3-1-57 इरितः वा प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः लुङि च्लेः अङ् परस्मैपदेषु
index: 3.1.57 sutra: इरितो वा
इरितः च्लेः अङ् वा
index: 3.1.57 sutra: इरितो वा
इरित्-धातोः परस्य च्लि-प्रत्ययस्य विकल्पेन अङ्-आदेशः भवति ।
index: 3.1.57 sutra: इरितो वा
For the इरित्-verbs, the च्लि प्रत्यय is optionally converted to अङ्.
index: 3.1.57 sutra: इरितो वा
इरितो धातोः परस्य च्लेः अङादेशो वा भवति। भिदिर् अभिदत्, अभैत्सीत्। छिदिर् अच्छिदत्, अच्छैत्सीत्। परस्मैपदेषु इत्येव, अभित्त। अच्छित्त।
index: 3.1.57 sutra: इरितो वा
इरितो धातोश्च्लेरङ् वा स्यात्परस्मैपदे परे । अच्युतत् । अच्योतीत् ।{$ {!41 श्च्युतिर्!} क्षरणे$} । श्च्योतति । चुश्च्योत । अश्च्युतत् । अश्च्योतीत् । यकाररहितोऽप्ययम् । श्चोतति ।{$ {!42 मन्थ!} विलोडने$} । विलोडनं प्रतिघातः । मन्थति । ममन्थ । यासुटः किदाशिखि <{SK2216}> इति कित्त्वात्अनिदिताम्-<{SK415}> इति नलोपः । मथ्यात् ।{$ {!43 कुथि!} {!44 पुथि!} {!45 लुथि!} {!46 मथि!} हिंसासंक्लेशनयोः$} । इदित्त्वान्नलोपो न । कुन्थ्यात् । मन्थ्यात् ।{$ {!47 षिध!} गत्याम्$} । सेधति । सिषेध । सेधिता । असेधीत् । सात्पदाद्योः <{SK2123}> इति निषेधे प्राप्ते ॥
index: 3.1.57 sutra: इरितो वा
इरितो धातोश्च्लेरङ् वा परस्मैपदेषु । अनिजग, अनैक्षीत अनिक्त । अनेक्ष्यत्, अनेक्ष्यत ॥ इति जुहोत्यादयः ॥
index: 3.1.57 sutra: इरितो वा
लुङ्लकारस्य विषये धातोः च्लि लुङि 3.1.43 इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य च्लेः सिच् 3.1.44 इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु ये धातवः 'इरितः' सन्ति, तेषां विषये अनेन सूत्रेण च्लि-इत्यस्य विकल्पेन अङ्-आदेशः अपि भवति ।
किम् नाम 'इरित्' धातुः ? यस्मिन् धातौ 'इर्' इति वर्णसमुदायः इत्संज्ञकः अस्ति, तस्य धातोः 'इरित्' इति संज्ञा भवति । धातुपाठे आहत्य 23 इरितः धातवः सन्ति । एतेषां परस्य च्लि-इत्यस्य अनेन सूत्रेण विकल्पेन अङ्-आदेशः अपि भवति । पक्षे च्लेः सिच् 3.1.44 इति सिजादेशः अपि भवति । यथा -
→ दृश् + च्लि + ल् [च्लि लुङि3.1.43 इति च्लि-विकरणप्रत्ययः]
→ दृश् + अङ् + ल् [इरितो वा 3.1.57 इति च्लि-इत्यस्य अङ्-आदेशः]
→ दर्श् + अङ् + ल् [ऋदृशोऽङि गुणः 7.4.16 इति दृश्-धातोः ऋकारस्य गुणः अकारः । उरण् रपरः 1.1.51 इति सः रपरः]
→ अट् + दर्श् + अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]
→ अ + दर्श् + अ + तिप् [तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य प्रत्ययः]
→ अ + दर्श् + अ + त् [इतश्च 3.4.100 इति इकारलोपः]
→ अदर्शत्
विकल्पेन सिच्-प्रत्यये कृते 'अद्राक्षीत्' इत्यपि रूपं सिद्ध्यति ।
→ क्षुद् + च्लि + ल् [च्लि लुङि3.1.43 इति च्लि-विकरणप्रत्ययः]
→ क्षुद् + अङ् + ल् [इरितो वा 3.1.57इति च्लि-इत्यस्य अङ्-आदेशः]
→ अट् + क्षुद् + अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]
→ अ + क्षुद् + अ + तिप् [तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य प्रत्ययः]
→ अ + क्षुद् + अ + त् [इतश्च 3.4.100 इति इकारलोपः]
→ अक्षुदत्
विकल्पेन सिच्-प्रत्यये कृते 'अक्षौसीत्' इत्यपि रूपं सिद्ध्यति ।
index: 3.1.57 sutra: इरितो वा
इरितो वा - इरितो वा । 'धातोरेकाच' इत्यतो धातोरिति,च्लेः सि॑जित्यतश्च्लेरिति,अस्यतिवक्तिख्यातिब्य॑ इत्यतोऽङिति,पुषादिद्युतादी॑त्यतः परस्मैपदेष्विति चानुवर्तते । तदाह — इरितो धातोरित्यादिना । अच्युतदिति । अङि सति ङित्त्वान्न गुणः । अच्युततामच्युतन् । अच्युतः अच्युततमच्युतत । अच्युतमच्युताव अच्युताम । अङभावे त्वाह — अच्योतीदिति ।इट ईटी॑ति सिज्लोपः । अच्योतिष्टामित्यादि । श्च्युतिरिति.च्युतिवद्रूपाणि । चुश्च्योतेति । 'शर्पूर्वा' इति चकारः शिष्यते । यकाररहितोऽपीति ।मधुश्चुतं घृतमिव सुपूत॑मित्यादौ तथा दर्सनादिति भावः । मन्थेति । विलोडलनम् — आस्फालनम् । मन्थतीत्यादि । सुगमम् । आशीर्लिङि विशेषमाह — यासुट इति । कुथीति । चत्वारोऽपि द्वितीयान्ताः । इदित्त्वान्नुमि कुन्थतीत्यादि सुगमम् । आशीर्लिङि यासुटः कित्त्वेऽपि इदित्त्वेन अनिदितामिति पर्युदासन्नलोपो नेत्याह — इदित्त्वादिति । कुन्थ्यादिति । पुन्थ्यात् लुन्थ्यात् मन्थ्यात् । एतदर्थमेव मन्थदातोः पृथङ् मथीति निर्देशः । षिध गत्यामिति । अच्परकषकारादित्वात्षोपदेशोऽयम् । ततश्च धात्वादेरिति सः । तदाह — सेधतीति । सिषेधेति । आदेशसकारत्वात्षत्वम् । अनिट्सु श्यन्विकरमस्यैव सिधेग्र्रहणात्सेट्कोऽयम् । असेधीदिति ।इट इटी॑ति सिज्लोपः । नेटीति निषेधान्न हलन्तलक्षणा वृद्धिः । असेधिष्टामित्यादि । अथ निषेधतीत्यादौउपसर्गात्सुनोती॑ति षत्वं वक्ष्यति तत्किमर्थम्, आदेशप्रत्ययो॑रित्येव सिद्धेरित्याशङ्क्याह — सात्पदाद्योरिति ।
index: 3.1.57 sutra: इरितो वा
इरितो वा॥ अभितेति। स्वरित्वादात्मनेपदम्॥