अदो जग्धिर्ल्यप्ति किति

2-4-36 अदो जग्धिः ल्यप्ति किति आर्धधातुके

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अदो जग्धिरादेशो भवति ल्यपि परतः, तकारादौ च किति प्रत्यये। प्रजग्ध्य। विजग्ध्य। जग्धः। जग्धवान्। इकार उच्चारणार्थः, नानुबन्धः। तेन नुम् न भवति। एवं वच्यादीनामपि। इह कस्माद् न भवति — अन्नम्? <<अन्नाण्णः>>? ४.४.८५ इति निपातनात्।

    जग्धौ सिद्धेऽन्तरङ्गत्वात्ति कितीति ल्यबुच्यते।

ज्ञापयत्यन्तरङ्गाणां ल्यपा भवति बाधनम्॥

तीति किम्? अद्यते। कितीति किम्? अत्तव्यम्॥

Siddhanta Kaumudi

Up

ल्यबिति लुप्तसप्तमीकम् । अदो जग्धिः स्यात् ल्यपि तादौ किति च । इकार उच्चारणार्थः । धत्वम् । झरो झरि <{SK71}> । जग्धः । आदिकर्मणि क्तः कर्तरि च <{SK3053}> । प्रकृतः कटं सः । प्रकृतः कटस्तेन । निष्ठायामण्यदर्थे <{SK3014}> इति दीर्घः । क्षियो दीर्घात् <{SK3015}> इति णत्वम् । प्रक्षीणः सः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अदो जग्धिर्ल्यप्ति किति>> - अदो जग्धिः । धत्वमिति । जघ्ध् त इति स्थितेझषस्तथो॑रिति तकारस्य धकार इत्यर्थः । झरो झरीति । अनेन पाक्षिको धकारलोप इत्यर्थः । आदिकर्मणि क्त इति । व्याख्यातं प्राक् । उदाहरणान्तरविवक्षया पुनरुपन्यासः । प्रकृतः कटं स इति.कर्तुमारब्धवानित्यर्थः । कटस्य कर्मणोऽनभिहितत्वाद्द्वितीया । कर्तुरभिहित्वात्तच्छब्दात्प्रथमा । चकाराद्भावे कर्णणि चेत्युक्तम् । तत्र कर्मण्युदाहरति — प्रकृतः कटस्तेनेति । प्रक्षीणः स इति । आदिकर्मणि क्तः ।

Padamanjari

Up

अदो जग्धिर्ल्यप्ति किति॥'ल्यप्' इति पृथक् पदं लुप्तसप्तमीकम्। इह पदद्वयापेक्षं समासमपेक्षमाणो ल्यब्बहिरङ्गः, क्त्वाप्रत्ययमात्रापेक्षस्तु जग्ध्यादेशोऽन्तरङ्गः; तत्र क्त्वावस्थायामेव जग्धौ कृते प्रजग्ध्येति सिद्धम्, नार्थो ल्यब्ग्रहणेन। एवं तर्हि ल्यब्विषयेऽप्यन्तरङ्गत्वाति कितीत्येव सिद्धे जग्धौ ल्यबिति यदुच्यते तज्ज्ञापयति - अन्तरङ्गाणामपि विधीनां हिप्रभृतीनां ल्यपा भवति बाधनमिति। विधाय,विहाय, प्रदाय, प्रखाय, प्रखन्य, प्रस्थाय, प्रकम्य, आपृच्छय, प्रदीव्य, प्रपठ।लेत्येषु विधिषु'दधातेर्हिः' 'जहातेश्च क्त्वि' दो दद् घोःऽ'जनसनखनां सञ्झलोः' 'द्यतिस्यतिमास्थामिति किति' ठनुनासिकस्य क्विझलोः क्ङितिऽ'च्छवोः शूडनुनासिके च' ठार्धधातुकस्येड्वलादेःऽ इत्येते विधयः क्त्वावस्थायामेव प्राप्ता बहिरङ्गेन ल्यपा बाध्यन्ते। एष एवार्थः श्लोकान्तरेण भाष्ये कथितः - जग्धिविधिर्ल्यपि यतदकरणम्। अकरणं निष्प्रयोजनमित्यर्थः। सिद्धमदस्ति कितीति विधानात्। अदो जग्धिविधानमित्यर्थः। ज्ञापकार्थ ल्यपि जग्धिविधानमित्याह - हिप्रभृतीस्तु सदा बहीरङ्गो ल्यब्भरतीति कृतं तदु विद्धि। ल्यब्भरतीति, ल्यबादेशो हरतिउव्यपनयति, बाधते इत्यर्थः। ठुऽ इति निपातोऽवधारणे। तदेवास्य प्रयोजनमित्यर्थः॥