5-4-90 उत्तमैकाभ्यां च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य अह्नः
उत्तम-एकाभ्यामह्नः अह्नः न
'पुण्य' शब्दस्य विषये तथा च 'एक' शब्दस्य विषये अहन् शब्दस्य अह्न-आदेशः न भवति ।
उत्तमैकशब्दाभ्यां च परस्याह्न इत्ययमादेशो न भवति। उत्तमशब्दोऽन्त्यवचनः पुण्यशब्दमाचष्टे। पुण्यग्रहणमेव न कृतं वैचित्र्यार्थम्। पुण्याहः। एकाहः। केचित् तु उपोत्तमस्यापि प्रतिपत्त्यर्थं वर्णयन्ति। तेन संख्यातशब्दादपि परस्य न भवति — संख्याताह इति॥
आभ्यामह्नादेशो न । उत्तमशब्दोऽन्त्यार्थः । पुण्यशब्दमाह । पुण्यैकाभ्यामित्येव सूत्रयितुमुचितम् । पुण्याहम् । सुदिनाहम् । सुदिनशब्दः प्रशस्तवाची । एकाहः । उत्तमग्रहणमुपान्त्यस्यापि संग्रहार्थमित्येके । संख्याताहः ॥
<<अह्नोऽह्न एतेभ्यः>> 5.4.88 इत्यनेन सूत्रेण तत्पुरुषसमासे उत्तरपदरूपेण विद्यमानस्य अहन्-शब्दस्य 'अह्न' इति आदेशः उक्तः अस्ति । अयमादेशः 'पुण्य' शब्दस्य विषये तथा 'एक' शब्दस्य विषये न भवति । अस्मिन् सूत्रे 'उत्तम' तथा 'एक' एतौ शब्दौ प्रयुक्तौ स्तः । द्वयोः प्रयोजनम् क्रमेण पश्यामः - [1] 'उत्तम'शब्दस्य प्रयोजनम् - <<अह्नोऽह्न एतेभ्यः>> 5.4.88 अस्मिन् सूत्रे प्रयुक्तः 'एतेभ्यः' इति शब्दः <<अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः>> 5.4.87 इत्यस्मात् 'अहस्सर्वैकदेशसंख्यातपुण्याच्च' इत्यस्य अनुवृत्तिं कारयितुम् स्थापितः अस्ति । परन्तु अस्यां अनुवृत्तौ 'उत्तम'शब्दस्य (= अन्तिमस्थाने विद्यमानस्य शब्दस्य) शब्दस्य अनुवृत्तिः न स्वीकरणीया - इति वर्तमानसूत्रेण स्पष्टीकर्तुम् वर्तमानसूत्रे 'उत्तम' इति शब्दः गृह्यते । The word उत्तम is used here in the meaning of 'last' । The last word of अहस्सर्वैकदेशसंख्यातपुण्याच्च, viz 'पुण्य' does not cause अहन् to be converted to अह्न - इति अत्र आशयः । यथा - पुण्यमहः [<<विशेषणं विशेष्येण बहुलम्>> 2.1.57 इति कर्मधारयसमासः] = पुण्य + अहन् + टच् [<<राजाहस्सखिभ्यष्टच्>> 5.4.91 इति टच्] → पुण्याहन् + अ [ <<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः] → पुण्याह् + अ [<<नस्तद्धिते>> 6.4.144 इति टिलोपः] → पुण्याह पुण्यमहः पुण्याहम् । अत्र <<रात्राह्नाहाः पुंसि>> 2.4.29 इत्यनेन पुँस्त्वे प्राप्ते <!पुण्यसुदिनाभ्यामह्नः क्लीबता इष्टा!> इत्यनेन नपुंसकलिङ्गं विधीयते । विशेषः - अ) अस्मिन् सूत्रे 'उत्तम' इत्यस्य स्थाने 'पुण्य' इत्यस्यैव ग्रहणम् वस्तुतः समीचीनमस्ति, तेन सूत्रार्थज्ञाने सम्भ्रमः अपि न जायते । पाणिनिना 'पुण्य' इत्यस्य स्थाने 'उत्तम' इति कृतः प्रयोगः विचित्रः अस्तीति व्याख्यानैः स्पष्टीक्रियते । अतः कौमुदीकारः वदति - 'पुण्यैकाभ्यामित्येव सूत्रयितुमुचितम्' । आ) केचन पण्डिताः