दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्तेऽलर्ष्यापनीफणत्संसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतःसरीसृपतंवरीवृजन्मर्मृज्यागनीगन्तीति च

7-4-65 दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतित्क्तेटलर्ष्यापनीफणत्संसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतःसरीसृपतंवरीवृजन्मर्मृज्यागनीगन्तीति च अभ्यासस्य छन्दसि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

दाधर्ति दर्धर्ति दर्धर्षि बोभूतु तेतिकते अलर्षि आपनीफणत् संसनिष्यदत् करिक्रत् कनिक्रदत् भरिभ्रत् दविध्वतः दविद्युतत् तरित्रतः सरिसृपतम् वरीवृजत् मर्मृज्य आगनीगन्ति इत्येतानि अष्टादश छन्दसि विषये निपात्यन्ते। दाधर्ति दर्धर्ति दर्धर्षि इति धारयतेः, धृङो वा श्लौ यङ्लुकि वा अभ्यासस्य दीर्घत्वं णिलोपश्च। दाधर्ति। एवं दर्धर्ति। श्लौ रुकभ्यासस्य निपात्यते। तथा दर्धर्षि इति। अत्र च यल्लक्षणेन अनुपपन्नं तत् सर्वं निपातनात् सिद्धम्। बोभूतु इति भवतेः यङ्लुगन्तस्य लोटि गुणाभावो निपात्यते। नैतदस्ति प्रयोजनम्, अत्र <<भूसुवोस्तिङि>> 7.3.88 इति गुणाभावः सिद्धः? ज्ञापनार्थं तर्हि निपातनम् एतत्। ज्ञापयति, अन्यत्र यङ्लुगन्तस्य गुणप्रतिषेधो न भवतीति। बोभोति, बोभवीति। तेतिक्ते तिजेः यङ्लुगन्तस्य आत्मनेपदं निपात्यते। यङो ङित्त्वात् प्रत्ययलक्षणेन आत्मनेपदं सिद्धम् एव? ज्ञापनार्थं तु आत्मनेपदनिपातनम्, अन्यत्र यङ्लुगन्तादात्मनेपदं न भवति। अलर्षि इति इयर्तेः लटि सिपि अभ्यासस्य हलादिः शेषापवादो रेफस्य लत्वं निपात्यते। सिपा निर्देशोऽतन्त्रम्, तिप्यपि दृश्यते अलर्ति दक्षः। आपनीफणतिति फणतेराङ्पूर्वस्य यङ्लुगन्तस्य शतरि अभ्यासस्य नीक् निपात्यते। संसनिष्यदतिति स्यन्देः संपूर्वस्य यङ्लुक्, शतर्येव अभ्यासस्य निक्, धातुसकारस्य षत्वं निपात्यते। न चास्य सम्पूर्वता तन्त्रम्, अन्यत्र अपि हि दृश्यते, आसनिष्यदतिति। करिक्रतिति करोतेः यङ्लुगन्तस्य शतरि चुत्वभ्यावः, अभ्यासककारस्य रिगागमो निपात्यते। कनिक्रदतिति क्रन्देः लुङि च्लेः अङादेशः, द्विर्वचनमभ्यासस्य, चुत्वाभावः, निगागमश्च निपात्यते। तथा चास्य हि विवरणं कृतम्। अक्रन्दीतिति भाषायाम्। भरिभ्रतिति बिभर्तेः यङ्लुगन्तस्य शतरि भृञाम् इत् 7.4.76 इति इत्वाभावो जश्त्वाभावोऽभ्यासस्य रिगागमः निपात्यते। दविध्वतः इति ध्वरतेः यङ्लुगन्तस्य शतरि जसि रूपम् एतत्। अत्र अभ्यासस्य विगागमः ऋकारलोपश्च निपात्यते। दविध्वतो रश्मयः सूर्यस्य। दविद्युततिति द्युतेः यङ्लुगन्तस्य शतरि अभ्यासस्य अम्प्रसारणाभावः अत्त्वम्, विगागमश्च निपात्यते। तरित्रतः इति तरतेः शतरि श्लौ षष्ठ्येकवचने अभ्यासस्य रिगागमः निपात्यते। सरीसृपतम् इति सृपेः शतरि श्लौ द्वितीयैकवचने अभ्यासस्य रीगागमः निपात्यते। वरीवृजतिति वृजेः शतरि श्लौ रीगागमः निपात्यते अभ्यासस्य। मर्मृज्य इति मृजेः लिटि णलि अभ्यासस्य रुगागमः धातोश्च युगागमो निपात्यते। ततो <<मृजेर्वृद्धिः>> 7.2.114 न भवति, अलघूपधत्वात्। लघूपधगुणे प्राप्ते वृद्धिरारभ्यते। आगनीगन्तीति आङ्पूर्वस्य गमेर्लति श्लौ अभ्यासस्य चुत्वाभावः नीगागमश्च निपात्यते। वक्ष्यन्ती वेदागनीगन्ति कर्णम्। इतिकरणम् एवं प्रकारणामन्येषामप्युपसङ्ग्रहार्थम्।

