5-3-23 प्रकारवचने थाल् प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः
index: 5.3.23 sutra: प्रकारवचने थाल्
किंसर्वनामबहुभ्योऽद्व्यादिभ्यः प्रकारवचने थाल्
index: 5.3.23 sutra: प्रकारवचने थाल्
सर्वादिगणे विद्यमानेभ्यः 'सर्व' इत्यस्मात् आरभ्य 'एक' इति यावत् शब्देभ्यः, 'बहु' शब्दात् तथा च 'किम्' शब्दात् प्रकारवचनस्य निर्देशार्थम् स्वार्थे 'थाल्' प्रत्ययः भवति ।
index: 5.3.23 sutra: प्रकारवचने थाल्
किंसर्वनामबहुभ्योऽद्व्यादिभ्यः 5.3.2 इति वर्तते। सप्तम्याः इति काले इति च निवृत्तम्। सामान्यस्य भेदकः विशेषः प्रकारः। प्रकृत्यर्थविशेषणं च एतत्। प्रकारवृत्तिभ्यः किंसर्वनामबहुभ्यः स्वार्थे थाल् प्रत्ययो भवति। तेन प्रकारेण तथा। यथा। सर्वथा। जातीयरोऽपीदृशम् एव लक्षणम्। स तु स्वभावात् प्रकारवति वर्तते, थाल् पुनः प्रकारमात्रे।
index: 5.3.23 sutra: प्रकारवचने थाल्
प्रकारवृत्तिभ्यः किमादिभ्यस्थाल् स्यात्स्वार्थे । तेन प्रकारेण तथा । यथा ॥
index: 5.3.23 sutra: प्रकारवचने थाल्
प्रकारवृत्तिभ्यः किमादिभ्यस्थाल् स्यात् स्वार्थे। तेन प्रकारेण तथा। यथा॥
index: 5.3.23 sutra: प्रकारवचने थाल्
अनेन सूत्रेण 'थाल्' इति विभक्तिसंज्ञकः प्रत्ययः पाठ्यते । अस्मिन् प्रत्यये लकारः इत्संज्ञकः अस्ति, अतः 'था' इत्येव प्रयोगे दृश्यते ।
किंसर्वनामबहुभ्योऽद्व्यादिभ्यः 5.3.2] इत्यनेन भिन्नेभ्यः शब्देभ्यः विभक्तिसंज्ञकाः तद्धितप्रत्ययाः उच्यन्ते । वर्तमानसूत्रेण उक्तः 'थाल्' प्रत्ययः अपि विभक्तिसंज्ञकः एव अस्ति, अतः अयम् प्रत्ययः अपि एतेभ्यः सर्वेभ्यः शब्देभ्यः विधीयते । अयम् प्रत्ययः वर्तमानसूत्रेण 'प्रकारेण' अस्मिन् सन्दर्भे स्वार्थे उक्तः अस्ति । एकमुदाहरणम् पश्यामः -
येन प्रकारेण इत्येव
येन + थाल् [वर्तमानसूत्रेण थाल् इति प्रत्ययः । विवक्षया अत्र तृतीयान्तात् प्रत्ययः भवति ।]
→ यद् + था [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सप्तमीप्रत्ययस्य लुक्]
→ य + था [त्यदादीनामः 7.2.102 इति दकारस्य अकारादेशः । अतो गुणे 6.1.97 इति पररूपम् ।]
→ यथा
एवमेव 'तथा', सर्वथा', 'अन्यथा', 'उभयथा' - एते शब्दाः सिद्ध्यन्ति । तद्धितश्चासर्वविभक्तिः 1.1.38 इत्यनेन एतेषाम् सर्वेषाम् अव्ययसंज्ञा अपि विधीयते ।
ज्ञातव्यम् -
अस्मिन् सूत्रे प्रयुक्तः 'प्रकारवचने' इति शब्दः प्रत्ययार्थम् न बोधयति, अपि तु प्रकृतेः विशेष्यम् ज्ञापयति । इत्युक्ते, 'प्रकारेण' इति 'केन' इत्यस्य विशेष्यम् । प्रत्ययः अपि 'केन प्रकारेण' इत्यस्मिन्नेव अर्थे (= स्वार्थे) भवति ।
'किम्' तथा 'इदम्' शब्दाभ्याम् वर्तमानसूत्रेण 'थाल्' प्रत्यये प्राप्ते तं बाधित्वा इदमस्थमुः 5.3.24 तथा किमश्च 5.3.25 इत्यनेन 'थमु' इति प्रत्ययः विधीयते, येन 'इत्थम्' तथा 'कथम्' एतौ शब्दौ सिद्ध्यतः ।
index: 5.3.23 sutra: प्रकारवचने थाल्
प्रकारवचने थाल् - प्रकारवचने थाल् । पञ्चम्यर्थे सप्तमीत्याह — प्रकारवृत्तिभ्य इति । सामान्यस्य भेदको विशेषः प्रकारः । यथाबहुभिः प्रकारैर्भुङ्क्ते॑ इति । विशेषैरिति गम्यते । सादृश्यं त्विह न गृह्रते, सर्वथेत्यादौ तदप्रतीतेः । तेन प्रकारेणेत्यनन्तरं 'विशिष्ट' इति शेषः । 'यथा हरिस्तथा हरः' इत्यादौ यत्प्रकारवान्हरिस्तत्प्रकारवान्हर इति बोधे सति हरिसदृशो हर इति फलति । तदभिप्रायेण यथाशब्दस्य सादृश्यार्थकत्वोक्तिः ।
index: 5.3.23 sutra: प्रकारवचने थाल्
सामान्यस्य भेदको विशेषः प्रकार इति। यथा ब्राह्मणसामान्यस्य माठरादयः। अनेनैतद्दर्शयति - यद्यपि सादृश्यमपि प्रकारः, यथा'प्रकारे गुणवचनस्य' इत्यत्र वक्ष्यति -'प्रकारो भेदः सादृश्यं च, तदिह सादृस्यं प्रकारो गृह्यए' इति; तथापि नेह सादृस्यं गृह्यते, अनभिधानादिति। तेन प्रकारेण तथेति। प्रथमान्तातु न भवति - स प्रकारस्तथेति; अनभिधानादेवेति भावः। किंसर्वनामबहुभ्यो विशे,विहिंतेन थाला सामान्यविहितस्य जातीयरो बाधप्रसङ्ग इत्याशङ्क्याऽऽह - जातीयरोऽपीति। सत्यं जातीयरोऽपीदृशमेव लक्ष्णं'प्रकारवचने जीतीयर्' इति, कथं तर्ह्यबाध? अत आह - स त्विति। अर्थभेदाद् भेद इत्यर्थः। एवं च कृत्वा प्रकारमात्रे थालं विधाय तदन्तात्प्रकारवति जातीयरं प्रयुञ्जते - तथाजातीयः, यथाजातीय इति ॥