आदाचार्याणाम्

7-3-49 आत् आचार्याणाम् अतः स्थाने अभाषितपुंस्कात् च

Kashika

Up

index: 7.3.49 sutra: आदाचार्याणाम्


अभाषितपुंस्कातातः स्थाने योऽकारः तस्य आचार्याणामाकारादेशो भवति। खट्वाका। अखट्वाका। परमखट्वाका।

Siddhanta Kaumudi

Up

index: 7.3.49 sutra: आदाचार्याणाम्


पूर्वसूत्रविषये आद्वा स्यात् । गङ्गाका । गङ्गिका । उक्तपुंस्कात्तु शुभ्रिका ॥

Balamanorama

Up

index: 7.3.49 sutra: आदाचार्याणाम्


आदाचार्याणाम् - आदाचार्याणां । पूर्वसूत्रविषय इति । अभाषितपुंस्काद्विहितस्यातः स्थाने अत इत्यर्थः । शुभ्रिकेति । शुभ्रशब्दो विशेष्यनिघ्नोऽनियतलिङ्गः । ततः स्त्रियां टापि शुभ्राशब्दात्कः । 'केऽणः' इति ह्रस्वः, पुनष्टाप् । अत्र कात्पूर्ववर्तिनष्टापोऽभाषितपुंस्काद्विहितत्वाऽभावात्तत्स्थानिकस्याऽतो नेत्वविकल्पः । किं तुप्रत्ययस्था॑दिति नित्यमित्वमित्यर्थः । अनुपसर्जनादित्यधिकारस्य उत्तरावधिमाह — यूनस्तिरित्यभिव्याप्येति । 'यूनस्तिः' इत्यत्राप्ययमधिकारो नतु ततः प्रागित्यर्थः । अत्र च व्याख्यानमेव शरणम् । अत्र यद्वक्तव्यं तत् 'यूनस्तिः' इत्यत्र वक्ष्यते । ननु बहवः कुरुचरा यस्यां सा बहुकुरुचरा, नदमतिक्रान्ता अतिनदा इत्यादिषु उपसर्जनेषुकुरुचरनदादिशब्देभ्यःटिड्ढाणञि॑त्यादिना विधीयमानानां ङीबादिप्रत्ययानां प्रसक्तिरेव नास्ति, समासप्रत्ययविधौ तदन्तविधिप्रतिषेधात् । तस्मादनुपसर्जनाधिकारो व्यर्थ इत्यत आह — अयमेवेति । अनुपसर्जनादित्यधिकार एवायं स्त्रीप्रत्ययेषु तदन्तविधिं ज्ञापयतीत्यर्थः । एतच्च भाष्ये स्पष्टम् । तत्फलं तुवनो र चे॑त्यत्र वन्नन्तान्तलाभ इत्यादि ज्ञेयम् । ननु स्त्रीप्रत्ययेषु तदन्तविध्यभावेऽपि नद इवाचरति नदा स्त्रीत्यादिषु आचारक्विबन्तप्रकृतिककर्तृक्विबन्तेषु ङीबादिनिवृत्तये अनुपसर्जनाधिकारस्यावस्यकत्वात्कथं तस्य स्त्रीप्रत्ययविधिषु तदन्तविधिज्ञापकतेति चेत्, न, अनुपसर्जनाधिकारस्य स्त्रीप्रत्ययविधिषु तदन्तविधिज्ञापनार्थत्वपरभाष्यप्रामाण्येन स्त्रियामाचारक्विबन्तप्रकृतिककर्तृक्विबन्तानामनभिधानोन्नयनादित्यलम् ।

Padamanjari

Up

index: 7.3.49 sutra: आदाचार्याणाम्


इत्वापवादोऽयं योगः ।'के' णःऽ इति ह्रस्वापवादश्च । आचार्याणामिति । उदीचामित्युक्तम्, ततोऽन्येषामाचार्याणामित्यर्थः । अपर आह - आचार्यस्य पाणिनेर्य आचार्यः स इहाचार्यः, गुरुत्वातु बहुवचनमिति । सर्वथा अभाषितपुंस्केषु त्रैरूप्यम् - अखट्वका, अखट्विका, अखट्वाकेति ॥