सात्पदाद्योः

8-3-111 सात्पदाद्योः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः

Kashika

Up

index: 8.3.111 sutra: सात्पदाद्योः


सातित्येतस्य पदादेश्च मूर्धन्यादेशो न भवति। विभाषा साति कार्त्स्न्ये 5.4.52। प्रत्ययसकारत्वात् प्राप्तिः, पदादेश्च आदेशसकारत्वात्। सात् अग्निसात्। दधिसात्। मधुसात्। पदादेः दधि सिञ्चति। मधु सिञ्चति।

Siddhanta Kaumudi

Up

index: 8.3.111 sutra: सात्पदाद्योः


सस्य षत्वं न स्यात् । दधि सिञ्चति । कृत्स्नं शस्त्रमग्निः संपद्यतेऽग्निसाद्भवति । अग्नीभवति । महाविभाषया वाक्यमपि । कार्त्स्ये किम् । एकदेशेन शुक्लीभवति पटः ॥

Laghu Siddhanta Kaumudi

Up

index: 8.3.111 sutra: सात्पदाद्योः


सस्य षत्वं न स्यात्। कृत्स्नं शस्त्रमग्निः संपद्यतेऽग्निसाद्भवति। दधि सिञ्चति॥

Padamanjari

Up

index: 8.3.111 sutra: सात्पदाद्योः


ठुपसर्गात्ऽ इति प्राप्तिः प्रतिषिध्यते ॥