5-3-25 किमः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः प्रकारवचने थमुः
किमः प्रकारवचने थमुः
'किम्' सर्वनामशब्दात् प्रकारवचने अभिधेये स्वार्थे थमु-प्रत्ययः विधीयते ।
किंशब्दात् प्रकारवचने थमुः प्रत्ययो भवति। केन प्रकारेण कथम्। योगविभाग उत्तरार्थः॥
केन प्रकारेण कथम् ॥
केन प्रकारेण कथम् ॥ इति प्राग्दिशीयाः ॥ १४ ॥
'किम्' इति सर्वनामसंज्ञकः शब्दः । अस्मात् शब्दात् 'प्रकारवचने' वाच्ये <<प्रकारवचने थाल्>> 5.3.23 इत्यनेन स्वार्थे थाल्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण 'थमु' इति प्रत्ययः उच्यते । अस्मिन् प्रत्यये उकारः उच्चारणार्थः अस्ति, अतः प्रक्रियायाम् तस्य लोपः विधीयते ; प्रयोगे 'थम्' इत्येव दृश्यते । प्रक्रिया इयम् - केन प्रकारेण इत्येव = केन + थमु [विवक्षया अत्र तृतीयान्तात् प्रत्ययः भवति ।] → केन + थम् [उकारस्य लोपः] → किम् + थम् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लुक्] → क + थम् [<<किमः कः>> 7.2.103 इति किम्-शब्दस्य 'क' आदेशः ।] → कथम् एतादृशं 'केन प्रकारेण' इत्यस्मिन् अर्थे 'कथम्' इति शब्दः सिद्ध्यति । <<तद्धितश्चासर्वविभक्तिः>> 1.1.38 इत्यनेन अस्य अव्ययसंज्ञा अपि जायते ।
<<किमश्च>> - किमश्च ।प्रकारवृत्तेस्थमु॑रिति शेषः । कथमिति । 'किमः कः' इति कादेशः । * इति बालमनोरमायाम् प्राग्दिशीयानां विभक्तिसंज्ञकानां पूर्णोऽवधिः । *अथ प्रागिवीयाः । — — — — -
योगविभागा उतरत्र किम एवानुवृत्तिर्यथा स्यादिदमो मा भूदिति॥