न माङ्योगे

6-4-74 न माङ् योगे असिद्धवत् अत्र आभात् लुङ्लङ्लृङ्क्षु अट् आट्

Sampurna sutra

Up

लुङ्-लङ्-लृङ्क्षु माङ् योगे अङ्गस्य अट् आट् न

Neelesh Sanskrit Brief

Up

माङ्-इत्यस्य उपस्थितौ लुङ्लकारे, लङ्लकारे, लृङ्लकारे च अङ्गस्य अडागमः / आडागमः न भवति ।

Neelesh English Brief

Up

In presence of the अव्यय माङ्, the अडागमः / आडागमः does not happen even in case of लुङ्लकार, लङ्लकार, and लृङ्लकार

Kashika

Up

माङ्योगे लुङ्लङ्लृङ्क्षु यदुक्त ं तन्न भवति। मा भवान् कार्षीत्। मा भवान् हार्षीत्। मा स्म करोत्। मा स्म हरत् । मा भवानीहिष्ट। मा भवानीक्षिष्ट। मा स्म भवानीहत। मा स्म भवानीक्षत ॥

Siddhanta Kaumudi

Up

अडाटौ न स्तः । मा भवान् भूत् । मा स्म भवत् भूद्वा ॥

Laghu Siddhanta Kaumudi

Up

अडाटौ न स्तः। मा भवान् भूत्। मा स्म भवत्। मा स्म भूत्॥

Neelesh Sanskrit Detailed

Up

'माङ्' इति किञ्चन अव्ययम् । अस्य प्रयोगः निषेधं दर्शयितुम् भवति । माङ्-इत्यस्य उपस्थितौ <<माङि लुङ्>> इत्यनेन 3.3.75 इत्यनेन केवलं लुङ्-लकारस्यैव प्रयोगः भवितुमर्हति, अन्येषां लकाराणाम् न । तथा च, यदि माङ्-इत्येतेन सह 'स्म' इति अन्यत् अव्ययमपि प्रयुज्यते, तर्हि <<स्मोत्तरे लङ् च>> 3.3.176 इत्यनेन लङ्लकारस्य लुङ्लकारस्य वा एव प्रयोगः भवितुमर्हति, अन्येषाम् लकाराणाम् न । अस्मिन् प्रयोगे वर्तमानसूत्रेण अडागमः / आडागमः न क्रियते । यथा - 'क्लैब्यं मा स्म गमः पार्थ' (भगवद्गीता, 2.3) - अत्र 'गम्' धातोः लुङ्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् 'गमः' एतादृशम् सिद्ध्यति । गम् + लुङ् [<<लोट् च>> 3.3.162 इत्यनेन 'विधिं' दर्शयितुम् लोट्लकारे प्राप्ते <<स्मोत्तरे लङ् च>> 3.3.176 इत्यनेन अपवादत्वेन लुङ्-लकारः विधीयते ।] → गम् + च्लि + ल् [<<च्लि लुङि>> 3.1.43 इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि'] → गम् + अ + ल् [<<3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु>> 3.1.55 इति च्लि-इत्यस्य अङ्-आदेशः ।] → गम् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इत्यनेन अडागमे प्राप्ते <<न माङ्योगे>> 6.4.74 इति अडागमनिषेधः] → गम् + अ + सि [<<तिप्तस्..>> 3.4.78 इति सिप्] → गम् + अ + स् [<<इतश्च>> 3.4.100 इति इकारलोपः] → गमः [विसर्गनिर्माणम्] तथैव - मा भवान् कार्षीत् / मा भवान् करोत् - एतादृशाः प्रयोगाः अपि सिद्ध्यन्ति । ज्ञातव्यम् - 'मा' इत्येपि अन्यत् एकमव्ययमस्ति, यस्यापि प्रयोगः 'निषेधार्थे' एव भवति । परन्तु अस्मात् अव्ययात् परः कस्यापि लकारस्य प्रयोगः भवितुमर्हति । तथा च, अस्य उपस्थितौ वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः लुङ्/लङ्/लृङ्-लकाराणां विषये अडागमः / आडागमः भवत्येव । यथा, भर्तृहरिः वदति - 'अरसिकेषु कवित्वनिवेदनम्, शिरसि मा लिख, मा लिख, मा लिख । अत्र 'मा' इत्यस्मात् परः लोट्लकारः प्रयुक्तः अस्ति ।

Balamanorama

Up

Padamanjari

Up

यद्ययमनन्तरस्याट एव प्रतिषेधः स्यात्, तत्संयुक्तमेव प्रतिषेधं कुर्यात् - आडजादीनाममाङ्योगे इति, असंयुच्य तु प्रतिषेधात्सर्वस्य प्राकरणिकस्य प्रतिषेधा विज्ञायत इत्याह - लुङ्लङ्लृङ्क्षु यदुक्तं तन्न भवतीति । तत्र लुङ् उदाहरणं न प्रदर्शितम् माङ्योगे तदासम्भवत् । ङिद्विशिष्टस्योपादानम् - असम्दादेशो यो माशब्दः त्वोमौ द्वितीयायः इति तद्योगे प्रतिषेधो मा भूत् - सुखिनं मा अकार्षीदिति । अथ कथम् - मा बालिपथमन्वगाः ॥ स्वच्छन्दमनुवर्तन्ते न शास्त्रमृषयः किल ॥