6-3-46 आत् महतः समानाधिकरणजातीययोः उत्तरपदे
index: 6.3.46 sutra: आन्महतः समानाधिकरणजातीययोः
समानाधिकरणे उत्तरपदे जातीये च प्रत्यये परतो महतः आकारादेशो भवति। महादेवः। महाब्राह्मणः। महाबाहुः। महाबलः। जातीये महाजातीयः। समानाधिकरणजातीययोः इति किम्? महतः पुत्रः महत्पुत्रः। लक्षणोक्तत्वादेव अत्र न भविष्यतीति चेद् बहुव्रीहावपि न स्याद् महाबाहुः इति। तदर्थं समानाधिकरणग्रहणं वक्तव्यम्। अमहान् महान् सम्पन्नो महद्भूतश्चन्द्रमाः इत्यत्र गौणत्वान् महदर्थस्य न भवत्यात्वम्। महदात्वे घासकरविशिष्टेषु उपसङ्ख्यानं पुंवद्वचनं च असमानाधिकरणार्थम्। महत्याः घासः महाघासः। महत्याः करः महाकरः। महत्याः विशिष्टः महाविशिष्टः। अष्टनः कपाले हविष्युपसङ्ख्यानम्। अष्टकपालं चरुं निर्वपेत्। हविषि इति किम्? अष्टकपालं ब्राह्मणस्य। गवि च युक्तेऽष्टन उपसङ्ख्यानं कर्तव्यम्। अष्टागवेन शकटेन। युक्ते इति किम्? अष्टगवं ब्राह्मणस्य तपरकरणं विस्पष्टार्थम्।
index: 6.3.46 sutra: आन्महतः समानाधिकरणजातीययोः
महत आकारोऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे । महाब्रह्मः । महाब्रह्मा । महादेवः । महाजातीयः । समानाधिकरणे किम् । महतः सेवा महत्सेवा । लाक्षणिकं विहाय प्रतिपदोक्तः सन्महत् <{SK740}> इति समासोऽत्र ग्रहीष्यते इति चेत्, महाबाहुर्न स्यात् । तस्मात् [(परिभाषा - ) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य] इति परिभाषा नेह प्रवर्तते । समानाधिकरणग्रहणसामर्थ्यात् । आदिति योगविभागादात्वम् । प्रागेकादशभ्यः <{SK1995}> इति निर्देशाद्वा । एकादश । महतीशब्दस्य पुंवत्कर्मधारय <{SK746}> इति पुंवद्भावे कृते आत्त्वम् । महाजातीया ।<!महदात्त्वे घासकरविशिष्टेषूपसंख्यानं पुंवद्भावश्च !> (वार्तिकम्) ॥ असामानाधिकरण्यार्थमिदम् । महतो महत्या वा घासो महाघासः । महाकरः । महाविशिष्टः ।<!अष्टनः कपाले हविषि !> (वार्तिकम्) ॥ अष्टाकपालः ।<!गवि च युक्ते !> (वार्तिकम्) ॥ गोशब्दे परे युक्त इत्यर्थे गम्येऽष्टन आत्त्वं वक्तव्यमित्यर्थः ॥ अष्टागवं शकटम् । अच्प्रत्यन्वव <{SK943}> इत्यत्राजिति योगविभागाद्बहुव्रीहावप्यच् । अष्टानां गवां समाहारः अष्टगवम् । तद्युक्तत्वाच्छकटमष्टागवमिति वा ॥
index: 6.3.46 sutra: आन्महतः समानाधिकरणजातीययोः
महत आकारोऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे। महाराजः। प्रकारवचने जातीयर्। महाप्रकारो महाजातीयः॥
