4-1-146 रेवत्यादिभ्यः ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्
'तस्य अपत्यम्' (इति) रेवत्यादिभ्यः ठक्
'तस्य अपत्यम्' अस्मिन् अर्थे रेवत्यादिगणस्य शब्देभ्यः ठक्-प्रत्ययः भवति ।
रेवतीत्येवमादिभ्योऽपत्ये ठक् प्रत्ययो भवति। यथायोगं ढगादीनामपवादः। रैवतिकः। आश्वपालिकः॥ रेवती। अश्वपाली। मणिपाली। द्वारपाली। वृकवञ्चिन्। वृकग्राह। कर्णग्राह। दण्डग्राह। कुक्कुटाक्ष॥
<<रेवत्यादिभ्यष्ठक्>> - रेवत्यादिभ्यष्ठक् । 'अपत्ये' इति शेषः । ढगाद्यपवादः ।
ढगादीनामपवाद इति । तत्र रेवतीशब्दो ङीषन्तः, अश्व, मणि, द्वारशब्दोपपदात्पालयतेः कर्मण्यणि ङीप्, तेषु ढक्प्राप्तः ।'वञ्चु प्रलम्भने' , अस्माद्वृकोपपदात्'कर्तर्युपमाने' इति णिनिः, अस्मादण्प्राप्तः वृककर्णदण्डोपपदाद् ग्रहेः'कर्मण्यण्' , कुक्कुटस्येवाक्षिणी यस्य स कुक्कुटाक्षः, एष्विञ् प्राप्तः ॥