आ च त्वात्

5-1-120 आ च त्वात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तस्य भावः स्त्वतलौ

Sampurna sutra

Up

index: 5.1.120 sutra: आ च त्वात्


'तस्य भावः' (इति) त्व-तलौ आ त्वात् च

Neelesh Sanskrit Brief

Up

index: 5.1.120 sutra: आ च त्वात्


'तस्य भावस्त्वतलौ' (5.1.119) इत्यनेन विहितौ त्व-तल्-प्रत्ययौ 'ब्रह्मणस्त्वः' (5.1.136) इति सूत्रपर्यन्तमपवादानां विधाने अपि विकल्पेन विधीयन्ते ।

Kashika

Up

index: 5.1.120 sutra: आ च त्वात्


ब्रह्मणस् त्वः 5.1.136 इति वक्ष्यति। आ एतस्मात् त्वसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामः, तत्र त्वतलौ प्रत्ययावधिकृतौ वेदितव्यौ। वक्ष्यति पृथ्वादिभ्य इमनिज् वा 5.1.122 इति। प्रथिमा, पार्थवम्, पृथुत्वम्, पृथुता। म्रदिमा, मार्दवम्, मृदुत्वम्, मृदुता। अपवादैः सह समावेशार्थं वचनम्। कर्मणि च विधानार्थं गुणवचनब्राह्मणादिभ्यः कर्मणि च 5.1.124 इति। चकारो नञ्स्नञ्भ्यामपि समावेशार्थः। स्त्रियाः भावः स्त्रैणम्, स्त्रीत्वम्, स्त्रीता। पुंसो भावः पुंस्त्वम्, पुंस्ता, पौंस्नम्।

Siddhanta Kaumudi

Up

index: 5.1.120 sutra: आ च त्वात्


ब्रह्मणस्त्व इत्यतः प्राक् त्वतलावधिक्रियेते । अपवादैः सह समावेशार्थं गुणवचनादिभ्यः कर्मणि विधानार्थं चेदम् । चकारो नञ्स्नञ्भ्यामपि समावेशार्थः । स्त्रियो भावः स्त्रैणम् । स्त्रीत्वम् । स्त्रीता । पौंस्नम् । पुंस्त्वम् । पुंस्ता ॥

Laghu Siddhanta Kaumudi

Up

index: 5.1.120 sutra: आ च त्वात्


ब्रह्मणस्त्व इत्यतः प्राक् त्वतलावधिक्रियेते। अपवादैः सह समावेशार्थमिदम्। चकारो नञ्स्नञ्भ्यामपि समावेशार्थः। स्त्रिया भावः - स्त्रैणम्। स्त्रीत्वम्। स्त्रीता। पौंस्नम्। पुंस्त्वम्। पुंस्ता॥

Neelesh Sanskrit Detailed

Up

index: 5.1.120 sutra: आ च त्वात्


तस्य भावस्त्वतलौ 5.1.119 इत्यनेन सूत्रेण 'भावः' अस्मिन् अर्थे 'त्व' तथा 'तल्' प्रत्ययौ उच्येते । एतयोः प्रत्यययोः व्याप्तेः विषये अस्मिन् सूत्रे द्वौ बिन्दू पाठ्येते -

1) ब्रह्मणस्त्वः 5.1.136 इति सूत्रपर्यन्तम् एतयोः प्रत्यययोः व्याप्तिः अस्ति । इत्युक्ते, ब्रह्मणस्त्वः 5.1.136 इति सूत्रपर्यन्तम् ये केऽपि अर्थाः / प्रातिपदिकशब्दाः उक्ताः सन्ति, तेषाम् विषये 'त्व' तथा 'तल्'-प्रत्ययौ भवतः ।

2) ब्रह्मणस्त्वः 5.1.136 इति सूत्रपर्यन्तम् यद्यपि विशिष्टेभ्यः प्रातिपदिकेभ्यः विशिष्ट-अपवादाः उच्यन्ते, तथाऽपि ते अपवादाः त्व-तल्-प्रत्ययौ विकल्पेन एव बाधेते । इत्युक्ते, येषाम् विषये अपवादाः विहिताः सन्ति, तेषाम् विषये अपि विकल्पेन त्व-तल्-प्रत्ययौ भवतः ।

