स्त्रियां च

7-1-96 स्त्रियां च सर्वनामस्थाने तृज्वत्क्रोष्टुः

Sampurna sutra

Up

index: 7.1.96 sutra: स्त्रियां च


स्त्रियां क्रोष्टु तृज्वत्

Neelesh Sanskrit Brief

Up

index: 7.1.96 sutra: स्त्रियां च


स्त्रीलिङ्गे क्रोष्टु-शब्दः तृज्-वत् भवति ।

Neelesh English Brief

Up

index: 7.1.96 sutra: स्त्रियां च


In feminine context, the word क्रोष्टु behaves similar to the तृच्-प्रत्ययान्त words.

Kashika

Up

index: 7.1.96 sutra: स्त्रियां च


असर्वनामस्थानार्थमारम्भः। स्त्रियां च क्रोष्टुशब्दस्य तृज्वद् भवति। क्रोष्ट्री। क्रोष्ट्रीभ्याम्। क्रोष्ट्रीभिः। क्रोष्टुशब्दं केचिद् गौरादिषु पठन्ति, ते ङीषि प्रत्यये तृज्वद्भावं कुर्वन्ति। तेषां पञ्चभिः क्रोष्ट्रीभिः क्रीतैः पञ्चक्रोष्टृभी रथैः इति स्त्रीशब्दस्य लुकि कृते न सिध्यति, तत्र प्रतिविधेयम्। ये तु गौरादिषु न पठन्ति, तेषां स्त्रियाम् इत्यर्थनिर्देशः, स्त्रियां वर्तमानः क्रोष्टुशब्दः तृज्वद् भवति। कृतेऽतिदेशे ऋन्नेभ्यो ङीप् 4.1.5 इति ङीप्प्रत्ययः। तत्र उदात्तयणो हल्पूर्वात् 6.1.174 इत्यन्तोदात्त एव क्रोष्ट्रीशब्दो भवति।

Siddhanta Kaumudi

Up

index: 7.1.96 sutra: स्त्रियां च


स्त्रीवाची क्रोष्टुशब्दस्तृजन्तवद्रूपं लभते ॥

Laghu Siddhanta Kaumudi

Up

index: 7.1.96 sutra: स्त्रियां च


स्त्रीवाची क्रोष्टुशब्दस्तृजन्तवद्रूपं लभते॥

Neelesh Sanskrit Detailed

Up

index: 7.1.96 sutra: स्त्रियां च


'क्रोष्टु' इति उकारान्तपुँल्लिगः शब्दः । परन्तु स्त्रीलिङ्गस्य विषये अयं शब्दः 'तृच्-वत्' भवति । इत्युक्ते, 'क्रोष्टृ' शब्दवत् अस्य कार्यं भवति -

क्रोष्टु

→ क्रोष्टृ [स्त्रीलिङ्गस्य विवक्षायाम् स्त्रियां च 7.1.96 इति तृज्वद्भावः]

→ क्रोष्टृ + ङीप् [स्त्रीत्वं द्योतयितुम् ऋन्नेभ्यो ङीप् 4.1.5 इत्यनेन 'ङीप्' प्रत्ययः]

→ क्रोष्ट्री [इको यणचि 6.1.77 इति यणादेशः]

अस्य रूपाणि 'कर्त्री' शब्दवत् भवन्ति । यथा - क्रोष्ट्री, क्रोष्ट्र्यौ क्रोष्ट्र्यः ।

Balamanorama

Up

index: 7.1.96 sutra: स्त्रियां च


स्त्रियां च - अथ क्रोष्टुशब्दस्य स्त्रियां विशेषमाह — स्त्रियां च । 'तृज्वत्क्रोष्टुः' इत्यनुवर्तते । रूपातिदेशोऽयमित्युक्तम् । तदाह — स्त्रीवाचीत्यादिना । तथाच स्त्रियामुदन्तः क्रोष्टुशब्दो नास्त्येव । किन्तु क्रोष्टृ इति ऋदन्त एवेति फलितम् ।

