शतमानविंशतिकसहस्रवसनादण्

5-1-27 शतमानविंशतिकसहस्रवसनात् अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः ठञ् ठक्

Sampurna sutra

Up

index: 5.1.27 sutra: शतमानविंशतिकसहस्रवसनादण्


आ-अर्हात् शतमान-विंशतिक-सहस्र-वसनात् अण्

Neelesh Sanskrit Brief

Up

index: 5.1.27 sutra: शतमानविंशतिकसहस्रवसनादण्


सर्वेषु आर्हीय-अर्थेषु शतमान, विंशतिक, सहस्र, वसन - एतेभ्यः शब्देभ्यः अण्-प्रत्ययः भवति ।

Kashika

Up

index: 5.1.27 sutra: शतमानविंशतिकसहस्रवसनादण्


शतमानादिभ्यः शब्देभ्यः अण् प्रत्ययो भवति आर्हीयेष्वर्थेषु। ठक्ठञोरपवादः। शतमानेन क्रीतं शातमानं शतम्। वैशतिकम्। साहस्रम्। वासनम्।

Siddhanta Kaumudi

Up

index: 5.1.27 sutra: शतमानविंशतिकसहस्रवसनादण्


एभ्योऽण् स्यात् । ठञ्ठक्कनामपवादः । शतमानेन क्रीतं शातमानम् । वैंशतिकम् । साहस्रम् । वासनम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.27 sutra: शतमानविंशतिकसहस्रवसनादण्


प्राग्वतीय-अधिकारे तेन क्रीतम् 5.1.37 इत्यस्मात् प्रथमात् अर्थात् आरभ्य तदर्हति 5.1.63 इति यावन्तः एकादश-अर्थाः 'आर्हीय-प्रकरणे' समाविश्यन्ते । एतेषु सर्वेषु अर्थेषु 'शतमान', 'विंशतिक', 'सहस्र', 'वसन' - एतेभ्यः शब्देभ्यः अण्-प्रत्ययः भवति । क्रमेण पश्यामः -

  1. शतमान (a weight of 100 units) इति कश्चन परिमाणवाची शब्दः । अस्मात् शब्दात् प्राग्वतेष्ठञ् 5.1.18 इत्यनेन औत्सर्गिकरूपेण ठञ्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण अण्-प्रत्ययः भवति । शतमानेन क्रीतम् शातमानम् ।

  2. 'विंशतिक' अयम् शब्दः कस्यचन परिमाणस्य संज्ञा अस्ति । 'विंशति' शब्दात् विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम् 5.1.24 इत्यस्य योगविभागेन संज्ञायाः विषये कन्-प्रत्ययं कृत्वा 'विंशतिक' इति शब्दः सिद्ध्यति । अस्मात् अग्रे आर्हीय-अर्थेषु औत्सर्गिकं ठञ्-प्रत्ययं बाधित्वा अण्-प्रत्ययः भवति । विंशतिकेन क्रीतम् वैंशतिकम् ।

  3. 'सहस्र' इति सङ्ख्यावाची शब्दः । अस्मात् शब्दात् संख्यायाः अतिशदन्तायाः कन् 5.1.22 इति कन्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण आर्हीय-अर्थेषु अण्-प्रत्ययः भवति । सहस्रेण क्रीतम् साहस्रम् ।

  4. 'वसन' इत्युक्ते वस्त्रम् । 'वसन' शब्दात् सर्वेषु आर्हीय-अर्थेषु आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् 5.1.19 इत्यनेन ठक्-प्रत्यये प्राप्ते तम् बाधित्वा वर्तमानसूत्रेण आर्हीय-अर्थेषु अण्-प्रत्ययः भवति । वसनेन क्रीतम् वासनम् ।

Balamanorama

Up

index: 5.1.27 sutra: शतमानविंशतिकसहस्रवसनादण्


शतमानविंशतिकसहस्रवसनादण् - शतमान । शातमानमिति । अत्र ठञ् प्राप्तः । वैंशतिकमिति । विंशत्या क्रीतं विंशतिकम् । संज्ञाशब्दोऽयम् ।विंशतितिंरशद्भ्या॑मिति योगविभागात्कन् । विंशतिकेन क्रीतिमिति विग्रहः । तत्र परिमाणविशेषस्य संज्ञा चेट्ठञ् प्राप्तः, अन्यस्य संज्ञा चेट्ठक् प्राप्तः । साहरुआमिति । सहरुओण क्रीतमिति विग्रहः ।सङ्ख्याया अतिशदन्तायाः॑ इति कन् प्राप्तः । वासनमिति । वसनेन क्रीतिमिति विग्रहः । अत्र ठक् प्राप्तः ।

Padamanjari

Up

index: 5.1.27 sutra: शतमानविंशतिकसहस्रवसनादण्


ठकठञोरपवाद इति। शतमानं। परिमाणम्, सहस्रं संख्या; ताभ्यां ठञोऽपवादः। विंशत्या क्रीतं विंशतिकं संज्ञाशब्दोऽयम्, असंज्ञायाम्'विंशतित्रिंशद्भयां ड्वुनसंज्ञायाम्' इति ड्वुना भवितव्यम्, सा यदि परिमाणस्य संज्ञा ? तदा ततोऽपि ठञोऽपवादः। अथ त्वर्थान्तरस्य, ततष्ठकः। वसनशब्दातु ठक एव ॥