8-3-50 कःकरत्करतिकृधिकृतेषु अनदितेः पदस्य पूर्वत्र असिद्धम् संहितायाम् कुप्वोः सः समासे छन्दसि
कः करत् करति कृधि कृत इत्येतेषु परतोऽनदितेर्विसर्जनीयस्य सकारादेशो भवति छन्दसि विषये। कः — विश्वतस्कः। करत् — विश्वतस्करत्। करति — पयस्करति। कृधि — उ॒रु ण॑स्कृधि (ऋ० ८.७५.११)। कृत — सदस्कृतम्। अनदितेरिति किम्? यथा॑ नो॒ अदि॑तिः॒ कर॒त् (ऋ० १.४३.२)॥
विसर्गस्य सः स्यात् । प्रदिवो अपस्कः (प्र॒दिवो॒ अप॒स्कः) । यथा नो वस्यसस्करत् (यथा॑ नो॒ वस्य॑स॒स्कर॑त्) । सुपेशसस्करति (सु॒पेश॑सस्करति॒) । उरुणस्कृधि (उ॒रुण॑स्कृधि) । सोमं न चारु मघवत्सु नस्कृतम् (सोमं॒ न चारुं॑ म॒घव॑त्सु नस्कृतम्) । अनदितेरिति किम् । यथा नो अदितिः करत् (यथा॑ नो॒ अदि॑तिः॒ कर॑त्) ॥
करिति । कृञो लुङ्,'मन्त्रे घस' इत्यादिना च्लेर्लुक्, तिपो हलङ्यादिलोपः,'बहुलं च्छन्दस्यमाङ्योगे' पिऽ इत्यडभावः । करदिति । कृञ एव लुङ्,'कृमृदृहिभ्यश्च्छन्दसि' इति च्लेरङ् । करतीति । लट्, व्यत्ययेन शप् । कृधीति । कृञो लोट्, सेर्हिः,'बहुलं च्छन्दसि' इति शपो लुक्,'श्रुशृणुपृकृवृभ्यश्च्छन्दसि' इति हेर्धिरादेशः । कृतमिति । कृञ एव क्तः । सकार आदेश इति । षत्वस्याप्युपलक्षणमेतत् । विश्वतस्करिति । अव्यत्वादसमासत्वाच्च ठतः कृकमिऽ इत्यस्याप्रसङ्गः । इतरेषु त्वसमासत्वादप्रसङ्गः । शन्न करत्, यथा नः श्रेयसः करदित्यादौ छान्दसत्वात्सत्वाभावः । तथा कृधीत्यत्र सकार-घकार-कशब्देषु परतस्तैतिरीयके सत्वं न भवति - तन्म आमनसः कृधि स्वाहा, उरुक्षयाय नः कृधि घृतमन्यासै, शं च नः कृधि क्रत्वे ॥