3-3-97 ऊतियूतिजूतिसातिहेतिकीर्तयः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां क्तिन् उदात्तः
index: 3.3.97 sutra: ऊतियूतिजूतिसातिहेतिकीर्तयश्च
मन्त्रे इति न अनुवर्तते। ऊत्यादयः शब्दा निपात्यन्ते। उदात्तः इति वर्तते। अवतेः ज्वरत्वरस्रिव्यविमवामुपधायाश्च 6.4.20 इति ऊठ्। ऊतिः। स्वरार्थं वचनम्। यौतेर्जवतेश्च यूतिः, जूतिः। दीर्घत्वं च निपात्यते। सातिः। स्यतेः इत्वाभावो निपात्यते, सनोतेर्वा जनसनखनां संज्ञालोः 6.4.42 इत्यात्वे कृते स्वरार्थं निपातनम्। हन्तेर्हिनोतेर्वा हेतिः। कीर्तयतेः कीर्तिः।
index: 3.3.97 sutra: ऊतियूतिजूतिसातिहेतिकीर्तयश्च
अवतेः ज्वरत्वर <{SK2654}> इत्यूठ । ऊतिः । स्वरार्थं वचनम् । उदात्त इति हि वर्तते । यूतिः । जूतिः । अनयोर्दीर्घत्वं च निपात्यते । स्यतेः सातिः । द्यतिस्यति <{SK3074}> इतीत्वे प्राप्ते इत्वाभावो निपात्यते । सनोतेर्वा जनसन <{SK2504}> इत्यात्वे कृते स्वरार्थं निपातनम् । हन्तेर्हिनोतेर्वा हेतिः । कीर्तिः ॥
index: 3.3.97 sutra: ऊतियूतिजूतिसातिहेतिकीर्तयश्च
एते निपात्यन्ते॥॥
index: 3.3.97 sutra: ऊतियूतिजूतिसातिहेतिकीर्तयश्च
मन्त्रे इति नानुवर्तत इति । तेन ब्राह्मणे भाषायां चाथं विधिर्भवति । स्यतेरिति ।'षो' न्तकर्मणिऽ इत्यस्य । हत्वाभाव इति ।'द्यतिस्यति' इत्यादिना प्राप्तस्येत्वस्याभावः । सनोतेर्वेति ।'षणुदाने' इत्यस्य । हन्तेर्हिनोतेर्वोत । यदा हन्तेस्तदा नकारस्येत्वं निपात्यते, यदा हिनोतेस्तदा तु गुणः । कीर्तयतेरिति ।'कृत संशब्दने' इत्यस्य चुरादिणिजन्तस्य'ण्यासश्रन्यो युच्' , इति युचोऽपवादः क्तिन्निपात्यते, उदांतत्वं च । इडभावस्तु'तितुत्र' इत्यादिना सिद्धः, ठुपधायाश्चऽ'हलि च' ठुपधायां चऽ इति दीर्घत्वम् । कालापास्तु युचमपीच्छन्ति - कीर्तनेति ॥