5-1-29 विभाषा कार्षापणसहस्राभ्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः ठञ् ठक् अध्यर्धपूर्वद्विगोः लुक्
index: 5.1.29 sutra: विभाषा कार्षापणसहस्राभ्याम्
आ-अर्हात् कार्षापण-सहस्राभ्यामध्यर्धपूर्व-द्विगोः विभाषा लुक्
index: 5.1.29 sutra: विभाषा कार्षापणसहस्राभ्याम्
सर्वेषु आर्हीय-अर्थेषु तद्धितार्थे जायमानात् अध्यर्धपूर्वपदसमासात् द्विगुसमासात् च परस्य तद्धितप्रत्ययस्य 'कार्षापण'शब्दस्य विषये 'सहस्र'शब्दस्य विषये च विकल्पेन लुक् भवति ।
index: 5.1.29 sutra: विभाषा कार्षापणसहस्राभ्याम्
अध्यर्धपूर्वाद् द्विगोश्च कार्षापणसहस्रान्तातुत्तरस्य आर्हीयप्रत्ययस्य विभाषा लुग् भवति। पूर्वेण लुकि नित्य प्राप्ते विकल्प्यते। अध्यर्धकार्षापणम्, अध्यर्धकार्शापणिकम्। द्विकार्षापणम्, द्विकार्षापणिकम्। औपसङ्ख्यानिकस्य टिठनो लुक्। अलुक्पक्षे च प्रतिरादेशो विकल्पितः। अध्यर्धप्रतिकम्। द्विप्रतिकम्। त्रिप्रतिकम्। सहस्रात् अध्यर्धसहस्रम्, अध्यर्धसाहस्रम्। द्विसहस्रम्, द्विसाहस्रम्। अलुक्पक्षे सङ्ख्यायाः संवत्सरसङ्ख्यस्य च इत्युत्तरपदवृद्धिः। सौवर्णशतमानयोरुपसङ्ख्यानम्। अध्यर्धसुवर्णम्, अध्यर्धसौवर्णिकम्। द्विसुवर्णम्, द्विसौवर्णिकम्। अध्यर्धशतमानम्, अध्यर्धशातमानम्। द्विशतमानम्, द्विशातमानम्। परिमाणान्तस्य इत्युत्तरपदवृद्धिः।
index: 5.1.29 sutra: विभाषा कार्षापणसहस्राभ्याम्
लुग्वा स्यात् । अध्यर्धकार्षाणम् । अध्यर्धकार्षापणिकम् । द्विकार्षापणम् । औपसंख्यानिकस्यटिठनो लुक् । पक्षेऽध्यर्धप्रतिकम् । द्विप्रतिकम् । अध्यर्धसहस्रम् । अध्यर्धसाहस्रम् । द्विसहस्रम् । द्विसाहस्रम् ॥
index: 5.1.29 sutra: विभाषा कार्षापणसहस्राभ्याम्
तद्धितार्थे जायमानस्य अध्यर्धपूर्वसमासस्य द्विगुसमासस्य च विषये विहितस्य तद्धितप्रत्ययस्य अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5.1.28 इत्यनेन नित्यं लोपे प्राप्ते, 'कार्षापण'शब्दस्य विषये 'सहस्र'शब्दस्य च विषये सः विकल्प्यते ।
यथा -
अध्यर्धेन कार्षापणेन क्रीतम्
= [लोपे कृते] अध्यर्धकार्षापणम्
= [लोपाभावे ] अध्यर्धकार्षापणिकम् , प्रतिकम् ।
(स्मर्तव्यम् - <! कार्षापणाद्वा प्रतिश्च!> अनेन वार्त्तिकेन टिठन्-प्रत्ययस्य उपस्थितौ कार्षापण-शब्दस्य विकल्पेन प्रति-आदेशः अपि भवति । अतः अत्र 'प्रतिकम्' इति रूपमपि जायते ।)
तथैव - द्वयोः कार्षापणयोः क्रीतम् द्विकार्षापणम् द्विकार्षापणिकम् द्विप्रतिकम् वा ।