index: 6.3.46 sutra: आन्महतः समानाधिकरणजातीययोः
आन्महतः समानाधिकरणजातीययोः - अथ महत्पूर्वस्य टज्विकल्पमुदाहरिष्यन्विशेषमाह — आन्महतः । 'अलुगुत्तरपदे' इत्युत्तरपदाधिकारस्थमिदं सूत्रम् । 'उत्तरपदे' इत्यनुवृत्तंसमानाधिकरणपदेऽन्वेति, न तु जातीये इति, तस्य प्रत्ययत्वात् । तदाह — महत आत्त्वमित्यादिना । महाब्राहृ इति । महांश्चासौ ब्राहृआ चेति विग्रहः ।सन्मह॑दित्यादिना समासः । आत्त्वम् । सवर्णदीर्घः ।कुमहद्भ्या॑मिति टच् । टिलोपःपरवल्लिङ्ग॑मिति पुंस्त्वम् । महाब्राहृएति । टजभावे आत्वे रूपम् । अथ प्रसङ्गादुक्तमात्त्वविधिं प्रपञ्चयिष्यन्समानाधिकरणे पुनरुदाहरति — महादेव इति । जातीये उदाहरति — महाजातीय इति । महत्सदृश इत्यर्थः ।प्रकारवचने जातीयर् । आत्त्वं सवर्णदीर्घः । समानाधिकरणे किमिति ।आन्महतो जातीये चे॑त्येवास्तु, चकारादुत्तरपदसमुच्चये सति महतद आत्त्वं स्यादुत्तरपदे जातीये च परत इत्यर्थलाभादेव महादेव इत्यादिसिद्धेः, किं समानाधिकरणेनेति प्रश्नः । महत्सेवेति । अत्र षष्ठीसमासे आत्त्वनिवृत्त्यर्थं समानाधिकरणग्रहणमिति भावः । ननु षष्ठीसमासो लाक्षणिकः, समस्यमानपदं विशिष्टानुच्चार्य सामान्यशास्त्रत एव निर्बर्तितत्वात् ।सन्मह॑दित्ययं समासस्तु सन्महदादिशब्दं समस्यमान#ं विशिष्योच्चार्या विहितत्वात्प्रतिपदोक्तः । ततश्च लक्षणप्रतिपदोक्तपरिभाषयाआन्महतो जातीये चे॑त्यत्रसन्मह॑दिति प्रतिपदोक्तसमासोत्तरपदग्रहणे सति तत एव षष्ठीसमासोत्तरपदनिराससंभवाद्व्यर्थमेव समानाधिकरणग्रहणमिति शङ्कते — लाक्षणिकमित्यादिना । परिहरति — महाबाहुर्न स्यादिति । महान्तौ बाहू यस्येति विग्रहः । अस्य समासस्य 'अनेकमन्यपदार्थे' इति सामान्यविहितत्वात्प्रतिपदोक्त्वाऽभावात्तदुत्तरपदे परे आत्त्वं न स्यादतः समानाधिकरणग्रहणमित्यर्थः । ननु कृतेऽपि समानाधिकरणग्रहणे लक्षणप्रतिपदोक्तपरिभाषाप्रवृत्तेर्दुर्वारत्वान्महाबाहुरित्यत्रात्त्वं न स्यादेवेत्यत आह — तस्मादिति । तच्छब्दार्थमाह — समानाधिकरणग्रहणसामर्थ्यादिति । एवं च लक्षणप्रतिपदोक्तपरिभाषां बाधित्वा लाक्षणिकस्यापि ग्रहणार्थं समानाधिकरणग्रहणमिति भावः । नच सुमहान्तौ बाहू यस्य स सुमहाबाहुरित्यत्र कथमात्त्वम् । आत्त्वविधेः पदाङ्गाधिकारस्थत्वाऽभावेन तदन्तविध्यभावादिति वाच्यम्, उत्तरपदाक्षिप्तपूर्वपदस्य महता विशेषणे सति तदन्तविधिलाभात् ।