Siddhanta Kaumudi

Up

एतेष्टादश निपात्यन्ते । आद्यास्त्रयो धृङो धारयतेर्वा । भवतेर्यङ्लुगन्तस्य गुणाभावः । तेन भाषायां गुणो लभ्यते । तिजेर्यङ्लुगन्तात्तङ् । इयर्तेर्लटि हलादिःशेषापवादो रेफस्य लत्वमित्वाभावश्च निपात्यते । अलर्षि युध्म खजकृत्पुरन्दर (अल॑र्षि युध्म खजकृत्पुरन्दर) । सिपा निर्देशो न तन्त्रम् । अलर्ति दक्ष उत (अल॑र्ति॒ दक्ष॑ उ॒त) । फणतेराङ्पूर्वस्य यङ्लुगन्तस्य शतरि अभ्यासस्य नीगागमो निपात्यते । अन्वापनीफणत् (अन्वा॒पनी॑फणत्) । स्यन्देः संपूर्वस्य यङ्लुकि शतरि अभ्यासस्य निक् । धातुसकारस्य षत्वम् । करोतेर्यङ्लुगन्तस्याभ्यासस्य चुत्वाभावः । क्रन्देर्लुङिच्लेरङ्द्विर्वचनमभ्यासस्य चुत्वाभावो निगागमश्च । कनिक्रदज्जनुपम् (कनि॑क्रदज्ज॒नुप॑म्) । अक्रन्दीदित्यर्थः । बिभर्तेरभ्यासस्य जश्त्वाभावः । वि यो भरिभ्रदोषधीषु (वि यो भरि॑भ्र॒दोष॑धीषु) । ध्वरतेर्यङ्लुगन्तस्य शतरि अभ्यासस्य विगागमो धातोर्ऋकारलोपश्च । दविध्वतो रश्मयः सूर्यस्य (दवि॑ध्वतो र॒श्मयः॒ सूर्य॑स्य) । द्युतेरभ्यासस्य संप्रसारणाभावोऽत्वं विगागमश्च । दविद्युतद्दीद्यच्छोशुचानः (दवि॑द्युत॒द्दीद्य॒च्छोशु॑चानः) । तरतेः शतरि श्लौ द्वितीयैकवचने रीगागमोऽभ्यासस्य । वृजेः शतरि श्लावभ्यासस्य रीक् । मृजेर्लिटि णल् अभ्यासस्य रुक् धातोश्च युक् । गमेराङ्पूर्वस्य लटि श्लावभ्यासस्य चुत्वाभावो नीगागमश्च । वक्ष्यन्ती वेदागनीगन्ति कर्णम् (वक्ष्यन्ती॒ वेदाग॑नीगन्ति कर्ण॑म्) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

धारयतेरिति ।'घृङ् अवस्थाने' ण्यन्तः । धृङे वेति । स एव प्रकृत्यन्तरम् । श्लौ यङ्लुकिचेति ।'श्लौ' इत्येतद्धारयतेः, धृङे वेत्युभाभ्यां सम्बध्यते ।'यङ्लुकि च' इत्येततु'धृङे वा' इत्यनेनैव । तदयमर्थः - दाधर्तीति धारयतेः श्लौ णिलुगभ्यासदीर्घत्वं च निपात्यते, धृङे वा श्लावभ्यासदीर्घत्वम् । अत्र परस्मैपदमपि निपात्यम्, तस्यैव वा यङ्लुकि अभ्यासदीर्घत्वं निपात्यत इति । दर्धर्तीत्यत्र तु यङ्लुक् । पक्षे दाधर्तीति । निपातनेन प्राप्तस्य दीर्घत्वस्याभावो निपात्यते, रुग्रिकौ च लुकिऽ इत्येव रुक् सिद्धः । श्लुपक्षे तु रुगपि निपात्यः । दर्धर्षीत्यत्र यङ्लुक्, पक्षे न किञ्चिन्निपात्यम् । बोभूत्विति । यङ्लुगन्ताल्लोट् । बोभवीतीति । लट्,'यहो वा' इति पक्षे ईट् । प्रत्ययलक्षणेनेति । यद्यपि ठनुदातङ्तिःऽ इति ङ्त्विनिमितमात्मनेपदं न प्रत्यनिमितम्; तथापि लोलूयते इत्यादौ यङ्न्तादात्मनेपदम्, तत्प्रत्ययस्य ङ्त्वाइदिति प्रत्ययलक्षणं भवत्येव । एवं चादादिषु'चर्करीतं परस्मैपदम्' इति परस्मैपदग्रहणमनुवादः । कर्तर्येव चेदमात्मनेपदं नियम्यते इति भावकर्मणोर्यङ्लुगन्तादात्मनेपदं भवत्येव । करिक्रदिति । अत्र चुत्वाभाव एव निपात्यः, रिगागमस्तु रुग्रिकौ चऽ इत्येव सिद्धः । तथा चास्येति । असंय मन्त्रपदस्य ब्राह्मणे विवरणम् । भरिभ्रदिति । अत्रापि जश्त्वाभाव एव निपात्यः । जसि रूपमिति ।'नाभ्यस्ताच्छतुः' इति नुमः प्रतिषेधः ॥