आङि चापः

7-3-105 आङि च आपः झलि एत् ओसि

Sampurna sutra

Up

आपः अङ्गस्य ओसि आङि च सुपि एत्

Neelesh Sanskrit Brief

Up

षष्ठीसप्तमीद्विवचनस्य ओस्-प्रत्यये परे, तथा च तृतीयैकवचनस्य टा-प्रत्यये परे आबन्तस्य अङ्गस्य एकारादेशः भवति ।

Neelesh English Brief

Up

An आबन्त अङ्ग gets एकारादेश in presence of the ओस् and टा प्रत्यय.

Kashika

Up

आङिति पूर्वाचार्यनिर्देशेन तृतीयैकवचनं गृह्यते। तस्मिन्नाङि परतश्चकारादोसि चाबन्तस्याङ्गस्यैकारादेशो भवति। खट्वया। मालया। खट्वयोः। मालयोः। बहुराजया। कारीषगन्ध्यया। बहुराजयोः। कारीषगन्ध्ययोः। आप इति पितो ग्रहणं किम् ? कीलालपा ब्राह्मणेन। कीलालपोर्ब्राह्मणयोः। ङ्याब्ग्रहणेऽदीर्घग्रहणम् इति वचनादिह न भवति — अतिखट्वेन ब्राह्मणकुलेन॥

Siddhanta Kaumudi

Up

आङि ओसि च परे आबन्तस्याङ्गस्य एकारः स्यात् । रमया । रमाभ्याम् । रमाभिः ॥

Laghu Siddhanta Kaumudi

Up

आङि ओसि चाप एकारः। रमया। रमाभ्याम्। रमाभिः॥

Neelesh Sanskrit Detailed

Up

आकारान्तस्त्रीलिङ्गशब्दाः सर्वे टाप्/चाप्/डाप् प्रत्ययान्ताः सन्ति । 'आबन्त' इत्यनेन एतेषाम् एव ग्रहणम् क्रियते । एतेषाम् सर्वेषामङ्गस्य (1) षष्ठीसप्तमीद्विवचनस्य ओस्-प्रत्यये परे, तथा (2) तृतीयैकवचनस्य टा-प्रत्यये परे - एकारादेशः भवति । यथा - 1) माला + ओस् → माले + ओस् → [<<एचोऽयवायावः>> 6.1.78 इति अयादेशः । विसर्गनिर्माणम् ।] → मालयोः 2) माला + टा → माले + आ → [<<एचोऽयवायावः>> 6.1.78 इति अयादेशः ] → मालया ज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तम् 'आङ्' इति 'टा' प्रत्ययस्यैव अन्यत् नाम । पूर्वाचार्यैः टा-प्रत्ययस्य आङ्-इति उल्लेखः कृतः अस्ति, अतः पाणिनिः अपि केषुचन स्थलेषु 'टा' इत्यस्य स्थाने आङ्-इति वदति । परन्तु अयं प्रत्ययः टित्-अस्ति, ङित्-नास्तीति स्मर्तव्यम् ।

Balamanorama

Up

<<आङि चापः>> - आङि चापः ।ओसि चे॑त्यनुवर्तते, 'आप' इति षष्ठी,-॒अङ्गस्ये॑त्यदिकृतं तदन्तविधिः ।बहुवचने झल्ये॑दित्यत एदित्यनुवर्तते । तदाह — आङि ओसि चेत्यादिना ।आङिति टासंज्ञां प्राचा॑मित्युक्तम् । अलोऽन्त्यस्य एत्वेऽयादेश इत्याह-रमयेति । रमाभिरिति । 'अतो भिसः' इति तपरकरणाअदैस्न । रमा-ए इति स्थिते- ।

Padamanjari

Up

खट्वया, खट्वयोरित्यादीनि टाब्डाप्चापां क्रमेणोदाहरणानि । कीलालपेति । कीलालं पिबति ठातो मनिन्क्वनिब्वनिपश्चऽ इति विच्, तृतीयैकवचने ठातो धातोःऽ इत्यालोपः, असति तु पिद्विशिष्टस्य ग्रहणे कीलालपः पश्येत्यादौ चरितार्थं लोपं बाधित्वा परत्वादाङेसोरिदमेवैत्वं स्यात् । ड।लब्ग्रहणेऽदीर्घग्रहणादिति । यत्र ङ्यापौ गृह्यएते तत्र दीर्घयोर्ग्रहणम्, न ह्रस्वयोः । स्थानिवद्भावे तु प्रसङ्गः, तत्र स्थानिवत्प्रतिषेधसूत्रप्रस्तावे वार्तिकम् -'ङ्याब्ग्रहणे' दीर्घःऽ इति, ङ्यापोर्ग्रहणेऽदीर्घ आदेशो न स्थानिवदिति । तत्रार्थादिदमुक्तं भवति - ङ्यापोर्ग्रहणे दीर्घयोर्ग्रहणमिति, तदिदं वृत्तिकारेण दर्शितम् ॥