परममहत्वपिरमाणवा॑नित्यत्र तु महतः परिमाणं महत्परिमाणं, परमं महत्परिमाणमिति षष्ठीसमासगर्भः कर्मधारय इति द#इक् । ननु 'आन्महतः' इत्यत्र महत एव ग्रहणात् 'द्व्यष्टनः' इत्युत्तरसूत्रे द्व्यष्टनोरेव ग्रहणादेकादशेत्यत्र कथमात्त्वमित्यत आह — योगविभागादात्त्वमिति । योगविभागस्य भाष्याऽदृष्टत्वादाह — निर्देशाद्वेति । एकादशेति । एकश्चदश चेति द्वन्द्वः । एकाधिका दशेति वा । 'आन्महत' इत्यत्र लिङ्गविशिष्टपरिभाषया महतीशब्दस्यापि जातीयप्र्रत्यये परे महताजातीयेति स्यादित्यत आह — महतीशब्दस्येति । नच परत्वात्पुंवत्त्वं बाधित्वा आत्वं स्यादिति वाच्यम्, 'आन्महतः' इत्यत्र लिङ्गविशिष्टपरिभाषा न प्रवर्तत इति ङ्याप्सूत्रे भाष्ये उक्तत्वादिति भावः । महदात्त्वे इति । 'घास' 'कर'विशिष्ट॑-एषु परतो महत आत्त्वं पुंवत्त्वं च वक्तव्यमित्यर्थः । ननु 'आन्महतः' इत्यात्त्वेपुंवत्कर्मधारये॑ति पुंवत्त्वे च सिद्धे किमर्थमिदमित्यत आह — असामानाधिकरण्यार्थमिति । महाकर इति । महतो महत्या वा कर इत्यर्थः । महाविशिष्ट इति । महतो महत्या वा विशिष्टः । अधिक इत्यर्थः । अष्टन इति । कपाले उत्तरपदे हविषि वाच्ये अष्टन आत्त्वं वक्तव्यमित्यर्थः । अष्टाकपाल इति । अष्टसु कपालेषु संस्कृतः पुरोडाश इत्यर्थे तद्धितार्थे द्विगुः । 'सस्कृतं भक्षाः' इत्यण् । 'द्विगोर्लुगनपत्ये' इति लुक् । आत्त्वं । सवर्णदीर्घः ।गवि च युक्ते । वार्तिकमिदम् । तत्सूचयितुमाह — वक्तव्यमित्यर्थ इति । अष्टागवं शकटमिति । अष्टौ गावो यस्येति बहुव्रीहिः । आत्त्वं, सवर्णदीर्घः । अष्टभिर्गोभिर्युक्तमित्यर्थः । ननुगोरतद्धितलुकी॑ति टज्विधेस्तत्पुरुषमात्रविषयत्वादष्टागविमिति कथमित्यत आह — अच्प्रत्ययन्ववेत्यत्रेति । तत्पुरुषत्वेऽष्टगवशब्दष्टजन्त एवेत्याह — अष्टानामिति । तथा च समाहारद्विगोस्तत्पुरुषत्वागोरतद्धितलुकी॑ति टच्सुलभ इत्यर्थः । नन्वष्टानां गवां समाहार इत्यर्थे शकटे कथमन्वयः, युक्तार्थवृत्तित्वाऽभावात्, कतं वा आत्त्वमित्य आह — तद्युक्तत्वादिति । समाहाद्लिगुरूपतत्पुरुषाट्टचि व्युत्पन्नस्य अष्टगवशब्दस्य लक्षणया अष्टभिर्गोभिर्युक्ते वर्तमानस्य आत्त्वमित्यर्थः ।
index: 6.3.46 sutra: आन्महतः समानाधिकरणजातीययोः
