5-1-134 गोत्रचरणात् श्लाघात्याकारतदवेतेषु प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तस्य भावः स्त्वतलौ आ च त्वात् कर्मणि वुञ्
'तस्य भावः कर्मणि च' (इति) गोत्रचरणात् श्लाघा-अत्याकार-तदवेतेषु वुञ्
षष्ठीसमर्थेभ्यः गोत्रप्रत्ययान्तेभ्यः चरणवाचिभ्यः च शब्देभ्यः 'श्लाघा', 'अत्याकार' तथा 'तदवेत' एतेषु विषयेषु 'भावः' तथा 'कर्म' अस्मिन् अर्थे वुञ्-प्रत्ययः भवति ।
गोत्रवाचिनश्चरणवाचिनश्च प्रातिपदिकाद् वुञ् प्रत्ययो भवति, प्रत्येकं भावकर्मणोरर्थयोः श्लाघादिषु विषयभूतेषु। तत्र श्लाघा विकत्थनम्। अत्याकारः पराधिक्षेपः। तदवेतस्तत्प्राप्तस्तज्ज्ञो वा। तदिति गोत्रचरणयोर्भावकर्मणी निर्दिश्येते। तत्प्राप्तस्तदवगतवान् तदवेत इत्युच्यते। श्लाघायां तावत् — गार्गिकया श्लाघते। काठिकया श्लाघते। गार्ग्यत्वेन कठत्वेन च विकत्थत इत्यर्थः। अत्याकारे गार्गिकयात्याकुरुते। काठिकयात्याकुरुते। गार्ग्यत्वेन कठत्वेन च परानधिक्षिपतीत्यर्थः। तदवेतः — गार्गिकामवेतः। काठिकामवेतः। गार्ग्यत्वं कठत्वं च प्राप्त इत्यर्थः। तद् वावगतवानित्यर्थः। श्लाघादिष्विति किम्? गार्ग्यत्वम्। कठत्वम्॥
अत्याकारोऽधिक्षेपः तदवेतस्ते गोत्रचरणयोर्भावकर्मणी प्राप्तः । अवगतवान्वा । गार्गिकया श्लाघते । गार्ग्यत्वेन विकत्थत इत्यर्थः । गार्गिकयाऽत्याकुरुते । गार्गिकामवेतः ॥
अस्य सूत्रस्य अर्थं ज्ञातुमादौ सूत्रे विद्यमानानाम् शब्दानाम् परिचयम् प्राप्नुमः । 1. गोत्रवाचिनः शब्दाः - ये शब्दाः गोत्रप्रत्ययान्ताः सन्ति ते । अपत्याधिकारे पाठितस्य गोत्रप्रत्ययान्तशब्दस्य अयम् निर्देशः अस्ति । यथा - गार्ग्यः, कौञ्जायनः - आदयः । 2. चरणवाचिनः शब्दाः - वेदस्य काश्चन शाखाः 'चरण' नाम्ना प्रसिद्धाः सन्ति । यथा - कठ, कलाप, पिप्पलाद - आदयः । एतेषाम् चरणामध्येतारः अपि एतैः शब्दैः एव ज्ञायन्ते । यथा - कठं अधीते के कठाः, कलापमधीते ते कलापाः - आदयः । एते अध्येतृवाचिनः शब्दाः 'चरणवाचिनः' नाम्ना अस्मिन् सूत्रे निर्दिष्टाः सन्ति । 3. श्लाघा - विकत्थनम्, आत्मप्रौढी (the act of praising oneself) 4. अत्याकार - परस्य अवमानः (the act of insulting others) 5. तदवेत - 'तत् प्राप्नोति सः' इति अर्थः । (the act of attaining / obtaining something) इदानीम् सूत्रार्थमपि क्रमशः पश्यामः, यतः अस्मिन् सूत्रे अनेके बिन्दवः युगपत् उक्ताः सन्ति । 