5-4-15 अण् इनुणः प्रत्ययः परः च आद्युदात्तः च तद्धिताः
index: 5.4.15 sutra: अणिनुणः
इनुणः अण्
index: 5.4.15 sutra: अणिनुणः
'इनुण्' प्रत्ययान्तशब्दात् स्वार्थे अण्-प्रत्ययः विधीयते ।
index: 5.4.15 sutra: अणिनुणः
अभिविधौ भाव इनुण् 3.3.44 विहितः, तदन्तात् स्वार्थे अण् प्रत्ययो भवति। सांराविणं वर्तते। सांकूटिनम्।
index: 5.4.15 sutra: अणिनुणः
इनण्यनपत्ये <{SK1245}> । सांराविणं वर्तते ॥
index: 5.4.15 sutra: अणिनुणः
'इनुण्' इति कश्चन कृत्-प्रत्ययः । अभिविधौ भाव इनुण् 3.3.44 इत्यनेन अभिविधौ (= सर्वतः व्याप्तिः, inclusion from all directions) गम्यमाने धातोः भावे 'इनुण्' इति प्रत्ययः विधीयते । अस्मिन् प्रत्यये परे नित्यम् स्वार्थे 'अण्' इति प्रत्ययः भवति ।
यथा -
= सम् + कूट् + इनुण् + अण् [ अभिविधौ भाव इनुण् 3.3.44 इति इनुण् । वर्तमानसूत्रेण स्वार्थे अण्]
→ सम् + कूट् + इन् + अ [इत्संज्ञालोपः । नकारोत्तरः अकारः उच्चारणार्थः, तस्यापि लोपः भवति]
→ सम्कूटिन् + अ
→ साम्कूटिन् + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ साम्कूटिन [नस्तद्धिते 6.4.144 इत्यनेन टिलोपे प्राप्ते इनण्यनपत्ये 6.4.164 इति प्रकृतिभावः]
→ सांकूटिन [मोऽनुस्वारः 8.3.23 इति अनुस्वारः]
→ सांकूटिन, साङ्कूटिन [वा पदान्तस्य 8.4.59 इति वैकल्पिकः परसवर्णः]
सर्वतः सङ्कूटनम् तत् सांकूटिनम् साङ्कूटिनम् वा । The act of burning from all sides इत्याशयः ।
= सम् + रु + इनुण् + अण् [ अभिविधौ भाव इनुण् 3.3.44 इति इनुण् । वर्तमानसूत्रेण स्वार्थे अण्]
→ सम् + रौ + इन् + अ [अचो ञ्णिति 7.2.115 इति वृद्धिः]
→ सम् + राविन् + अ [एचोऽयवायावः 6.1.78 इति आवादेशः]
→ साम् + राविन् + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ साम्राविन [नस्तद्धिते 6.4.144 इत्यनेन टिलोपे प्राप्ते इनण्यनपत्ये 6.4.164 इति प्रकृतिभावः]
→ सांराविन [मोऽनुस्वारः 8.3.23 इति अनुस्वारः]
→ सांराविण [अट्कुप्वाङ्नुमव्यवायेऽपि 8.4.2 इति णत्वम्]
सर्वतः रणवम् तत् सांराविणम् । The act of yelling from all sides इत्याशयः ।
ज्ञातव्यम् - यद्यपि इदम् सूत्रम् समर्थानाम् प्रथमात् वा 4.1.82 इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथाप्यत्र विकल्पः न विधीयते । भाष्ये अस्मिन् सन्दर्भे उच्यते - 'आमादयः प्राङ्मयटः नित्याः' । इत्युक्ते, किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे 5.4.11 इत्यस्मात् आरभ्य एकस्य सकृच्च 5.4.19 इतिपर्यन्तम् विहिताः सर्वे प्रत्ययाः नित्याः एव भवन्ति । अतः वर्तमानसूत्रस्य सन्दर्भे अपि अण्-प्रत्ययान्तरूपाणि एव प्रयोक्तव्यानि । केवम् 'इनुण्' प्रत्ययं प्रयुज्य रूपनिर्माणम् न भवति ।
index: 5.4.15 sutra: अणिनुणः
संराविणमिति। रु शब्दे,ऽ'कूट दाहे' दीर्धोपधः,'मृजूष् शुद्धौ' - एतेब्यः संपूर्वेब्य इनुण्, पूर्ववत्सगतेरण्, ठिनण्यनपत्येऽ इति प्रकृति भावः, एकानुबन्धकपरिभाषया घिनुणोऽत्र ग्रहणाभावः ॥