महतः पुत्रो महत्पुत्र इति । ननु चात्र आन्महतः इत्येतावानेव योगः कर्तव्यः, ततः जातीये चेति द्वितीयः, तत्र पूर्वस्मिन् योगे उतरपदेन समासः सन्निधाप्यते, स च लक्षणप्रतिपदोक्तपरिभाषाया सन्महत् इत्यादिना तयो विहितः स एव ग्रहीष्यते, स च समानापरिभाषया सन्महत् इत्यादिना यो विहितः स एव ग्रहीष्यते, स च समानाधिकरण एवेति अनर्थकं समानाधिकरणग्रहणग्रहणम्, तदेतदाशङ्कते तावत् - लक्षणोक्तत्वादिति । निराकरोति - बहुव्रीहावपीति । तदर्थमिति । बहुव्रीहावपि यथा स्यादित्यवमर्थमित्यर्थः । लक्षणप्रतिपदेक्तपरिभाषाया निवृत्यर्थमिति वा । इह आमहान् महान्सम्पन्नो महद्भूतश्चन्द्रमा इति महच्छब्दो भूतशब्दश्तैकस्मिन्नर्थे चन्दर्मसि वर्तेते इति सामानाधिकरण्यादात्वं प्राप्नोति । स्यादेतत् - अभूततद्भावे च्विर्विधीयते, अभूततद्भावश्च कः कारणस्य विकारत्मनाऽभूतस्य तदात्मना भावः, तत्र प्रकृतिः कर्त्री, न विकृतिः, तथा च - सङ्घीभवन्ति ब्राह्मणाः, पटीभवन्ति तन्तवः, अत्वं त्वं सम्पद्यते त्वद्भवतीति प्रकृत्याश्रयेण बहुवचनप्रथमपुरुषौ दृश्येते, न विकृत्वाश्रयेणैकवचनमध्यमपुरुषौ, ततश्च भूत इति क्तप्रत्ययो भवन् क्रियायाः कर्तर्यमहत्युत्पन्नः, न तु विकारे महति ततः किमामहतो भूतेन सामानाधिकरण्यम्, न तु महतः न ह्यवस्थावत एकत्वेऽप्यवस्थयोः सामानाधिकरण्यं सम्भवति, नहि भवति बालश्चासौ स्थविरश्चेति, भवति तु बालश्चासौ देवदतश्चेति, अतो वैयधिकरण्यादात्वाभाव इति । यद्येवम्, अमहती महती सम्पन्ना ब्राह्मणी महद्भूता ब्राह्मणीति पुंवद्भावोऽपि न स्याद्वैयधिकरण्यादेव यथा प्रकृतेः कर्तृत्वं दृष्ट्ंअ तथा विकृतेरपि दृश्यते । तथा च पस्पशायां भाष्यम् - सुवर्णपिण्डः खदिराङ्गारवर्णे कुण्डले भवतीति । तथा कॢपि सम्पद्यमाने चतुर्थी वक्तव्या इति सम्पद्यकर्तर इविधीयमाना चतुर्थी विकाराद्भवति - मूत्राय कल्पते यवागूरिति, न प्रकृतेः । तथा असङ्घो ब्राह्मणसङ्घो भवति, अपटस्तन्तवः पटो भवतीति विकाराश्रयं वचनं दृश्यते तत्र यदि विकृतेः कर्तृत्वमाश्रित्य सामानाधिकरण्याश्रयः पुंवद्भावो विधीयेत, आत्वमपि स्यात् । अथ प्रकृतेः कर्तृत्वाद्वैयधिकरण्यादात्वं न स्यात्, पुंवद्भावोऽपि न स्यात् उच्यते, दर्शितं तावदिदं यथा च्विविषये द्वयोरपि प्रकृतिविकृत्योः कर्तृत्वमिति । युक्तं चैतत्, यदि विकृतेः कर्तृत्वमाश्रित्य प्रत्ययः । यदा चैकोऽर्थः प्रकृतिविकारात्मक आश्रीयते, तदा परिणामव्यवहारः । उक्तं च - जहद्धर्मान्तरं पूर्वमुपाद्ते यदा परम् । तत्वादप्रच्युतो धमी परिणाम सः उच्यते ॥ इति । यदा त्वन्यतरव्यवस्था न विवक्ष्यते, तदा च्वरभावः - तन्तवो भवन्ति, पटो भवतीति, तज्ञ योऽयं पूर्वकं धर्मं जहदुतरं चोपाददत्सम्मृच्छितोऽर्थः सञ्जायमानः सम्पद्यकर्तेति चोच्यते, तदभेदाच्च पूर्वोतरावस्थयोरपि कर्तृत्वम्, अत एतदपि निरस्तम्। असत्या उतरावस्थाया उत्पतौ शशविषाणमप्युत्पद्येत, सत्याश्च पूर्ववस्थाया उत्पतौ सर्व एव पटादयः सर्वदोत्पद्यमाना एव भवेयुरिति । कथं निरस्तम् किं सदुत्पद्यतं, किञ्चासत् पूर्वोतरयोरवस्थयोरनुवर्तमानं वस्तु तस्मान्न भिन्नेन नाप्यभिन्नेन केनचिद्रूपेणोत्पद्यते, यथा - मृद्वस्तु धटरुपेण । यद्येवम्, पूर्ववस्थया किमपराद्धम्, यत्सैव नोत्पद्यते न किञ्चिदपराद्धम्, असती तु सा कथं कर्त्रो स्यात् । विनष्टायां हि तस्यामुतरवस्थोत्पद्यते, यथा घटः पिण्डावस्थायाम् । अतो दृद्वग्त्वेव तेव तेव पिण्डादिरुपेण परिणमत इति युक्तम् । एवमामूलप्रकृतितः । सा तु प्रकृत्यन्तरनिरपेक्षैव तेन तेन पृथिव्यादिरुपेण परिणमत इति । तदेवं स्थितमेतत् सम्मूर्च्छितोऽर्थात्मा सम्पद्यकर्ता, तदभेदाच्च पूर्वोतरावस्थयोरपि कर्तृत्वमिति । उक्तं च - पूर्वावस्थामभिजहत्संस्पृशन् धर्ममुतरम् । सम्मूर्च्छित इवार्थात्मा एजायमानोऽभिधीयते ॥ इति । तदेवं सति च्व्यर्थे वाक्ये क्वचित्प्रकृतेरेव कर्तृत्वम्, च्व्यन्तस्य गतित्वाद्, गतीनां च क्रियाविशेषणत्वादन्यद्धि भनम्, अन्यद्धि सङ्घीभवनम् तत्र केवले भवने सङ्घः कर्ता, सङ्घीभवने तु ब्राह्मणः । यथा - व्याकरणस्य सूत्रं करोतीति सत्रं तद्विशेषणम्, व्याकरणं सत्रयतीत्यत्र विशिष्टकरोतेर्व्याकरणं कर्म तद्वदत्रापि । तत्र मद्दद्भतश्चन्द्रमा इति च्व्यन्तोऽयं महच्छब्दौ भूतशब्दस्य प्रवृत्तिनिमिते भवने पर्यवस्यति । भूतशब्दस्तु महत्वेनासंस्पृष्टश्चन्द्रमाः स्वरुपे वर्तत इति वैयधिकरण्यादात्वाभावः । महद्भूता ब्राह्मणीत्यत्र तु मृगक्षीरादिवत्स्त्रीपूर्वपदस्याविवक्षितत्वात्सिद्धम् । यत्र तु स्त्रीत्वं विवक्षितम्, न भवत्येव तत्र पुंवद्भावः - अगौमती गोमती सम्पन्न गोमतीभूता ब्राह्मणीति । वृत्तिकाग्स्तु विकृतेः कर्तृत्वाश्रयेण सामानाधिकरण्य सत्यपि परिहारमाह गीणत्वान्महपर्थस्येति । गोणमुख्ययोहि मुख्ये सम्प्रत्ययो भवति, तद्यथा - गौरनुबन्ध्याऽजोऽग्नीपोमीय इति न वाहीकोऽनुबध्यते, स्वशास्त्रेऽपि स्वरुपम् इत्यत्र रुपग्रहणेन ज्ञापितरुपवदर्थोऽपि तन्त्रमिति मुख्यार्थस्य महच्छभ्दस्चात्र ग्रहणाद् गौणर्थस्यात्वाभावः । च्व्यन्तेषु हि एकस्य वस्तुनः प्रकृतिविकारात्मकतया द्व्यात्मकत्वं गम्यते । पटीभवन्तीति ह्युक्ते प्रागपटः सम्प्रति पटात्मना परिणमत