1. यदि कश्चन मनुष्यः गोत्रप्रत्ययान्तशब्दस्य साहाय्येन स्वस्य निर्देशम् कृत्वा आत्मस्तुतिम् करोति (यथा - 'अहम् गार्ग्यः अस्मि' इति श्लाघते), तर्हि अस्य भावस्य / कर्मणः निर्देशम् कर्तुम् गोत्रवाचिशब्दात् वुञ्-प्रत्ययः भवति । अयम् वुञ्-प्रत्ययान्तशब्दः प्रयोगे स्त्रीलिङ्गे एव प्रयुज्यते, अतः तत्र स्त्रीप्रत्ययः अपि विधीयते । उदाहरणम् एकम् पश्यामः - गार्ग्य + वुञ् + टाप् ['गार्ग्य' इति गोत्रप्रत्ययान्तशब्दः । भावार्थकः वुञ्-प्रत्ययः । स्त्रीत्वे <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्] → गार्ग्य + अक + आ [<<युवोरनाकौ>> 7.1.1 इति 'वु' इत्यस्य 'अक' आदेशः] → गार्ग्य + अक + आ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → गार्ग्य् + अक + आ [<<यस्येति च>> 6.4.148 इति अकारलोपः] → गार्ग् + अक + आ ['गार्ग्य' अयमपत्यप्रत्ययान्तशब्दः अस्ति, अतः <<आपत्यस्य च तद्धितेनाऽति>> 6.4.151 इत्यनेन यकारलोपः विधीयते ।] → गार्गक + आ → गार्गिक + आ [<<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> 7.3.44 इति इत्वम्] → गार्गिका [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः] कश्चन गार्ग्यः श्लाघते; तस्य भावः कर्म वा गार्गिका ।अस्यैव निर्देशार्थम् 'गार्गिकया श्लाघते' इति प्रयोगः रूढ अस्ति । 2. यदि कस्य मनुष्यः स्वस्य चरणस्य निर्देशं कृत्वा आत्मस्तुतिम् करोति (यथा - 'अहम् कठः अस्मि' इति श्लाघते), तर्हि अस्य भावस्य / कर्मणः निर्देशं कर्तुम् चरणवाचिशब्दात् वुञ्-प्रत्ययः भवति । पूर्ववत् एव वुञ्-प्रत्ययान्तशब्दः प्रयोगे स्त्रीलिङ्गे एव प्रयुज्यते, अतः तत्र स्त्रीप्रत्ययः अपि विधीयते । उदाहरणम् एतादृशम् - कठ + वुञ् + टाप् ['कठ' इति चरणवाचिशब्दः । भावार्थकः वुञ्-प्रत्ययः । स्त्रीत्वे <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्] → कठ + अक + आ [<<युवोरनाकौ>> 7.1.1 इति 'वु' इत्यस्य 'अक' आदेशः] → काठ + अक + आ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → कठ् + अक + आ [<<यस्येति च>> 6.4.148 इति अकारलोपः] → काठक + आ → काठिक + आ [<<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> 7.3.4 इति इत्वम्] → काठिका [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः] कश्चन कठः श्लाघते, तस्य भावः कर्म वा 'काठिका' । अस्यैव निर्देशार्थम् 'काठिकया श्लाघते' इति प्रयोगः रूढ अस्ति । 