अस्मिन् सूत्रे निर्दिष्टस्य 'उत्तम' शब्दस्य अन्यत् एकम् प्रयोजनमस्तीति मन्यन्ते । तेषां मतेन <<अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः>> 5.4.87 इत्यस्मात् सूत्रात् 'सङ्ख्यात' शब्दस्य <<अह्नोऽह्न एतेभ्यः>> 5.4.88 इत्यत्र अनुवृत्तिः न करणीया - इति ज्ञापनार्थम् 'उत्तम'शब्दः अत्र प्रयुक्तः अस्ति । According to some experts, the word 'उत्तम' in this sutra is used to block the अनुवृत्ति of संख्यात as well as पुण्य in the sutra <<अह्नोऽह्न एतेभ्यः>> 5.4.88 । अतः एतेषां मतेन 'सङ्ख्यातमहः' इत्यत्र अहन्-शब्दस्य अह्न-आदेशः न भवति, अतः 'सङ्ख्याताहः' इत्येव समस्तपदं सिद्ध्यति । [2] 'एक'शब्दस्य प्रयोजनम् - यस्मिन् समस्तपदे 'एक' इति शब्दः पूर्वपदरूपेण तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् <<राजाहस्सखिभ्यष्टच्>> 5.4.91 इत्यनेन टच्-प्रत्यये कृते अहन्-शब्दस्य <<अह्नोऽह्न एतेभ्यः>> 5.4.88 इत्यनेन प्राप्तः अह्न-आदेशः वर्तमानसूत्रेण निषिध्यते । यथा - एकमहः [<<पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे>> 2.2.1 इत्यनेन एकदेशिसमासः] = एक + अहन् + टच् [<<राजाहस्सखिभ्यष्टच्>> 5.4.91 इति टच्] → एकाहन् + अ [ <<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः] → एकाह् + अ [<<नस्तद्धिते>> 6.4.144 इति टिलोपः] → एकाह
<<उत्तमैकाभ्यां च>> - उत्तमैकाभ्यां च । ननु उत्तमशब्दात्परस्याऽहन्शब्दस्याऽह्नादेशाऽप्रसक्तेरुत्तमग्रहणं व्यर्थमित्यत आह — उत्तमशब्द इति । उत्तमशब्दोऽन्त्ये वर्तते । यथा द्वादशाहेउदयनीयातिरात्र उत्तममहः॑ इति अन्त्यमिति गम्यते ।अहःसर्वैकदेशसङ्ख्यातपुण्या॑दित्युपात्तेषु अन्त्यः पुण्यशब्दो विवक्षित इत्यर्थः । तर्हिपुण्यैकाभ्या॑मित्येव कुतो न सूत्रितमित्याशङ्क्य स्वतन्त्रेच्छत्वान्नमहर्षेरित्याह — पुण्यैकाभ्यामित्येवेति । पुण्याहमिति । पुण्यमहरिति विग्रहे विशेषणसमासः, टच्, टिलोपः ।पुण्यसुदिनाभ्यां चे॑ति नपुंसकत्वम् । एकाह इति । एकमहरिति विग्रहेपूर्वकालैके॑ति समासः । टच् टिलोपः । उपान्त्यस्यापीति ।लक्षणये॑ति शेषः । परुण्येत्यनुक्त्वा उत्तमग्रहणमेव लक्षणाबीजम् । उत्तमे च एकं चेति द्वन्द्वः, सौत्रं द्विवचनमिति भावः । सङ्ख्याताह इति । सङ्ख्यातमहरिति विग्रहे विशेषणसमासः, टच्, टिलोपः । 'रात्राह्नाहा' इति पुंस्त्वम् । उपान्त्यसङ्खातशब्दपूर्वकत्वान्नाऽह्नादेशः ।
केचितत्वित्यादि। यथा'प्रथमयोः' इति प्रथमाद्वितीययोर्ग्रहणं द्विवचननिर्द्देशात्, तथैवात्राप्युतमग्रहणसामर्थ्यादुपोतमोतमयोर्द्वयोरपि ग्रहणमिति तेपामभिप्रायः। अत्र पक्षे उतमौ द्वावेकश्चापर इति बहुवचनप्रसङ्गात् सौत्रो द्विवचननिर्देशः। एकशब्दस्यापूर्वनिपातः ठल्पाच्तरम्ऽ इत्यस्यानित्यत्वज्ञापनार्थः ॥