6-1-168 सौ एकाचः तृतीयादिः विभक्तिः अन्तः उदात्तः
साविति सप्तमीबहुवचनस्य सुशब्दस्य ग्रहणम्। तत्र सौ य एकाच् तस्मात् परा तृतीयादिर्विभक्तिरुदात्ता भवति। वा॒चा, वा॒ग्भ्याम् वा॒ग्भिः। वा॒ग्भ्यः। या॒ता, या॒द्भ्याम्, या॒द्भिः। साविति किम्? राज्ञा॑। राज्ञे॑। एकाच इति किम् ? हरि॑णा। गि॒रिणा॑। राज॑सु। तृतीयादिरिति किम् ? वाचा॑ै। वाचः॑। विभक्तिरिति किम् ? वाक्त॑रा। वाक्त॑मा। सप्तमीबहुवचनस्य ग्रहणादिह न भवति — त्वया॑, त्वयि॑ इति॥
साविति सप्तमीबहुवचनम् । तत्र य एकाच् ततः परा तृतीयादिर्विभक्तिरुदात्ता । वाचा विरूपः (वा॒चा वि॑रूपः) । सौ किम् । राज्ञेत्यादौ एकाचोऽपि राजशब्दात्परस्य माभूत् । राज्ञो नु ते (राज्ञो॒ नु ते॑) । एकाचः किम् । विधते राजनि त्वे (विध॒ते राज॑नि॒ त्वे) । तृतीयादिः किम् । न ददर्श वाचम् (न द॑दर्श॒ वाच॑म्) ॥
साविति सप्तमीबहुवचनस्य सुशब्दस्य गुहणमिति। न प्रथमैकवचनस्य; व्याख्यानात्। प्रयोजनं तूतरत्र वक्ष्यति। पातेति। पातेर्लटः शत्रादेशः। राज्ञेति।'सौ' इत्येत्स्मिन्नसत्येकाचः परा तृतीयादिविभक्तिरुदाता भवतीत्यर्थो भवति, भवति चायमल्लोपे कृते एकाच्। ननु च विहितविशेषणं विज्ञास्यते-एकाचो या विहिता तृतीयादिरिति ? न; प्रमाणाभावात्। सप्तमीबहुवचनस्य ग्रहणादिति। प्रथमैकवचने तु'त्वाहौ सौ' इति त्वादेशे कृते युष्मच्छब्द एकाच् भवति, शेषे लोपे कृतेऽकारान्तत्वात्'साववर्ण' इति प्रतिषेधो भविष्यति। तदिह प्रथमैकवचनाग्रहणे को हेतुरिति चिन्त्यम् ॥