7-2-81 अतः डितः सार्वधातुके अतः या इयः
आकारस्य ङिदवयवस्य अकारान्ताद् अङ्गादुत्तरस्य सार्वधातुकस्येय् इत्ययमादेशो भवति। पचेते। पचेथे। पचेताम्। पचेथाम्। यजेते। यजेथे। यजेताम्। यजेथाम्। <<सार्वधातुकमपित्>> १.२.४ इत्यत्र न ङितीव ङिद्वद् इत्येवमङ्गीक्रियते, अपि तु ङित इव ङिद्वदिति। पूर्वसूत्र एव उच्चुकुटिषतीति प्रसिद्धये तथाङ्गीकरणम्। यदि गाङ्कुटादिसूत्रे १.२.१ ङित इव ङिद्वद्भवतीत्येवमङ्गीक्रियते, तदा <<अनुदात्तङित आत्मनेपदम्>> १.३.१२ इत्यात्मनेपदं प्राप्नोतीति। आत इति किम्? पचन्ति। यजन्ति। पचन्ते। यजन्ते। ङित इति किम्? पचावहै, पचामहै। अत इत्येव — चिन्वाते। सुन्वाते। तपरकरणं किम्? मिमाते। मिमाथे॥
अतः परस्य ङितामाकारस्य इय् स्यात् । एधेते । एधन्ते ॥
अतः परस्य ङितामाकारस्य इय् स्यात्। एधेते। एधन्ते॥
<<आतो ङितः>> - आतो ङितः । ङित इत्यवयवषष्ठी । 'अतो येय' इत्यस्मादत इति पञ्चम्यन्तम्, इय इति प्रथमान्तं चानुवर्तते । यकारादकार उच्चारणार्थः । तदाह — अतः परस्येति । 'ङिता॑मित्यनन्तरम्'अवयवस्ये॑ति शेषः । एधेते इति । एध — आतो इति स्थिते, आकारस्य इञ्, '#आद्गुणः' अन्तादेशे, पररूपे, टेरेत्वमिति भावः । अथ लटो मध्यमपुरुषैकवचने थासादेसे कृतेटित आत्मनेपदाना॑मित्येत्वे प्राप्ते —
एआकारमात्रस्य ङितोऽसम्भवाद् आतः ङ्तिः इति व्यधिकरणे षष्ठयौ । ङितोऽवियवस्यात् इत्यर्थः । उदाहरणेषु स्वरितत्वादात्मनेपदम् । ननु गाङ्कुटादिसूत्रे परत्र परशब्दप्रयोगादध्यादह्रियमाणो वतिः सप्तमीसमर्थादध्याहर्तव्यः - हितीव दिति, अन्यथा चुकुटिषंतीत्यत्र सनो ङित्वादात्मिनेपदप्रसङ्गादित्युक्तम् । सार्वधातुकमपित् इत्यत्रापि तदेवानुवर्तते, ततश्च पूर्वस्य कार्य प्रत्येव सार्वधातुकस्य ङ्त्विम्, न स्वकार्य प्रतीत्ययुक्तान्युदाहरणानि लङ्लृङेस्तु युक्तमुदाहर्तुम् - अपचेताम्, अकरिष्येतामिति अस्ति ह्यत्रापि स्थानिवद्भावेन ङ्त्विमत आह - सार्वधातुकमपिदित्यत्रेत्यादि । ममाते, मिमाथे इति । असति तपरकरणे श्नाभ्यस्तयोरातः इति लोपात्परत्वादयमेव विधिः स्यात् ॥