संक्षेपेण, त्व-तल्-प्रत्ययौ, तथा च तयोः अपवादाः - एतयोर्मध्ये बाध्य-बाधकभावः न विद्यते - इति अस्य सूत्रस्य आशयः ।

कानिचन उदाहरणानि पश्यामः -

अ) गुणवचनब्राह्मणादिभ्यः कर्मणि च 5.1.124 इत्यनेन सूत्रेण 'जडस्य कर्म' अस्मिन् अर्थे जड-शब्दात् ष्यञ्-प्रत्ययः विधीयते, येन 'जाड्य' इति रूपम् सिद्ध्यति । एतत् सूत्रम् ब्रह्मणस्त्वः 5.1.136 इत्यस्मात् पूर्वमुक्तमस्ति, अतः 'जडस्य कर्म' अस्मिन् अर्थे वर्तमानसूत्रेण त्व-प्रत्ययः तल्-प्रत्ययः च अपि भवतः । जडस्य कर्म जडत्वम् जडता वा ।

आ) पृथ्वादिभ्य इमनिज्वा 5.1.122 इत्यनेन सूत्रेण 'पृथु'शब्दात् इमनिच् तथा अण् प्रत्ययौ भवतः । यथा -

पृथोः भावः प्रथिमा पार्थवम् वा । एतत् सूत्रम् ब्रह्मणस्त्वः 5.1.136 इत्यस्मात् पूर्वमुक्तमस्ति, अतः 'पृथोः भावः' अस्मिन् अर्थे वर्तमानसूत्रेण त्व-प्रत्ययः तल्-प्रत्ययः च अपि भवतः । पृथोः भावः पृथुत्वम् पृथुता वा ।

इ) सख्युर्यः 5.1.126 अनेन सूत्रेण 'सख्युः भावः कर्म वा' अस्मिन् अर्थे सखि-शब्दात् य-प्रत्ययः भवति, येन 'सख्य' इति शब्दः सिद्ध्यति । एतत् सूत्रम् ब्रह्मणस्त्वः 5.1.136 इत्यस्मात् पूर्वमुक्तमस्ति, अतः 'सख्युः भावः कर्म वा' अस्मिन् अर्थे वर्तमानसूत्रेण त्व-प्रत्ययः तल्-प्रत्ययः च अपि भवतः । सख्युः भावः सखित्वम् सखिता वा ।

ई) <!दूतवणिग्भ्यां चेति वक्तव्यम्!> एतत् वार्त्तिकम् सख्युर्यः 5.1.126 इत्यत्र पाठितमस्ति । अनेन वार्त्तिकेन 'दूतस्य भावः कर्म वा' अस्मिन् अर्थे 'दूत्य' अयम् शब्दः सिद्ध्यति । एतत् सूत्रम् ब्रह्मणस्त्वः 5.1.136 इत्यस्मात् पूर्वमुक्तमस्ति, अतः अत्रापि त्व-तल्-प्रत्ययौ भवतः, याभ्याम् 'दूतत्वम्' तथा 'दूतता' एतौ शब्दौ अपि सिद्ध्यतः ।

विशेषः - 'स्त्री' तथा 'पुम्स्' शब्दयोः विषये वस्तुतः स्त्रीपुंसाभ्याम् नञ्स्नञौ भवनात् 4.1.87 इत्यनेन अस्मिन् अधिकारे नञ् तथा स्नञ् प्रत्ययौ उक्तौ स्तः । परन्तु वर्तमानसूत्रे 'च' इत्यस्य ग्रहणेन एतयोः शब्दयोः विषये 'त्व' तथा 'तल्' प्रत्ययौ अपि विकल्पेन विधीयेते । यथा - स्त्रीणाम् भावः स्त्रैणम् स्त्रीत्वम् स्त्रीता वा । पुंसाम् भावः पौंस्नम् पुंस्त्वम् पुंस्ता वा ।

