8-2-35 आहः थः पदस्य पूर्वत्र असिद्धम् झलि अन्ते हः धातोः
आहः हो थः झलि
'आह्' इत्यस्य हकारस्य झलि परे थकारादेशः भवति ।
The हकार of 'आह्' is converted to थकार when followed by a झल् letter.
आहो हकारस्य धकारादेशो भवति झलि परतः। इदमात्थ। किमात्थ। आदेशान्तरकरणं <<झषस्तथोर्धोऽधः>> ८.२.४० इत्यस्य निवृत्त्यर्थम्। झलीत्येव — आह,आहतुः, आहुः॥ हृग्रहोर्भश्छन्दसि हस्येति वक्तव्यम्॥ गर्द॒भेन॒ संभ॑रति॒ (तै०सं० ५.१.५.५)। ग्रभीता। जभ्रिरे। उ॒द्ग्रा॒भं च॒ निग्रा॒भं च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् (तै०सं० १.१.१३.१)॥
झलि परे । चर्त्वम् । आत्थ । आहथुः ॥
झलि परे। चर्त्वम्। आत्थ। आहथुः॥
<<ब्रुवः पञ्चानामादित आहो ब्रुवः>> 3.4.84 अनेन सूत्रेण ब्रू-धातोः लट्-लकारस्य विषये परस्मैपदस्य तिप्/तस्/झि/सिप्/थस्-एतेषाम् पञ्च प्रत्ययानाम् विकल्पेन णल्-अतुस्-उस्-थल्-अथुस् एते आदेशाः भवन्ति, तथा च ब्रू-धातोः आह्-आदेशः भवति । अयमेव 'आह्' आदेशः अस्मिन् सूत्रे निर्दिष्टः अस्ति । अस्य 'आह्' इत्यस्य झल्-वर्णे परे थकारादेशः भवति । यथा, ब्रू-धातोः लट्-लकारस्य प्रथमपुरुष-द्विवचनस्य प्रक्रिया इयम् - ब्रू + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → ब्रू + सिप् [<<तिप्तस्..>> 3.4.78 इति मध्यमपुरुष-एकवचनस्य सिप्-प्रत्ययः] → ब्रू + शप् + सिप् [<<कर्तरि शप्>> 3.1.68 इति शप्] → ब्रू + सिप् [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शप्-प्रत्ययस्य लुक] → आह् + थल् [<<ब्रुवः पञ्चानामादित आहो ब्रुवः>> 3.4.84 इति ब्रू-धातोः परस्य मध्यमपुरुषैकवचनस्य सिप्-इत्यस्य थल्-आदेशः, तथा 'ब्रू' इत्यस्य 'आह्' आदेशः → आथ् थ [<<आहस्थः>> 8.2.35 इति हकारस्य थकारः] → आत्थ [<<खरि च>> 8.4.55 इति चर्त्वम् ]
<<आहस्थः>> - आहस्थः । 'आह' इति षष्ठन्तम् । 'झलो झलि' इत्यतो झलीत्यनुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — झलि परे इति । आह् इत्यस्य थकारः स्याज्झलीति फलितम् ।अलोऽन्त्यस्ये॑त्यन्त्यस्य भवति । चत्त्र्वमति । आथ् — थेति स्थिते प्रथमथकारस्यखरि चे॑ति चर्त्वे आत्थेति रूपमित्यर्थः । आहादेशस्य अकारान्तत्वे तु हकारादकारस्य थकारादेशे हस्य ढत्वे चर्त्वे आट्त्थ इति स्यादिति बोध्यम् । पञ्चानं णलाद्यभावपक्षे आह — —
अथ प्रकृतो धकार एव कस्मान्न विधीयते, तस्यापि हि चर्त्वेन आत्थेति सिद्धम्, थकारस्यापि चर्त्वेन भवितव्यम्, एवं च कृत्वा ठाहनहोर्धःऽ इत्येक एव योगः कर्तव्यः ? अत आह -आदेशान्तरकरणमिति । एवमपि तकार एव कर्तव्यः । हृग्रहोरिति । हकारस्येति वचनं हरत्यर्थम् । निग्राभमिति । ठुदि ग्रहःऽ इत्यत्र'च्छन्दसि निपूर्वादपीष्यते स्रुगुद्यमननिपातनयोः' इति वचनाद्वा घञ् ॥