6-4-161 र ऋतः हल् आदेः लघोः असिद्धवत् अत्र आभात् भस्य इष्ठेमेयस्सु
रशब्द आदेशो भवति ऋकारस्य हलादेर्लघोरिष्ठेमेयस्सु परतः। प्रथिष्ठः। प्रथिमा। प्रथीयान्। म्रदिष्ठः। म्रदिमा। म्रदीयान्। ऋत इति किम्? पटिष्ठः। पटिमा। पटीयान्। हलादेरिति किम्? ऋजिष्ठः। ऋजिमा। ऋजीयान्। लघोरिति किम्? कृष्ण — कृष्णिष्ठः। कृष्णिमा। कृष्णीयान्। परिगणनमत्र कर्तव्यम्।
पृथुं मृदुं भृशं चैव कृशं च दृढमेव च।
परिपूर्वं वृढं चैव षडेतान् रविधौ स्मरेत्॥
तत इह न भवति — कृतमाचष्टे कृतयति। मातरमाचष्टे मातयति। भ्रातयति॥
हलादेर्लघोर्ऋकारस्य रः स्यात् इष्ठेमेयस्सु ॥
हलादेर्लघोर्ऋकारस्य रः स्यादिष्ठेयस्सु परतः। पृथुमृदुभृशकृशदृढपरिवृढानामेव रत्वम्॥
<<र ऋतो हलादेर्लघोः>> - र ऋतो । र इति प्रथमान्तम् । इष्ठेमेयस्स्विति । शेषपूरणम् । 'तुरिष्ठेमेयस्सु' इत्यस्तदनुवृत्तेरिति । भावः । अङ्गस्येत्यधिकृतं हलादेरङ्गस्य लघोरृकारस्य र इति । रेपाकारसङ्गात आदेशः स्यादिष्ठनि इमनिचि ईयसि च परे इत्यर्थः ।
परिगणनं कर्तव्यमिति । एवं च हलादेर्लघोः इति न वक्तव्यम् । मातयतीति । उणादीनामव्युत्पन्नत्वात् तुरिष्ठेमेयःसु इति तृशब्दस्य लोपो न भवति, अत्र परत्वाट्टिलोपं बाधित्वा रभावः प्राप्नोति ॥