'पुंस्त्व' शब्दस्य प्रक्रिया इयम् -

पुम्स् + त्व

→ पुम् + त्व ['त्व' प्रत्यये परे स्वादिष्वसर्वनामस्थाने 1.4.17 इति अङ्गस्य पदसंज्ञा ।संयोगान्तस्य लोपः 8.2.7 इति पदान्ते विद्यमानस्य संयोगस्य अन्तिमवर्णस्य लोपः]

→ पुँरुँ + त्व / पुंरुँ + त्व [पुमः खय्यम्परे 8.3.6 इति मकारस्य रुँत्वम् । अत्रानुनासिकः पूर्वस्य तु वा 8.3.2 इति विकल्पेन अनुनासिकः ; पक्षे अनुनासिकात्परोऽनुस्वारः 8.3.4 इति अनुस्वारः]

→ पुँः / पुंः + त्व [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

→ पुँस्त्व / पुंस्त्व [विसर्जनीयस्य सः 8.3.34 इति विसर्गस्य सकारः]

ज्ञातव्यम् -

  1. अस्मिन् सूत्रे प्रयुक्तः 'त्वात्' शब्दः ब्रह्मणस्त्वः 5.1.136 इत्यत्र निर्दिष्टस्य 'त्व' शब्दस्य निर्देशं करोति । 'आ त्वात्' इत्युक्ते 'त्व' शब्दपर्यन्तम् । अतः अनेन सूत्रेण त्व/तल्-प्रत्यययोः व्याप्तिः ब्रह्मणस्त्वः 5.1.136 इति पर्यन्तमस्ति एतत् स्पष्टीभवति ।

  2. अनेन सूत्रेण त्व-तल्-प्रत्यययोः व्याप्तिः निर्दिश्यते, अतः एतत् सूत्रम् 'अधिकारसूत्रम्' अस्तीति स्वीक्रियते ।

Balamanorama

Up

index: 5.1.120 sutra: आ च त्वात्


आ च त्वात् - आच त्वात् । त्वलावित्यनुवर्तते । आड्भर्यादायाम् । तदाह — ब्राहृणस्त्व इत्तः प्रागिति । ननु 'तस्य भावस्त्वतलौ' इत्यतस्त्वतलोरुत्तरसूत्रेष्वनुवृत्त्यैव सिद्धेरधिकारोऽयं व्यर्थ इत्यत-आह — अपवादैरिति ।पृथ्वादिभ्यः इमनिज्वा॑ इत्यादिविहितैरिमनिजादिभिरपवादैः समुच्चायार्थमित्यर्थः । असति त्वेतस्मिन्नधिकारसूत्रे उत्तरत्र इमनिजादिविधिषु त्वतलोरनुपस्थितिः स्यात् । प्रत्यक्षनिर्दिष्टैरिमनिजादिविशेषैः शान्ताकाङ्क्षत्वात् । अन्यथाप्राग्दीव्यतोऽ॑णित्यधिकृतस्य अणः 'अत इ' ञित्यादावपि प्रवृत्तिः स्यादिति भावः । प्रयोजनान्तरमाह — गुणवचनादिभ्य इति । अन्यथा भावेऽर्थे सावकाशयोस्त्वतलोः कर्मण्यर्थे गुणवचनादिभ्यो विशेषविहितेन ष्यञा बाधप्रसङ्ग इति भावः । नन्वेवमपिआ त्वा॑दित्येवास्तु, स्वरितत्वादेव पूर्वसूत्रादिह त्वतलोरनुवृत्तिसिद्धेस्तदनुकर्षार्थश्चकारो व्यर्थ इत्यत आह — चकार इति । अन्यथा त्वतलौ स्त्रीपुंसाभ्यां न स्याताम्, अन्यत्र तयोः सावकाशत्वादिति भावः । पौंस्नमिति । संयोगान्तलोपे पुमः खय्यम्परे॑ इति रुत्वम् । पाक्षिकावनुनासिकानुस्वारौ । विसर्गे कृतं सत्वम् । एवं पुंस्त्वम् । तत्र 'ह्रस्वात्तादौ' इति षत्वं न भवति, सवनादिषु पाठात् ।

