बाह्वन्तात् संज्ञायाम्

4-1-67 बाह्वन्तात् सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् जातेः ऊङ्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

बाहुशब्दान्तात् प्रातिपदिकात् संज्ञायां विषये स्त्रियामूङ् प्रत्ययो भवति। भद्रबाहूः। जालबाहूः। संज्ञायामिति किम्? वृत्तौ बाहू अस्याः वृत्तबाहुः॥

Siddhanta Kaumudi

Up

स्त्रियामूङ् स्यात् । भद्रबाहूः । संज्ञायां किम् ? वृत्तबाहुः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<बाह्वन्तात् संज्ञायाम्>> - बाह्वन्तात्संज्ञायाम् । 'ऊङुत' इत्यत ऊङित्यनुवर्तते, स्त्रियामित्यधिकृतं, प्रातिपदिकादिति च । तदाह — स्त्रियामूङ् स्यादिति । भद्रबाहूरिति । कस्याश्चित्संज्ञा । संज्ञायां किमिति । संज्ञायामित्येतत्किमर्थमिति प्रश्नः । वृत्तबहुरिति । वृत्तौ बाहू यस्या इति विग्रहः । स्त्रियामपि नोङ् ।

Padamanjari

Up