क्वाति

7-2-105 क्व अति विभक्तौ किमः

Sampurna sutra

Up

अति विभक्तौ किमः क्व

Neelesh Sanskrit Brief

Up

'अत्' विभक्तिप्रत्यये परे किम्-शब्दस्य 'क्व' आदेशः भवति ।

Neelesh English Brief

Up

The word किम् is converted to क्व when followed by the विभक्तिप्रत्यय 'अत्'.

Kashika

Up

अतीत्येतस्यां विभक्तौ परतः किमित्येतस्य क्व इत्ययमादेशो भवति। क्व गमिष्यसि। क्व भोक्ष्यते। आदेशान्तरवचनम् ओर्गुण — ६.४.१४६ — निवृत्त्यर्थम्। किमो ड्वदिति प्रत्ययान्तरं न विधीयते, साकच्कार्थम्॥

Siddhanta Kaumudi

Up

किमः क्वादेशः स्यादति । क्व । कुत्र ॥

Laghu Siddhanta Kaumudi

Up

किमः क्वादेशः स्यादति। क्व। कुत्र॥

Neelesh Sanskrit Detailed

Up

<<किमोऽत्>> 5.3.12 अनेन सूत्रेण किम्-शब्दात् 'अत्' इति तद्धितप्रत्ययः भवति । अस्य प्रत्ययस्य <<प्राग्दिशौ विभक्तिः>> 5.3.1 इत्यनेन विभक्तिसंज्ञा अपि भवति । अस्मिन् प्रत्यये परे किम्-शब्दस्य वर्तमानसूत्रेण क्व-आदेशः भवति । <<अनेकाल्शित्सर्वस्य>> 1.1.55 इति अयम् सर्वादेशः जायते ।] किम् + अत् [<<किमोऽत्>> 5.3.12 इति किम्-शब्दात् 'अत्' इति तद्धितप्रत्ययः] → क्व + अ [<<क्वाति>> 7.2.105 इति किम्-इत्यस्य क्व-आदेशः] → क्व् + अ [<<यस्येति च>> 6.4.148 इति अकारलोपः] → क्व

Balamanorama

Up

<<क्वाति>> - क्वाऽति । क्व — अतीति छेदः ।क्वे॑ति लुप्तप्रथमाकं । 'किमः कः' इत्यतः किम इत्यनुवर्तते । तदाह — किमः क्वेति । किंशब्दात्सप्तम्यन्तादत्प्रत्ययः, तकार इत्, किमः क्वादेश इति भावः । कुत्रेति । अत्प्रत्ययाऽभावपक्षे त्रलिकु तिहो॑रिति कुभावे रूपम् । केचित्तुकिमोऽ॑दित्यत्र उत्तरसूत्राद्वाग्रहणाऽपकर्षे प्रमाणाऽभावात्रलं बाधित्वा नित्य एव अत्प्रत्ययः,कुत्रे॑ति त्वपशब्द एवेत्याहुः ।

Padamanjari

Up

क्वेति । किमोऽत् इत्यत्प्रत्ययः ॥ अथदेशान्तरकरणं किमर्थम्, न प्रकृतः कुशब्द एव विधीयते, एवं च कृत्वा योगाविभागोऽपि न कर्तव्यः कुतिहात्सु इत्येवास्तु का रूपसिद्धिः यणादेशे कृते क्वेति सिद्धम्, ओर्गुणस्तु अङ्गवृते पुनर्वृतौ इति वचनान्न भविष्यति, यणदेशस्त्वनाङ्गत्वाद्भवत्येव तत्राह - आदेशान्तरकरणमोर्गुणनिवृत्यर्थमिति । निष्ठिततत्वं दुर्ज्ञानमिति भावः । एवं तर्हि किमोऽत् इत्येतत् किमोड्वत् इति वक्तव्यम्, टिलोपो कृते क्वेति सिद्धमत आह - किमोड्वदिति चेति । कथं पुनः प्रत्ययान्तरे रूपसिद्धिः, यावता ककारस्य जश्त्वं प्राप्नोति टिलोपो हि डित्प्रत्यभविष्यति । कथमसिद्धत्वमसिद्धं बहिरङ्गमन्तरणेó । टिलोपो हि डित्प्रत्ययापेक्षत्वाद्बहिरङ्गः जश्त्वं तु तदनपेक्षत्वादन्तरङ्गम् । साकच्कार्थमिति । साकच्के हि प्रत्ययान्तरे विहिते कक्वेति स्यत् । यथान्यासे तु तत्रापि क्वेत्येव भवति ॥