Padamanjari

Up

index: 5.1.120 sutra: आ च त्वात्


प्रथिमेति।'तुरिष्ठेमेयस्सु' 'टेः' इति टिलोपः, रऋतो हलादेर्लघोःऽ इति ऋकारस्य रादेशः। पार्थवमिति। ठिगन्ताच्च लघुपूर्वात्ऽ इत्यण्। अपवादैरित्यादि। इमनिजादआआस्त्वतलोरपवादान्वक्ष्यति, तैः सह समावेशो यथा स्यादित्येवमर्थमिदम्। ननु स्वरितत्वादेव त्वतलावनुवर्तिष्येते तेनापवादविषये भविष्यतः ? तन्न; इत उतरवाक्यानां प्रत्ययनिर्द्देशेन निराकांक्षत्वात्वतलोरपि पूर्वसूत्रे विधानादाकांक्षाया अभावान्नैतच्छक्यं विज्ञातुम्-अनुवर्तेते त्वतलाविति। कर्मणि च विधानाराथमिति। येभ्य एव कर्मणि ष्यञादिविधिस्तेभ्य एव त्वतलावपि कर्मणि भवतः, न तु ङ्याप्प्रातिपदिकमात्रात्। चकारो नञस्नञ्ब्यामपि समावेशार्थ इति। अन्यथा'स्त्रीपुंसाभ्याम्' इत्यस्य विधित्वपक्षे प्राग्भवनाद्येऽर्थास्तानपेक्ष्य तत्रैव प्रदेशे नञ्स्नञोर्विधानादत्र प्रकरणे सन्निधानाभावान्नेमनिजादिवत्समावेशसिद्धिः। परिभाषात्वेऽपि यथोद्देशपक्षे'स्त्रीपुंसाभ्याम्' इत्यत्रैव प्रकरणे नञ्स्नञोः सन्निधिः। न पुनरिमनिजादिमध्ये कार्यकालपक्षेऽपि प्राग्भवनाद्येऽर्थाः, तत्र नञ्स्नञ्भ्यामुपस्थातव्यम्। तत्र यदि तावद्भावे इत्यर्थविज्ञानमात्र एव नञ्स्नञोरुपस्थानम् -'तस्य भावस्त्वतलौ' 'स्त्रीपुंसाभ्यां भावे नञ्स्नञौ' इति, तदस्मिन्प्रदेशे सन्निधानेऽपि ठा च त्वात्ऽ इत्यस्मात्पूर्वै भवतः। अथ तूत्सर्गापादविधानोपयोगविज्ञानानन्तरं नञ्स्नव्योरुपस्थानम्, तदा ब्रह्मणस्त्व इत्यस्मात्परौ नञस्नञौ भवतः। सर्वथा ठा च त्वात्ऽ इत्यस्मिन्प्रदेशे नाभ्यन्तरौ।'गुणपचनब्राह्मणादिभ्यः कमणि च' इत्यत्र कर्मणि नञ्स्नञोरुपस्थानं नाशङ्नीयम्; प्रकृतिविसेषसम्बद्धस्य कर्मार्थस्योपादानात् प्रकृत्यन्तरेण तस्यासम्बन्धात्। अधिकारपक्षे तु प्रतिसूत्रमुपस्थानान्नञ्स्नञोरिमनिजादिष्वन्तर्भावाद् ठा च त्वात्ऽ इत्येव नञ्स्नञ्भ्यामपि समावेशः सिध्यति। अथ तत्राप्यर्थस्यैवावधित्वादर्थेष्वेवोपस्थानम्, ततोऽधिकारपक्षेऽपि नाभ्यन्तरत्वमिति सर्वथा चकारेणैव नञ्स्नञ्भ्यां समावेशो वाच्यः ॥