5-1-25 कंसात् टिठन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः ठञ् ठक्
आ-अर्हात् कंसात् टिठन्
'कंस'शब्दात् आर्हीय-अर्थेषु टिठन्-प्रत्ययः भवति ।
कंसाट् टिठन् प्रत्ययो भवत्यार्हीयेष्वर्थेषु । ठञोऽपवादः। टकारो ङीबर्थः। इकार उच्चारणार्थः। नकारः स्वरार्थः। कंसिकः। कंसिकी॥ अर्धाच्चेति वक्तव्यम् ॥ अर्धिकः। अर्धिकी॥ कार्षापणाट् टिठन् वक्तव्यः॥ कार्षापणिकः। कार्षापणिकी॥ प्रतिशब्दश्चास्यादेशो वा वक्तव्यः॥ प्रतिकः। प्रतिकी॥
टो ङीबर्थः । इकार उच्चरणार्थः । कंसिकः । कंसिकी ।<!अर्धाच्चेति वक्तव्यम् !> (वार्तिकम्) ॥ अर्धिकः । अर्धिकी ।<!कार्षापणाट्ठिठन्वक्तव्यः !> (वार्तिकम्) ।<!प्रतिरादेशश्च वा !> (वार्तिकम्) ॥ कार्षापणिकः । कार्षापणिकी । प्रतिकः । प्रतिकी ॥
<<प्राग्वतेष्ठञ्>> 5.1.18 अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु परिमाणवाचिभ्यः शब्देभ्यः औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । परन्तु अस्य अपवादरूपेण सर्वेषु आर्हीय-अर्थेषु 'कंस' (1 cup measure इत्यर्थः) अस्मात् शब्दात् टिठन्-प्रत्ययः भवति । यथा - कंसः परिमाणमस्य सः = कंस + टिठन् → कंस + इक [<<ठस्येकः>> 7.3.50 इति इक-आदेशः] → कंस् + इक [<<यस्येति च>> 6.4.148 इति अन्तिमवर्णलोपः] → कंसिक टित्वात् स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्..>> 4.1.15 इति ङीप्-प्रत्ययः भवति - कंसः परिमाणमस्य सा कंसिकी । अत्र कानिचन वार्त्तिकानि ज्ञातव्यानि - 1. <!अर्धात् चेति वक्तव्यम् !> । अर्धशब्दात् अपि सर्वेषु आर्हीय-अर्थेषु ठञ्-प्रत्ययं बाधित्वा टिठन्-प्रत्यय भवति । अर्धेन क्रीतः अर्धिकः, अर्धेन क्रीता अर्धिकी । 2. <!कार्षापणाद्वा प्रतिश्च!> । कार्षापणशब्दात् अपि सर्वेषु आर्हीय-अर्थेषु टिठन्-प्रत्ययः भवति, तस्य च विकल्पेन 'प्रति' आदेशः भवति । ('कार्षापण' इति मुद्रायाः कश्चन भेदः) । यथा - कार्षापणेन क्रीतः काषार्पणिकः , कार्षार्पणेन क्रीता कार्षार्पणिका । पक्षे - कार्षापणेन क्रीतः प्रतिकः, कार्षापणेन क्रीता प्रतिकी ।
कंसशब्दोऽयं कांस्यपात्रवाची परिमाणशब्दो गृह्यते, पूर्वोतरैः परिमाणशब्दैः साहचर्यात्, न लोहविशेषवचनः, नाप्युग्रसेनसुतवचन इति दर्शयति। ठञोऽपवागद इति। इकार उच्चारणार्थ इति। एवं च प्रक्रियालाघवाय टिकनेव वक्तव्यः ? तथा तु न कृतमित्येव। अधिकं इति। अर्धशब्दः कार्षापणस्यार्धे निरूढ इति भागवदपेक्षयार्धेऽसामर्थ्यं नाशङ्कनीयम्। अपर आह - प्रकरणादिवशेन भागवद्विशेषे निश्चिते सति नासामर्थ्यमिति ॥