5-4-16 विसारिणः मत्स्ये प्रत्ययः परः च आद्युदात्तः च तद्धिताः अण् इनुणः
मत्स्ये विसारिणः अण्
'विसारिन्' शब्दात् मत्स्यस्य निर्देशे कर्तव्ये स्वार्थे अण् प्रत्ययः भवति ।
विसरतीति विसारी। विसारिन्शब्दात् स्वार्थेऽण् प्रत्ययो भवति मत्स्येऽभिधेये। वैसारिणो मत्स्यः। मत्स्य इति किम्? विसारी देवदत्तः॥
अण् स्यात् । वैसारिणः । मत्स्ये इति किम् । विसारी देवदत्तः ॥
'मत्स्य (fish) इत्यस्य निर्देशार्थम् 'वि + सृ' धातोः णिनिँ प्रत्ययः यदा भवति, तदा तस्मात् स्वार्थे अण् प्रत्ययः अपि नित्यम् विधीयते - इति अस्य सूत्रस्य आशयः । यथा - विसरति (इतरत्र गच्छति, moves in different direction) मत्स्यः सः = वि + सृ + णिनि + अण् [<<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> 3.1.134 इति णिनि-प्रत्ययः । ततः स्वार्थे अण्] → वि + सृ + इन् + अ [इत्संज्ञालोपः] → वि + सारिन् + अ [<<अचो ञ्णिति>> 7.2.115 इति वृद्धिः] → वैसारिन् + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → वैसारिन [<<नस्तद्धिते>> 6.4.144 इति टिलोपे प्राप्ते <<इनण्यनपत्ये>> 6.4.164 इति प्रकृतिभावः] → वैसारिण [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इति णत्वम्] विसरति सः वैसारिणः मत्स्यः । स्मर्तव्यम् - केवलम् मत्स्यस्य निर्देशार्थम् एव अत्र अण्-प्रत्ययः विधीयते । अन्येषु विषयेषु तु केवलम् 'णिनि' प्रत्ययान्तरूपमेव प्रयुज्यते । यथा - विसारतिः सः विसारी मण्डूकः सर्पः वा । (विसारिन् इति प्रातिपदिकम् । अस्य पुंलिङ्गस्य प्रथमैकवचनम् 'विसारी' इति ।) ज्ञातव्यम् - यद्यपि इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> 4.1.82 इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथाप्यत्र विकल्पः न विधीयते । भाष्ये अस्मिन् सन्दर्भे उच्यते - 'आमादयः प्राङ्मयटः नित्याः' । इत्युक्ते, <<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> 5.4.11 इत्यस्मात् आरभ्य <<एकस्य सकृच्च>> 5.4.19 इतिपर्यन्तम् विहिताः सर्वे प्रत्ययाः नित्याः एव भवन्ति । अतः वर्तमानसूत्रस्य सन्दर्भे अपि मत्स्यस्य निर्देशे कर्तव्ये 'वैसारिण' इति अण्-प्रत्ययान्तरूपम् एव प्रयोक्तव्यम् ।
<<विसारिणो मत्स्ये>> - विसारिणो मत्स्ये । 'अणिनुणः' इति पूर्वसूत्रादण्णित्यनुवर्तते । तदाह — अण् स्यादिति । मत्स्ये विद्यमानाद्विसारिन्शब्दात्स्वार्थे अण् स्यादित्यर्थः । वैसारिण इति । इनण्यनपत्ये॑ इति प्रकृकतिभावाट्टिलोपो न ।
विसारीति। पूर्ववण्णिनिः। वैसारिण इति। पूर्ववत्प्रकृतिभावः ॥