अश्नोतेश्च

7-4-72 अश्नोतेः च अभ्यासस्य लिटि तस्मात् नुट्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अश्नोतेश्च दीर्घीभूतादभ्यासादुत्तरस्य नुडागमो भवति। व्यानशे, व्यानशाते, व्यानशिरे। अश्नोतेः इति विकरणनिर्देशः अश्नातेर्मा भूतिति। आश, आशतुः, आशुः।

Siddhanta Kaumudi

Up

दीर्घादभ्यासावर्णात्परस्य नुट् स्यात् । आनशे । अशिता । अष्टा । अशिष्यते । अक्ष्यते । अश्नुवीत । अक्षीष्ट । अशिषीष्ट । आशिष्ट । आष्ट । आक्षाताम् ।{$ {!1265 ष्टिघ!} आस्कन्दने$} । स्तिघ्नुते । तिष्टिघे । स्तेघिता ॥ अथ आगणन्तात्परस्मैपदिनः ॥{$ {!1266 तिक!} {!1267 तिग!} गतौ च$} । चादास्कन्दने । तिक्नोति । तिग्नोति ।{$ {!1268 षघ!} हिंसायाम्$} । सघ्नोति ।{$ {!1269 ञिधृषा!} प्रागल्भ्ये$} । धृष्णोति । दधर्ष । धर्षिता ।{$ {!1270 दम्भु!} दम्भने$} । दम्भनं दम्भः । दभ्नोति । ददम्भ । श्रन्थिग्रन्थिदम्भिस्वञ्जीनां लिटः कित्त्वं वेति व्याकरणान्तरमिहाप्याश्रीयत इत्युक्तम् । अनिदिताम् - <{SK415}> इति नलोपः । तस्याभीयत्वेनासिद्धत्वादेत्वाभ्यासलोपयोरप्राप्तौ ।<!दम्भेश्च एत्वाभ्यासलोपौ वक्तव्यौ !> (वार्तिकम्) ॥ देभतुः । ददम्भतुः । इदं कित्त्वं पिदपिद्विषयकमिति सुधाकरादयः । तन्मते तिप्सिप्मिप्सु । देभ । देभिथ । देभेति रूपान्तरं बोध्यम् । ददम्भ । ददम्भिथ । ददम्भेत्येव । दभ्यात् ।{$ {!1271 ऋधु!} वृद्धौ$} । तृप प्रीणन इत्येके ॥ क्षुभ्नादित्वाण्णत्वं न । तृप्नोति । (गणसूत्रम् -) छन्दसि । आगणन्तादधिकारोऽयम् ।{$ {!1272 अह!} व्याप्तौ$} । अह्नोति ।{$ {!1273 दघ!} घातने पालने च$} । दघ्नोति ।{$ {!1274 चमु!} भक्षणे$} । चम्नोति ।{$ {!1275 रि!} {!1276 क्षि!} {!1277 चिरि!} {!1278 जिरि!} {!1279 दाश!} {!1280 दृ!} हिंसायाम्$} । रिणोति । क्षिणोति । अयं भाषायामपीत्येके । नतद्यशः शस्त्रभृतां क्षिणोति । ऋक्षीत्येक एवाजादिरित्यन्ये । ऋक्षिणोति । चिरिणोति । जिरिणोति । दाश्नोति । वृत् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अश्नोतेश्च>> - अश्नोतेश्च ।अत्र लोपःट इत्यतो अभ्यासस्येत्यनुवर्तते,तस्मान्नु॑डिति च । तच्छब्देनअत आदे॑रिति कृतदीर्घोऽकारः परामृश्यते । तदाह — दीर्घादिति । आनशे इति । आनिशिषे आनक्षे । आनशिवहे - आनआहे । अष्टेति । व्रश्चादिना शस्य षत्वे ष्टुत्वम् । विधिलिङ्याह — अश्नुवीतेति । आशीर्लिङि ऊदित्त्वादिड्विकल्पं मत्वाह — — अक्षीष्ट अशिषीष्टेति । लुङि सिच इट्पक्षे आह — आशिष्टेति । अनिट्पक्षेझलो झली॑ति सिचो लोपं मत्वाह - आष्टेति । ष्टिघ धातुः षोपदेशः । सेट् । आ गणान्तादिति । स्वादिगणसमाप्तिपर्यन्तमित्यर्थः । इत्युक्तमिति । भ्वादाविति भावः । कित्त्वपक्षे आह - अनिदितामिति नलोप इति । नन्वनिदितामिति नलोपे सति 'अत एकहल्मध्ये' इत्येत्त्वसिद्धेःदम्भेश्चे॑ति व्यर्थमित्यत आह — तस्याभीयत्वादिति । नलोपस्येत्यर्थः । दभ्यादिति । आशीर्लिङिअनिदिता॑मिति नलोपः । छन्दसीति । गणसूत्रमिदम् । तद्व्याचष्टे - आ गणान्तादिति । रि क्षि इति । रि क्षि चिरि जिरि दाश दृ इति षट् धातवः । आद्यद्वितीयवेकारक्षरौ । तदाह — रिणोति । क्षिणोतीति । अयं भाषायामपीति । क्षिधातुरित्यर्थः । तत्र प्रयोगं दर्शयति — न तद्यश इति । वृदिति । स्वादयो वृत्ता इत्यर्थः । इति स्वादयः ।॥ इति बालमनोरमायाम् स्वादयः॥अथ स्वार्थिकाः । — — — — -

Padamanjari

Up