इति प्रतीयते । पटो भवतीत्युक्ते नैवं प्रतीयते, किन्तु पटो रक्तादिरुपेण भवतीत्यपि गम्यते । तत्र केवलविकारावस्थावाचकस्य पठशब्दस्य प्रागवस्थायामनुगतावस्थायां च वृत्तिर्न लक्षणामन्तरेणोपपद्यते । अपर आह महत्वेन परिणामोन्मुखेऽमहति महच्छब्दस्य वृत्तिः । अत्र च प्रमाणम् - पटो भवतीति वाक्ये रक्तादिरुपेण भवतीत्यपि गम्यते, पटीभवतीत्यत्रापटः पटो भवतीत्येव गम्यते । एवमर्थे प्रवृत्तिरुपचारमन्तरेण नोपपद्यते इति गौणार्थत्वादात्वाभाव थैति मन्तव्यम् । यदि तर्हि पुंवद्भावस्तु विशेषमनुपादाय विधीयमानो गौणार्थस्यापि भवति, शब्दविशेषोपादाने हि गौणमुख्यन्यायः एवं तु गोमतीभूतत्यत्र तु पुंवद्भावनिवृतये यतितव्यम् । यदि तहि शास्तत्रेषु मुख्यार्थस्य ग्रहथण्, कथं तर्हि वाहीक् वृद्ध्यात्वे भवतः - गौर्वाहीकः, गां वाहीकमिति उच्यते पदस्य पदान्तरसम्बन्धे सति गौणार्थत्वाभिव्यक्तिः विभक्त्यन्तं च पदान्तरेण सम्बध्यते, ततश्च पदस्य पदान्तरसम्बन्धे सति यत्कार्थं प्राप्तं सत्रैवसौ न्यायः , न प्रतिपदिककार्येष्वति मुख्य एव स्वार्थे सास्नादिमति वृद्ध्यात्वे अनुभूय गोशब्दो वाहीके वर्तिष्यते । इह तु महच्छब्दस्योतरपदे परतो विधीयमानमात्वं तस्यामवस्थायां मुख्यार्थस्यैव भवितुमर्हति । अनेनैव न्यायेन च तस्य गौशब्दस्य गौऽभवदित्यत्र ओत् इति प्रगृह्यसंज्ञा न भवति, अग्निसोमौ माणवकारवित्यत्र अग्नेः स्तुत्स्तोमसोमाः इति षत्वं न भवति, ईदग्नेः थैतीत्वं च । महदात्व इत्यादि । समुच्चये चशब्दः, नान्वाचये । तेव यत्रैव पुंवद्भावस्तत्रैवात्वम् । अष्टाकपालमिति । अष्टसु कपालेषु संस्कृतमिति तद्धितार्थे समासः, संस्कृतं भक्षाः इत्यण्, तस्य द्विगोः इति लुक् । अष्टकपालमिति । समाहारे द्विगुः । पात्रादित्वात् स्त्रीत्वाभावः । अष्टागवेनेति । अष्टौ गावो युक्ता अस्मिन्निति त्रिपदो बहुव्रीहिः, पूर्वयोर्द्वयोरुतरपदे द्विगौ गोरतद्धितलुकि इति टच्समासान्तः । तत्र दीर्घत्वेन युक्तार्थसम्प्रत्ययाद्यौक्तशब्दस्य निवृत्तिः । समाहारद्विगोर्वा साहचर्यादभेदौपचाराद्यौक्तार्थे वृत्तिः । कषकरणं विस्पष्टार्थमिति । न भिन्नकालानां निवृत्यर्थम्, अनण्त्वात्, नापि गुणभिन्नानां तत्कालानां ग्रहणमभदकत्वाद् गुणानाम् । आनङ्प्रकरण एवास्मिन्वक्तव्येऽत्र आत् इति वचनं योगविभागार्थम् । तेनाष्टाकपालदावात्त्वसिद्धिः । एवं चैकादशेऽन्यत्राप्यात्वं भवति, तथा च प्रागेकादशभ्योऽच्छन्दसि इति प्रयोगः ॥