नशेर्वा

8-2-63 नशेः वा पदस्य पूर्वत्र असिद्धम् कुः

Sampurna sutra

Up

नशेः पदस्य अन्ते कु वा

Neelesh Sanskrit Brief

Up

नश् (=नश्वरः) शब्दस्य पदान्ते विकल्पेन कुवर्गादेशः (गकारः) भवति ।

Neelesh English Brief

Up

The word नश् undergoes an optional कुत्वम् at पदान्त.

Kashika

Up

पदस्येति वर्तते। नशेः पदस्य वा कवर्गादेशो भवति। सा वै जीवनगाहुतिः। सा॑ वै॑ जी॒वन॒डा॑हु॒तिः (मै०सं० १.४.१३)। नशेरयं संपदादित्वाद् भावे क्विप्। जीवस्य नाशो जीवनक् , जीवनट्। षत्वे प्राप्ते कुत्वविकल्पः॥

Siddhanta Kaumudi

Up

नशे कवर्गोऽन्तादेशो वा स्यात्पदान्ते । नक् । नग् । नट् । नड् । नशौ । नशः । नग्भ्याम् । नड्भ्यामित्यादि ॥

Laghu Siddhanta Kaumudi

Up

नशेः कवर्गोऽन्तादेशो वा पदान्ते। नक्, नग्; नट्, नड्। नशौ। नशः। नग्भ्याम्, नड्भ्याम्॥

Neelesh Sanskrit Detailed

Up

यद्यपि नश्-शब्दः चकारान्तः क्विन्-प्रत्ययान्तः वा नास्ति, तथापि अनेन सूत्रेण पदान्ते अस्य शकारस्य कवर्गादेशः भवति । प्रक्रिया इयम् - नश् + सुँ [प्रथमैकवचनस्य प्रत्ययः] → नश् [<<हल्ङ्याब्भो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.58 इत्यनेन सुँ-प्रत्ययस्य लोपः] → नष् [शकारस्य <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> 8.2.36 इत्यनेन षकारादेशः] → नड् [<<झलां जशोऽन्ते>> 8.2.39 इत्यनेन षकारस्य जश्त्वे कृते डकारः] → नग्, नड् [<<नशेर्वा>> 8.2.63 इत्यनेन डकारस्य विकल्पेन कुवर्गः गकारः] → नग्, नक्, नट्, नड् [उभयोः पक्षयोः <<वाऽवसाने>> 8.4.56 इत्यनेन विकल्पेन वर्गप्रथमः आदेशः]

Balamanorama

Up

<<नशेर्वा>> - नशेर्वा ।क्विन्प्रत्ययस्य कुः॑ इत्यतः कुरित्यनुवर्तते, 'स्कोः संयोगाद्योः' इत्यतोऽन्ते इति च ।पदस्ये॑त्यदिकृतं । तदाह — नशेरित्यादि । 'अन्तादेश' इत्यलोऽन्त्यसूत्रलभ्यम् । पक्षेव्रश्चे॑चि षत्वम् । नक् नगिति । कुत्वपक्षे जश्त्वचर्त्वाभ्यां रूपे । नट् नडिति । षत्वपक्षे जश्त्वचर्त्वाभ्यां रूपे । नग्भ्यां नढ्भ्यामिति । कुत्वपक्षे जश्त्वेन गकारः । षत्वपक्षे तु जश्त्वेन डकारः ।मस्जिनशोर्झली॑ति नुम् तु न, धातोर्विहिते प्रत्यये एव तत्प्रवृत्तेर्वक्ष्यमाणत्वात् ।

Padamanjari

Up

जीवनाशहेतुत्वादाहुतिःउजीवनगित्युच्यते, सम्पदादित्वाद्भावे क्विप् ॥