Padamanjari

Up

index: 7.1.96 sutra: स्त्रियां च


क्रोषटुअशब्दस्तृज्वद्भवतीत्येतत्वर्थकथनम् । षष्ठ।ल्न्तं तु युक्तं पठितुम् । अन्ये त्वेतद्ग्रहन्थपर्यालोपचनया पूर्वसूत्रेऽपि क्रोष्टः इति प्रथमान्तं मन्यन्ते । अनुक्रियमाणरुपविनाशप्रसङ्गातु तृज्वद्भावो न कृतः । वतिरपि तृतीयासमर्थादेव । तृजन्तेन तुल्यं वर्तत इति तद्रूपभाक्त्वेन तुल्यत्वमिति रुपातिदेशत्वम् । एवं च पूर्वसूक्षेऽप्याद्यग्रहन्थे तस्येति न पठितव्यम् । तृजन्तस्य यद्रूपं तदस्य भवतीति । एतच्चार्थकथनम् । अत्र विभक्तौ इत्यनुवर्तते चेत् क्रोष्ट्री भक्तिरस्येति बहुव्रीहौ भक्तिशब्दस्य प्रियादिशु पाठात्पुंवद्भावाभावे क्रोषट्री भक्तिरिति न सिद्ध्यति समासार्थाया विभक्तेर्लुमता लुप्तत्वात् । अथ वाक्यावस्थायामेव तृज्वद्भावो भविष्यति अन्तरङ्गनपि विधीन्बहिहङ्गो लुग्बाधते । तस्मान्नात्र विभक्तिर्निमितत्वेन शक्या आश्रयितुम्, किं तर्हि निमितम् इत्याह - केचिदित्यादि । कथं पुनर्गौरादिषु पाठे ङीष्प्रत्ययो निमितं भवति स्त्रियाम् इति नैवं विज्ञायते स्त्रियामर्थ इति । कथं तर्हि स्त्रिया - ई - स्त्री, स्त्रियामिति, स्त्रीत्वस्य द्योतको य ईकारस्तत्रेत्यर्थः । अर्थगतं च स्त्रीत्वमीकअरे आरोप्य स्त्रियामिति नदीसंज्ञानिमितावामाटौ क्रियेते । एवं वदतामनिष्टमाह - तेषामिति । पञ्चक्रोष्ट्ःअभिरिति । तद्धितार्थे समासः, आर्हीयस्य ठकः अध्यर्द्धपूर्व इति लुक्, लुक्तद्धितलुकि इति स्त्रीप्रत्ययस्यापि लुक् । तत्र न लुमताङ्गस्य इति एप्रतिषेधादीकारनिमितस्तृज्वद्भावो न सिद्ध्यति । अन्तरङ्गातणं च विधीनां लुका बाधनोत् न पूर्वमेव तृज्वद्भावो लभ्यते । तत्र सर्वनामस्थाने पूर्वेणैव सिद्धस्तृज्वद्भाव इति तृतीयादावसिद्धिरुक्ता, सर्वनामस्थानेऽपि सम्बुद्धौ पूर्वेणासिद्धिरेव - हे पञ्चक्रोष्टरिति । तथा शसि पञ्चक्रोष्ट्ःअन्, तथा तृतीयादिष्वजादिप्वप्युतरसूत्रेण विकल्पः प्राप्नोति - पञचक्रोष्ट्रा, पञ्चक्रोष्ट्रे । नन्वारब्धेऽप्यस्मिन्, परत्वाद्विकल्प एव प्राप्नोति थान्तरङ्गत्वादयमेव नित्यो विधर्भवति । तत्र प्रतिविधेयमिति । वचनमेवात्र शरणम् । ये तर्हि गौरादिषु न पठन्ति तेषां किं निमितम् न किञ्चिदित्याह - य त्वित्यादि । स्त्रियां च वर्तमान इति । सूत्राक्षरामनुरोधेन चशब्दः पठितः । ननु च यद्यपि न शब्देन किञ्चिन्नमितमाश्रीयते, अङ्गस्य इति त्वाश्रीयते, अङ्गे चाश्रिते प्रत्ययोऽप्याश्रित एव, यथोक्तम्, अङ्गस्य इत्यत्र वव्रश्चेत्यस्य सिद्धये सत्यम् कार्यकालं संज्ञापरिभाषम् तदुक्तम् । तत्र हि पक्षे उरत् इत्यत्राङ्गसंज्ञासूत्रमुपतिष्ठते, ततश्च प्रत्ययः त्यिस्याङ्गसंज्ञायामुरदत्वं च प्रति निमितभावः , सन्निधेरविशिष्टत्वात् । इह तु यथोद्देशपक्ष आश्रीयते, तदतश्च वस्तुतोऽङ्गस्य स्त्रियां वर्तमानस्य क्रोष्टुअशब्दस्य तृज्वद्भावो विधीयते, न तु परनिमितमाश्रीयते । अङ्गसंज्ञा च प्रत्ययलक्षणेन भविष्यति । अङ्गस्य इति वचनाल्लब्धाङ्गसंज्ञस्य यत्कार्यं प्रत्ययलक्षणं तदेव प्रतिषिद्ध्यति, न चाङ्गसंज्ञा अङ्गस्य कार्यम् । अन्तोदात एव क्रोष्ट्रीशब्दो भवतीति । गौरादिषु पाठे ङीष्प्रत्ययस्वरेणान्तोदातः । अत्रापि पक्षे उदातयणो हल्पूर्वात् तथैत्यन्तोदात थएवेति एवशब्दार्थः । केचितु - ङीपोऽपि उदातयणः इत्येवोदातत्वमन्यथा ङीषि परतस्तृज्वद्भावे चित्स्वरस्य सतिशिष्टत्वेन ङीषोऽनुदातत्वप्रसङ्ग इत्याहुः ॥