3. यदि कश्चन मनुष्यः अन्यस्य गोत्रस्य उत चरणस्य निर्देशं कृत्वा तस्य निन्दां करोति, तर्हि अस्य भावस्य / कर्मणः निर्देशं कर्तुम् तादृशात् गोत्रवाचिशब्दात् / चरणवाचिशब्दात् वुञ्-प्रत्ययः भवति । यथा - [अ] कश्चन 'त्वम् गार्ग्यः असि' इति अत्याकुरुते ( = निन्दति), तस्य भावः कर्म वा 'गार्गिका' । अस्यैव निर्देशार्थम् 'गार्गिकया अत्याकुरुते' इति निर्दिश्यते । [आ] कश्चन 'त्वम् कठः असि' इति अत्याकुरुते ( = निन्दति), तस्य भावः कर्म वा 'काठिका' । अस्यैव निर्देशार्थम् 'काठिकया अत्याकुरुते' इति निर्दिश्यते । 4. यदि कश्चन मनुष्यः कस्मिंश्चित् गोत्रे चरणे वा अन्तर्भवति (gets included in that specific गोत्र / चरण), तर्हि तस्य भावस्य / कर्मणः निर्देशार्थम् तादृशात् गोत्रवाचिशब्दात् / चरणवाचिशब्दात् वुञ्-प्रत्ययः भवति । यथा - [अ] गार्गिकामवेतः ('गार्ग्य-गोत्रम् प्राप्तवान्' - one who became the part of गार्ग्य gotra इत्यर्थः) । [आ] काठिकामवेतः ('कठ-चरणम् प्राप्तवान्' - one who became the part of the group that studies the कठ चरण of the Vedas.) एतादृशम् अनेन सूत्रेण 'गार्गिकया श्लाघते / काठिकया श्लाघते / गार्गिकया अत्याकुरुते / काठिकया अत्याकुरुते / गार्गिकामवेतः / काठिकामवेतः' एते प्रयोगाः सिद्ध्यन्ति । विशेषः - अस्य सूत्रस्य विषये व्याख्यानेषु केवलम् 'गार्गिका' तथा 'काठिका' एते द्वे एव उदाहरणे दत्ते स्तः । स्मर्तव्यम् - <<आ च त्वात्>> 5.1.120 इत्यनेन अत्र त्व-तल्-प्रत्ययौ अपि भवितुमर्हतः । यथा - 1) गार्ग्यत्वेन श्लाघते , कठत्वेन श्लाघते, गार्ग्यतया श्लाघते, कठतया श्लाघते । 2) गार्ग्यत्वेन अत्याकुरुते, कठत्वेन अत्याकुरुते, गार्ग्यतया अत्याकुरुते, कठतया अत्याकुरुते । 3) गार्ग्यत्वमवेतः, कठत्वमवेतः, गार्ग्यतामवेतः, कठतामवेतः ।
<<गोत्रचरणाच्श्लाघाऽत्याकारतदवेतेषु>> - गोत्रचरणात् । गोत्रप्रत्ययान्ताच्छाखाध्येतृवाचिनश्च षष्ठन्ताद्भावकर्मणोर्वुञ्स्यात्श्लाघादिषु विषयेष्वित्यर्थः ।अपत्याधिकारादन्यत्र प्रवराध्यायप्रसिद्धं गोत्र॑मित्युक्तम् । 'अत्याकार' इत्यस्य विवरणम्-अधिक्षेप इति । तदवेत इत्येतद्विवृणोति — ते गोत्रेति । तच्छब्देन गोत्र चरणयोर्भावकर्मणी विवक्षिते । अवपूर्वादिणः प्राप्त्यर्थाज्ज्ञानार्थाद्वा कर्तरि क्तः । ते अवेतस्तदवेत इति विग्रहः ।द्वितीये॑ति योगविभागात्समासः । अवगतवान्वेति । ज्ञातवानित्यर्थः । गार्गिकयेति । गाग्र्यशब्दाद्वुञिआपत्यस्ये॑ति यलोपेयस्येति चे॑त्यकारलोपे लोकात्स्त्रीत्वे टापिप्रत्ययस्था॑दिति इत्त्वे गार्गिकाशब्दः । काठिकाया श्लाघते । इति चरणादुदाहार्यम् । अत्र श्लाघादयः पदान्तरोपात्ता एव प्रत्ययर्थान्वयिनो नतु प्रत्ययवाच्या इति बोध्यम् ।