5-1-36 द्वित्रिपूर्वात् अण् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः ठञ् ठक् यत् शाणात्
index: 5.1.36 sutra: द्वित्रिपूर्वादण् च
आ-अर्हात् शाणात् द्वित्रिपूर्वात् अण् यत् च वा
index: 5.1.36 sutra: द्वित्रिपूर्वादण् च
सर्वेषु आर्हीय-अर्थेषु 'द्वौ शाणौ', 'त्रयः शाणाः' एतयोः विषये 'अण्' तथा 'यत्' प्रत्ययौ विकल्पेन भवतः ।
index: 5.1.36 sutra: द्वित्रिपूर्वादण् च
शाणाद् वा 5.1.35 इत्येव। द्वित्रिपूर्वाच् छाणान्तात् प्रातिपदिकादार्हीयेष्वर्थेषु अण् प्रत्ययो भवति, चकाराद् यच् च वा। तेन त्रैरूप्यं समद्यते। द्वैशाणम्, द्विशाण्यम्, द्विशाणम्। त्रैशाणम्, त्रिशाण्यम्, त्रिशाणम्। परिमाणान्तस्य असंज्ञाशाणयोः 7.3.17 इति पर्युदासादिवृद्धिरेव भवति।
index: 5.1.36 sutra: द्वित्रिपूर्वादण् च
शाणात्इत्येव । चाद्यत् । तेन त्रैरूप्यम् । परिमाणान्तस्यासंज्ञाशाणयोः <{SK1683}> इति पर्युदासादादिवृद्धिरेव । द्वैशाणम् । द्विशाण्यम् । द्वीशाणम् । इह ठञादयस्त्रयोदश प्रत्ययाः प्रकृतास्तेषां समर्थविभक्तयोऽर्थास्चाकाङ्क्षितास्त इदानीमुच्यन्ते ॥
index: 5.1.36 sutra: द्वित्रिपूर्वादण् च
शाण-शब्दस्य पूर्वपदम् 'द्वि' उत 'त्रि' इति जायते चेत् सर्वेषु आर्हीयेषु अर्थेषु शाणाद्वा 5.1.35 इत्यनेन विकल्पेन यत्-प्रत्यये प्राप्ते पक्षे विकल्पेन अण्-प्रत्ययः अपि विधीयते । पक्षे च औत्सर्गिकः ठञ्-प्रत्ययः अपि भवति, यस्य च अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5.1.28 इत्यनेन लुक् जायते ।
द्वौ शाणौ परिमाणमस्य तत् -
1) द्वि + शाण + यत् → द्विशाण्यम् ।
2) द्वि + शाण + अण् → द्वैशाणम् । अत्र परिमाणान्तस्यासंज्ञाशाणयोः 7.3.17 इत्यनेन उत्तरपदवृद्धिः न भवतीति स्मर्तव्यम्, अस्मिन् सूत्रे 'असंज्ञाशाणयोः' इति निषेधात् ।
3) द्वि + शाण + ठञ् → द्विशाणम् । अत्र अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5.1.28 इत्यनेन प्रत्ययलुक् भवति ।
ज्ञातव्यम् - अत्र प्राग्वतीय-प्रकरणस्य आर्हीय-विशिष्टाः अर्थनिरपेक्ष-अपवादाः समाप्यन्ते । अग्रिमसूत्रात् आरभ्य आर्हीयअर्थाः तेषाम् विशिष्टाः अपवादाः च पाठिताः सन्ति ।
index: 5.1.36 sutra: द्वित्रिपूर्वादण् च
वार्तितके दर्शनात्सूत्रेष्वेतत्प्रक्षिप्तम्। त्रैरूप्यं भवतीति। अण्येकम्, यति द्वितीयम्, ठञो लुकि तृतीयम् ॥