7-2-111 इदः अय् पुंसि विभक्तौ इदमः सौ
index: 7.2.111 sutra: इदोऽय् पुंसि
इदमः इदः अय् पुँसि सौ
index: 7.2.111 sutra: इदोऽय् पुंसि
पुंलिङ्गे इदम्-शब्दस्य 'इद्' इत्यस्य सुँ-प्रत्यये परे 'अय्' आदेशः भवति ।
index: 7.2.111 sutra: इदोऽय् पुंसि
In पुंलिङ्ग, the 'इद्' part of the word 'इदम्' is converted to 'अय्' when followed by the सुँ-प्रत्यय.
index: 7.2.111 sutra: इदोऽय् पुंसि
इदमः इदरूपस्य पुंसि सौ परतः अयित्ययमादेशो भवति। अयं ब्राह्मणः। पुंसि इति किम्? इयं ब्राह्मणी।
index: 7.2.111 sutra: इदोऽय् पुंसि
इदम इदोऽय् स्यात्सौ पुंसि । सोर्लोपः । अयम् । त्यदाद्यत्वं पररूपत्वं च ॥
index: 7.2.111 sutra: इदोऽय् पुंसि
इदम इदोऽय् सौ पुंसि। अयम्। त्यदाद्यत्वे॥
index: 7.2.111 sutra: इदोऽय् पुंसि
'इदम्' सर्वनाम्नः 'इद्' इत्यस्य पुंलिङ्गे 'अय्' इति आदेशः भवति प्रथमैकवचनस्य सुँ-प्रत्यये परे । अत्र स्थानी स्पष्टरूपेण निर्दिष्टः अस्ति, अतः अत्र स्थाननिर्णयपरिभाषाः प्रयोगः न क्रियते । प्रक्रिया इयम् -
→ इदम् + सुँ [त्यदादीनामः 7.2.102 इत्यनेन अकारत्वे प्राप्ते अपवादत्वेन इदमो मः 7.2.108 इति मकारस्य मकारः]
→ अयम् + सुँ [इदोऽयं पुँसि 7.2.111 इति 'इद्' इत्यस्य 'अय्' आदेशः]
→ अयम् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँलोपः]
index: 7.2.111 sutra: इदोऽय् पुंसि
इदोऽय् पुंसि - ॒इदम् स् इति स्थिते — इदोऽय्पुंसि । 'इद' इति स्थानषष्ठी । 'इदम' इत्यनुवर्तते । अवयवषष्ठएषा । 'यः सौ' इत्यतः सावित्यनुवर्तते । तदाद-इदम इति । इदम्शब्दस्यावयवो य इद्, तस्येत्यर्थः । अयम् स् इति स्थिते — सोर्लोप इति ।हल्ङ्यादिने॑ति शेषः । अयमिति । सुलोपे प्रत्ययलक्षणमाश्रित्य मकारस्याऽनुस्वारस्तु न, मकारविधिसामर्थ्यात् । अन्यथा अनुस्वारमेव विदध्यात् ।वर्णाश्रये नास्ति प्रत्ययलक्षण॑मिति निषेधाच्च । अथ औजसादिषु विशेषमाह — त्यदाद्यत्वमिति । इदम्-औ इति स्थिते ॒त्यदादीनाम॑ इति मस्य अकार इत्यर्थः । पररूपत्वमिति । इद अ औ इति स्थिते 'अतो गुणे' इति अकारयोरेकं परूरूपमकार इत्यर्थः । इद-औ इति स्थिते ।