अभिविधौ भाव इनुण्

3-3-44 अभिविधौ भावे इनुण् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अभिविधिरभिव्याप्तिः, क्रियागुणाभ्यां कार्त्स्न्येन संबन्धः। अभिविधौ गम्यमाने धातोर्भाव इनुण् भवति। सांकूटिनम्। सांराविणम्। सान्द्राविणं वर्तते। अभिविधाविति किम्? संकोटः। संरावः। संद्रावः। भाव इति वर्तमाने पुनर्भावग्रहणं वासरूपनिरासार्थम्, तेन घञ् न भवति। ल्युटा तु समावेश इष्यते। संकूटनं वर्तते। तत् कथम्? <<कृत्यल्युटो बहुलम्>> ३.३.११३ इति॥

Siddhanta Kaumudi

Up

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

क्रियागुणाभ्यामिति । अभिविधिस्वरूपकथनमेतत्, इह तु धातोः प्रत्ययविधानात्क्रियाविषय एवाभिविधिर्गृह्यते । सांकूटिनमिति ।'कूट दाहे' दीर्घोपधादिनुण्, ठणिनुणःऽ इतीनुणन्तात्स्वाथिकोऽण् प्रत्ययः, स च पूर्ववत्सगतिकारकाद्भवति, ठिनण्यनपत्येऽ इति प्रकृतिभावात्'नस्तद्धिते' इति टिलोपाभावः । समन्ताद्दाह इत्यर्थः संशब्दोऽभिविधिद्योतकः । सांराविणमिति । ठुपसर्गे रुवःऽ इति घञ् उपसर्गान्तरेऽनभिवैधौ चरितार्थः । संराव इति । अत्र संशब्दः पूजायाम् । क्वचित्सन्द्राव इति प्रत्युदाहणं पठ।ल्ते, तदयुक्तम्;'समियुद्रुदुवः' इत्यस्यानवकाशात् । ननु च'भावे कारके' इति द्वयेऽपि प्रकृते शब्दस्वाभाव्यात्पूर्ववत्कारके न भविष्यति, तत् कि भावग्रहणेन ? तत्राह - भाव इति वर्तमान इति । तेन घञ्,'नपुंसके भावे क्तः' इति क्तश्च न भवति । ल्युटा त्वित्यादि । गतार्थम् । स्वभावतश्चेदमिनुणन्तं नपुंसकलिङ्गम् ॥