे कृते पतिना इति रूपं सिद्ध्यति ।
  • 2. कृष्णयजुर्वेदे रुद्रनमके - पशूनां पतये नमः । अत्र पति-शब्दस्य पशूनाम् इति षष्ठ्यन्तेन शब्देन अन्वयः अस्ति, अतः अत्र पति-शब्दस्य घिसंज्ञा भवति । घिसंज्ञायां सत्यां चतुर्थ्येकवचने <<घेर्ङिति>> 7.3.111 इत्यनेन गुणैकादेशे कृते पतये इति रूपं सिद्ध्यति ।
  • 3. ऋग्वेदे 2.25.2 इत्यत्र - ब्रह्मणस्पतेरव आ वृणीमहे । अत्र पति-शब्दस्य ब्रह्मणः इति षष्ठ्यन्तेन शब्देन अन्वयः अस्ति, अतः अत्र पति-शब्दस्य घिसंज्ञा भवति । घिसंज्ञायां सत्यां षष्ठ्येकवचने <<घेर्ङिति>> 7.3.111 इत्यनेन गुणैकादेशे कृते पतेः इति रूपं सिद्ध्यति । आर्षप्रयोगेषु अपि <hl>पति</hl>-शब्दस्य घिसंज्ञा केषुचन आर्षप्रयोगेषु (इत्युक्ते ऋषिभिः कृतेषु प्रयोगेषु) षष्ठ्यन्तशब्दस्य योगे विद्यमानस्य पति-शब्दस्य घिसंज्ञा कृता दृश्यते । यथा, बुधकौशिकऋषिविरचिते रामरक्षास्तोत्रे सीतायाः पतये नमः इति प्रयोगः अस्ति । एवमेव, रामायणे सुन्दरकाण्डे पर्वतः सरितां पतौ इति प्रयोगः दृश्यते । वस्तुतः एतादृशाः प्रयोगाः वैदिकाः न, अतः प्रकृतसूत्रेण तेषां साधुत्वं नैव सिद्ध्यति । तथापि, ऋषिकृतयः छन्दोवत् भवन्ति इति मत्त्वा एतेषां साधुत्वं स्वीकृतम् अस्ति । सूत्रे <hl>वा</hl> इति ग्रहणस्य प्रयोजनम् प्रकृतसूत्रे वा इति शब्दस्य ग्रहणेन इदं स्पष्टी क्रियते यत् वेदेषु षष्ठ्यन्तशब्देन सह अन्वये सति पति-शब्दस्य घिसंज्ञा विकल्पेन एव भवति । इत्युक्ते, कुत्रचित् घिसंज्ञां विना एव रूपाणि प्रयुक्तानि सन्ति । यथा, तैत्तिरीयसंहितायाम् कुलुञ्चानां पतये नमः इत्यस्य स्थाने कुलुञ्चानां पत्ये नमः इति प्रयोगः अपि दृश्यते इति काशिकायाम् उदाहरणं दत्तम् अस्ति । <hl>वा</hl> इति योगविभागः प्रकृतसूत्रात् वा इति शब्दस्य योगविभागं कृत्वा, तत्र छन्दसि इत्यस्य अनुवृत्तिं च कृत्वा <<छन्दसि वा>> इति नूतनं सूत्रं सिद्ध्यति । अस्य सूत्रस्य अर्थः सर्वे विधयः छन्दसि विकल्प्यन्ते इति स्वीक्रियते । अष्टाध्याय्याम् उक्तानि सर्वाणि अपि कार्याणि, सर्वाः अपि संज्ञाः, सर्वे अपि नियमाः च वेदेषु विकल्पेन भवन्ति - इति अस्य आशयः अस्ति । ##Balamanorama ##Padamanjari षष्ठ।ल्न्तेन शब्देनेति। षष्ठ।ल विभघक्त्या युक्त इति तु न भवति। तथा हि-षष्ठ।लमित्येव ब्रूयाद्, युक्तग्रहणमनर्थकं स्यात्। षष्ठीग्रहणं किमिति। अत्र केचिद्योगस्यावर्जनीयत्वाद्यौक्त इत्येव विशिष्टो योगः प्रत्येष्यत इति मन्यन्ते, वचनमन्तरेण विशेषो दुर्ज्ञान इत्युतरम्। अयमत्र योगविभागः कर्तव्यः-ठ्षष्ठीयुक्तः च्छन्दसिऽ,षष्ठीयुक्तः पतिशब्दः च्छन्दसि घिसञ्ज्ञो भवति; ततो'वा' , च्छन्दसीत्येव, यच्च यावच्च शास्त्रे कार्यं तत्सर्वं च्छन्दसि विकल्पेन भवतिः सर्वे विधयश्च्छन्दसि विकल्प्यन्त इत्यर्थः। उभयत्रविभाषा चेयम्,'बहुलं च्छन्दसि' इत्यादिकस्त्वस्या एव प्रपञ्चः॥