प्रकृत्यैकाच्

6-4-163 प्रकृत्या एकाच् असिद्धवत् अत्र आभात् भस्य इष्ठेमेयस्सु

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

एकाज् यद् भसंज्ञकं तदिष्ठेमेयस्सु परतः प्रकृत्या भवति। स्रग्विन्नित्येतस्य विन्नन्तस्य स्रजिष्ठः, स्रजीयान्, स्रजयति। स्रुग्वदित्येतस्य मत्वन्तस्य स्रुचिष्ठः, स्रुचीयान्, स्रुचयति। एकाजिति किम्? वसुमदित्येतस्य वसिष्ठः, वसीयान्॥ प्रकृत्याके राजन्यमनुष्ययुवानः॥ अके प्रत्यये परतो राजन्य मनुष्य युवन्नित्येते प्रकृत्या भवन्ति। राजन्यानां समूहो राजन्यकम्। मनुष्याणां समूहो मानुष्यकम्। <<आपत्यस्य च तद्धितेऽनाति>> ६.४.१५१ इति यलोपः प्रकृतिभावेन न भवति। यूनो भावो यौवनिका। मनोज्ञादित्वाद् ५.१.१३३ वुञ्। तस्य <<नस्तद्धिते>> ६.४.१४४ इति टिलोपो न भवति॥

Siddhanta Kaumudi

Up

इष्ठातिष्वेकाच् प्रकृत्या स्यात् । श्रेष्ठः । श्रेयान् ॥

Laghu Siddhanta Kaumudi

Up

इष्ठादिष्वेकाच् प्रकृत्या स्यात्। श्रेष्ठः, श्रेयान्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<प्रकृत्यैकाच्>> - प्रकृत्यैकाच् । एकोऽच् यस्येति बहुव्रीहिः । इष्ठादिष्विति । 'तुरि,ठेमेयःसु' इत्यत तदनुवृत्तेरिति भावः । 'अल्लोपोऽनः,'नस्तद्धिते॒॑यस्येति च,॑टे॑रित्यादेरेतत्प्रकरणस्थलसोपस्यायं प्रकृतिभाव इति भाष्ये स्पष्टम् । श्रेष्ठः । श्रेयानिति । अयमनयोरतिशयेन प्रशस्त इत्यर्थः ।

Padamanjari

Up

इष्ठेमेयस्सु परत इति । यदि त्विष्ठादीनामिहानुवृत्तिर्न स्यात्, तदा श्रिये हितम् प्राक् क्रीताच्छः श्रीयम्, ज्ञा देवतास्य ज्ञः स्थालीपाक इत्यत्र यस्येतिलोपो न स्यात्, ततश्च श्रीयमित्यत्रेयङदेशः स्यात्, तस्मादनुवर्त्या इष्ठादयः । स्रजिष्ठ इति । थाथ प्रादयः किमित्युपेक्षिताः - प्रेष्ठः, प्रेयान्, स्थेष्ठः, स्थेयानिति असिद्धत्वात्प्रादीनां टिलोपो यस्येतिलोपश्च न भविष्यति । इह तर्हि श्रेष्ठः, श्रेयानिति अकारोच्चारणसामर्थ्याल्लोपो न भविष्यति । तस्माद्विन्मतोर्लुक्येवास्योदाहरणस्य सम्भवः । यद्येवम्, नाप्रप्ते टिलोपे आरभ्यमाणे विन्मतोर्लुक् लोपं बाधिष्यते सत्यम् विन्नन्तस्य मत्वन्तस्य च टिलोपः प्राप्तस्तं बाधते । यस्तु तयोलुकि कृते अवशिष्टस्य टिलोपः प्राप्नोति, तस्य कथं बाधकः स्यात् । न हि तस्मिन्नप्राप्ते विन्मतोर्लुगारभ्यते । अवश्यं चैतदेवं विज्ञेयम् - अविशिष्टस्य यष्टिलोपस्तं न बाधत इति अन्यथा यत्रावशिष्टमनेकाच् तत्रापि टिलोपो न स्यात्, ततश्च वसिष्ठः, वसीयानिति प्रत्युदाहरणं नोपपद्यते । एवं चातिशयेन ब्रह्मवान् ब्रह्मष्ठः, अवशिष्टस्य नस्तद्धिते इति टिलोपो भवति । बह्वच्ब्राह्मणं च - तस्माद्भाह्मणं ब्रह्मिष्ठ्ंअ कुर्वीत इति, तथातिशयेन पयस्वी पयिष्ठ इति भवति, न तु पयसिष्ठ इति । अपर आह - इष्ठेमेयस्स्वनेकाचोऽप्यवशिष्टस्य नेष्यते । टिलोपो भाष्यकारेण प्रवृते विन्मतोर्लुकि ॥ इति । प्रकृत्येत्यादि । राज्ञोऽपत्यं राजन्यः, राजश्वशुराद्यत्, मनोरपत्यं मनुष्यः, मनोर्जातावञ्यतो पुक्च, ताभ्यां समूहे गोक्षोक्षोष्ट्र इत्यादिना वुञ् । आपत्यस्य चेत्यादि । एतच्चानयोरपत्यवाचित्वमङ्गीकृत्योक्तम् । यदा तु जातिमात्रमुभयत्र शब्दार्थः, अपत्यार्थस्तु नास्त्येवेति पक्षः तदानापत्यत्वादेव लोपस्या प्रसङ्गान्नार्थः प्रकृतिभावेन ॥