4-3-160 गोपयसोः यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे
गोपयःशब्दाभ्यां यत् प्रत्ययो भवति विकारावयवयोरर्थयोः। गव्यम्। पयस्यम्। <<सर्वत्र गोरजादिप्रसङ्गे यत्>> (वा० ४.१.८५) अस्त्येव, मयड्विषये तु विधीयते॥
गव्यम् । पयस्यम् ॥
गव्यम् । पयस्यम् ॥ इति विकारार्थाः ॥ ६ ॥
<<गोपयसोर्यत्>> - गोपयसोर्यत् । गव्यमिति । गोर्विकारोऽवयवो वेत्यर्थः ।वान्तो यी॑त्यवादेशः । पयस्यमिति । पयसो विकार इत्यर्थः ।सर्वत्र गोरजादिप्रसङ्गे य॑दित्येव सिद्धे यद्विधानंमयड्वैतयो॑रिति पाक्षिकमयटो बाधनार्थम् ।
मयड्विषये त्विति ।'मयड्वैतयोः' इति विहितस्य मयटो विषये ॥