अध्यर्धेन सहस्रेण क्रीतमध्यर्धसहस्रमध्यर्धसाहस्रम् वा । अत्र शतमानविंशतिकसहस्रवसनादण् 5.1.27 इत्यनेन सहस्रशब्दात् अण्-प्रत्यये प्राप्ते तस्य पक्षे एव लुक् भवति, न नित्यम् । तथा च, लुकः अभावात् संख्यायाः संवत्सरसंख्यस्य च 7.3.15 इति उत्तरपदवृद्धिः एव भवति ।
तथैव, त्रिभिः सहस्रैः क्रीतम् त्रिसहस्रम् त्रिसाहस्रम् ।
ज्ञातव्यम् - वस्तुतः प्रत्ययविधौ तदन्तविधिः प्रतिषिध्यते । परन्तु असमासे निष्कादिभ्यः 5.1.20 इत्यत्र पाठितेन 'प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि' इत्यनेन वार्त्तिकेन / भाष्यवाक्येन सङ्ख्यापूर्वसमासस्य विषये आर्हीयप्रकरणे तदन्तविधिः अपि इष्यते । अतः अत्र टिठन् / अण् प्रत्यययोः प्रसक्तिः निर्दिष्टा अस्ति । तयोश्च वर्तमानसूत्रेण वैकल्पिकः लुक् उच्यते ।
अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <! सुवर्णशतमानयोरुपसङ्ख्यानम्!> । इत्युक्ते, 'सुवर्ण' तथा 'शतमान' एतयोः विषये अपि अनेन सूत्रेण विकल्पेन प्रत्ययलुक् भवति । यथा -
अध्यर्धेन सुवर्णेन क्रीतमध्यर्धसुवर्णमध्यर्धसौवर्णिकम् वा । अत्र औत्सर्गिकस्य ठञ्-प्रत्ययस्य विकल्पेन लुक् भवति । लुकः अभावपक्षे परिमाणान्तस्यासंज्ञाशाणयोः 7.3.17 इति उत्तरपदवृद्धिः भवति ।
तथैव - द्वयोः सुवर्णयोः क्रीतम् द्विसुवर्णम्, द्विसौवर्णिकम् वा ।
अध्यर्धेन शतमानेन क्रीतमध्यर्धशतमानमध्यर्थशातमानम् वा । अत्र शतमानविंशतिकसहस्रवसनादण् 5.1.27 इत्यनेन प्राप्तस्य अण्-प्रत्ययस्य वैकल्पिकः लुक् भवति । पक्षे परिमाणान्तस्यासंज्ञाशाणयोः 7.3.17 इति उत्तरपदवृद्धिः भवति ।
द्वयोः शतमानयोः क्रीतम् द्विशतमानम् द्विशातमानम् वा ।
index: 5.1.29 sutra: विभाषा कार्षापणसहस्राभ्याम्
विभाषा कार्षापणसहस्राभ्याम् - विभाषा । लुग्वेति ।आर्हीयस्ये॑ति शेषः । औपसंख्यानिकस्येति.॒कार्षापणाट्ठिन् वक्तव्यः॑ इत्युक्तस्येत्यर्थः । अध्यर्धप्रतिकमिति । प्रत्यादेशस्य टिठन्संनियोगशिष्टत्वात्प्रत्यादेशपक्षे टिठनो न लुगिति भावः । अध्यर्धसहरुआमिति ।शतमाने॑ति विहितस्याऽणो लुक् । लुगभावे तुसङ्ख्यायाः संवत्सरसङ्ख्यस्य चे॑त्युत्तरपदवृद्धिः ।
index: 5.1.29 sutra: विभाषा कार्षापणसहस्राभ्याम्
अध्यर्धसहस्रमिति।'शतमानविशतिक' इति विहितस्याणो लक्, अलुक्पक्षे'संख्यायाः संवत्सरसंख्यस्य च' इत्युतरपदवृद्धिः, इदानीमेव ह्युक्तम् - ठध्यर्धशब्दः संख्यैवऽ इति। अध्यर्धसुवर्णमिति। ठञो लुग्, न तु ठकः, आर्हादित्यत्र क्रियानिमितकस्य परिमाणस्य ग्रहणाद्। येषां तु रूढिपरिमाणस्य तत्र ग्रहणम्, तन्मते ठको लुक्। अध्यर्द्धसौवर्णिकमिति। परिमाणान्तस्येत्युतरपदवृद्धिः, तत्र ह्युन्मानस्यापि ग्रहणम्; शाणप्रतिषेधात्। अध्यर्द्धे कार्षापणस्य, द्विगौ सहस्रस्येत्येवमत्र यथासंख्यं नेष्यते॥