5-3-24 इदमः थमुः प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः प्रकारवचने
प्रकारवचने इदमः थमुः
'इदम्' सर्वनामशब्दात् प्रकारवचने अभिधेये स्वार्थे थमु-प्रत्ययः विधीयते ।
इदंशब्दात् प्रकारवचने थमुः प्रत्ययो भवति। थालोऽपवादः। अनेन प्रकारेण इत्थम्। उकारो मकारपरित्राणार्थः॥
थालोऽपवादः ।<!एतदोऽपि वाच्यः !> (वार्तिकम्) ॥ अनेन एतेन वा प्रकरेण इत्थम् ॥
थालोऽपवादः। <<एतदोऽपि वाच्यः>> (वार्त्तिकम्)। अनेन एतेन वा प्रकारेण इत्थम्॥
'इदम्' इति सर्वनामसंज्ञकः शब्दः । अस्मात् शब्दात् 'प्रकारवचने' वाच्ये <<प्रकारवचने थाल्>> 5.3.23 इत्यनेन स्वार्थे थाल्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण 'थमु' इति प्रत्ययः उच्यते । अस्मिन् प्रत्यये उकारः उच्चारणार्थः अस्ति, अतः प्रक्रियायाम् तस्य लोपः विधीयते ; प्रयोगे 'थम्' इत्येव दृश्यते । प्रक्रिया इयम् - अनेन प्रकारेण इत्येव = अनेन + थमु [विवक्षया अत्र तृतीयान्तात् प्रत्ययः भवति ।] → अनेन + थम् [उकारस्य लोपः] → इदम् + थम् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लुक्] → इत् + थम् [<<एतेतौ रथोः>> 5.3.4 इति इदम्-शब्दस्य थकारादौ प्रत्यये परे इत् -आदेशः] → इद् + थम् [थम्-प्रत्यये परे अङ्गस्य <<स्वादिष्वसर्वनामस्थाने>> 1.4.17 इति पदसंज्ञा । पदसंज्ञायां सत्याम् <<झलां जशोऽन्ते>> 8.2.39 इति जश्त्वे तकारस्य दकारः] → इत् + थम् [<<खरि च>> 8.4.55 इति चर्त्वे तकारः] → इत्थम् । एतादृशम् 'अनेन प्रकारेण' इत्यस्मिन् अर्थे 'इत्थम्' इति शब्दः सिद्ध्यति । <<तद्धितश्चासर्वविभक्तिः>> 1.1.38 इत्यनेन अस्य अव्ययसंज्ञा अपि जायते । अत्र एकम् वार्त्तिकम् ज्ञेयम् - <! थमुप्रत्ययः पुनरेतद उपसङ्ख्येयः!> । इत्युक्ते, वर्तमानसूत्रेण पाठितः थमु-प्रत्ययः 'एतद्' शब्दात् अपि विधीयते । यथा - एतेन प्रकारेण इत्येव = एतद् + थम् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लुक्] → इत् + थम् [<<एतदोऽन्>> 5.3.5 इत्यस्य योगविभागेन एतद्-शब्दात् थकारादौ प्रत्यये परे तस्य इत्-आदेशः] → इद् + थम् [थम्-प्रत्यये परे अङ्गस्य <<स्वादिष्वसर्वनामस्थाने>> 1.4.17 इति पदसंज्ञा । पदसंज्ञायां सत्याम् <<झलां जशोऽन्ते>> 8.2.39 इति जश्त्वे तकारस्य दकारः] → इत् + थम् [<<खरि च>> 8.4.55 इति चर्त्वे तकारः] → इत्थम् । विशेषः - अस्मिन् सूत्रे 'थमु' इति प्रत्यये मकारोत्तरः उकारः उच्चारणार्थः अस्ति । यद्यप्यत्र उकारः न पाठ्यते, तथापि 'थम्' इति स्थिते मकारस्य <<हलन्त्यम्>> 1.3.3 इत्यनेन इत्संज्ञा नैव भवितुमर्हति, यतः विभक्तिप्रत्ययस्य अन्ते विद्यमानस्य मकारस्य इत्संज्ञा <<न विभक्तौ तुस्माः>> 1.3.4 इत्यनेन निषिध्यते । अतः वस्तुतः अस्मिन् सूत्रे मकारोत्तरस्य अकारस्य न किमपि प्रयोजनम् ; केवलम् 'थम्' इत्येव उच्येत चेदपि साधु एव । एवं सत्यपि आचार्यः अत्र मकारात् अनन्तरमुकारं स्थापयति । अयमुकारः अस्य ज्ञापकम् , यत् <<न विभक्तौ तुस्माः>> 1.3.4 इत्यनेन निर्दिष्टः इत्संज्ञानिषेधः अनित्यः अस्ति - इत्युक्ते, केषुचन स्थलेषु अयम् न विधीयते । एतत् अनित्यत्वम् एव कारणम् यत् <<किमोऽत्>> 5.3.12 इत्यत्र पाठिते 'अत्' प्रत्यये तकारस्य इत्संज्ञानिषेधः न भवति ।
<<इदमस्थमुः>> - इदमस्थमुः । इदंशब्दात्प्रकारवृत्तेस्थमुप्रत्ययः स्यादित्यर्थः । प्रत्यये उकार उच्चारणार्थः । मकारस्य उपदेशेऽन्त्यत्वाऽभावान्नेत्त्वम् । यद्यपि 'न विभक्तौ' इति निषेधादेव मस्येत्त्वं न भवति, ततापि तदनित्यत्वज्ञापनार्थं मकारोच्चारणमित्याहुः । इत्थमिति ।एतेतौ रथो॑रिति प्रकृतेरिदम इदादेशः । एतच्छब्दात्थमुप्रत्यये तु 'एतद' इति योगविभागादिदादेशः ।