5-1-119 तस्य भावः स्त्वतलौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा
index: 5.1.119 sutra: तस्य भावस्त्वतलौ
तस्य भावः त्व-तलौ
index: 5.1.119 sutra: तस्य भावस्त्वतलौ
'भावः' अस्मिन् अर्थे षष्ठीसमर्थात् 'त्व' तथा 'तल्' प्रत्ययौ भवतः ।
index: 5.1.119 sutra: तस्य भावस्त्वतलौ
तस्य इति षष्ठीसमर्थाद् भावः इत्येतस्म्निन्नर्थे तवतलौ प्रत्ययौ भवतः। भवतोऽस्मादभिधानप्रत्ययौ इति भावः। शब्दस्य प्रवृत्तिनिमित्तं भावशब्देन उच्यते। अश्वस्य भावः अश्वत्वम्, अश्वता। गोत्वम्, गोता।
index: 5.1.119 sutra: तस्य भावस्त्वतलौ
प्रकृतिजन्यबोधे प्रकारो भावः । गोर्भावो गोत्वम् । गोता । त्वान्तं क्लीबं (लि <{SK120}>) तलन्तं स्त्रियाम्(लि<{SK17}>) ॥
index: 5.1.119 sutra: तस्य भावस्त्वतलौ
प्रकृतिजन्यबोधे प्रकारो भावः। गोर्भावो गोत्वम्। गोता। त्वान्तं क्लीबम्॥
index: 5.1.119 sutra: तस्य भावस्त्वतलौ
अस्य सूत्रस्य अर्थम् ज्ञातुम् प्रारम्भे 'भाव' शब्दस्य अर्थम् पश्यामः ।
किम् नाम भावः ? जगति विद्यमानस्य प्रत्येकमपि पदार्थस्य केचन विशिष्ट-गुणधर्माः वर्तन्ते, यैः सः पदार्थः भिन्नप्रकारस्य पदार्थानामपेक्षया पृथक् रूपेण अवगन्तुम् शक्यते ।यथा, 'घट' इति वस्तु स्वीकुर्मश्चेत् घटस्य केचन विशिष्ट गुणधर्माः सन्ति यैः घटः 'घटः एव अस्ति, न अन्यः' इति ज्ञायते । यथा - घटः मृत्तिकायाः निर्मितः अस्ति, घटः प्रायः गोलाकारः अस्ति, घटे जलम् स्थापयितुम् शक्यते, घटः चक्रस्य साहाय्येन निर्मीयते - आदयः भिन्नाः गुणधर्माः घटस्य अवगमनार्थम् प्रयुज्यन्ते । एते सर्वे गुणधर्माः घटस्य 'धर्मविशेषाः' सन्ति इत्युच्यते । एतेषामेव साहाय्येन कोऽपि मनुष्यः किञ्चन नूतनं वस्तु दृष्ट्वा 'अयम् घटः अस्ति' इति वक्तुम् शक्नोति । एते धर्मविशेषाः एव 'भावः' नाम्ना ज्ञायन्ते । The inherent characteristics of an object that distinguish it from other different objects, there by enabling someone to identify other objects similar to that object are collectively termed as 'भाव' ।
एकमुदाहरणम् पश्यामश्चेत् इतोऽपि स्पष्टम् स्यात् । कश्चन देवदत्तः नूतनम् (इत्युक्ते पूर्वमदृष्टम्) पशुम् पश्यति । तदा सः झटिति जानाति - अयम् पशुः गौः अस्ति - इति । इदानीम् प्रश्नः आगच्छति - नूतनमदृष्टपूर्वम् पशुम् दृष्ट्वा अयम् 'गौः' अस्तीति ज्ञानम् कथम् भवति ? अस्य उत्तरम् एतत् - सर्वेषाम् गवाम् ये केऽपि समानाः गुणधर्माः सन्ति (यथा - चत्वारः पादाः, शृङ्गद्वयम्, पृष्ठे विद्यमाना ककुद् , कम्पमाना त्वक् - आदयः) ते सर्वे अस्मिन् पशौ अपि दृश्यन्ते, अतः अयम् पशुः गौः अस्तीति विज्ञायते । सरलभाषायाम् - यैः गुणैः 'अयम् पशुः गौः अस्ति, न हि अश्वः हस्ती गर्दभः वा' इति प्रतीयते, ते गुणाः 'गोः भावः' नाम्ना ज्ञायन्ते । The property of 'being a cow (and not something else)' is called the भाव of the cow.
काशिकाकारः 'भाव'शब्दस्य अर्थम् वदति - 'भवतः अस्माद् अभिधानप्रत्ययौ इति भावः' । इत्युक्ते - सः गुणः, येन वस्तु प्रतीयते, येन च पदार्थस्य जातिस्वरुपस्य नाम्नः ज्ञानम् भवति (यथा - अयम् घटः अस्ति, सर्पः न - इति), 'भावः' नाम्ना ज्ञायते । कौमुदीकारः इममेव विषयम् केनचित् भिन्नरूपेण स्पष्टीकरोति -'प्रकृतिजन्यबोधे प्रकारः भावः' । इत्युक्ते, पदार्थस्य बोधे (ज्ञाने) यस्य प्रकारस्य (गुणस्य) साहाय्यम् स्वीक्रियते, सः प्रकारः एव पदार्थस्य भावः अस्ति इत्युच्यते । The properties of an object that help in uniquely identifying that object from other objects is called भाव. ।
अस्य भावस्य निर्देशार्थम् षष्ठीसमर्थात् प्रातिपदिकात् औत्सर्गिकरूपेण 'त्व' तथा 'तल्' एतौ प्रत्ययौ वर्तमानसूत्रेण उच्येते ।
यथा - घटस्य भावः घटत्वमुत घटता । गोः भावः गोत्वमुत गोता । अश्वस्य भावः अश्वत्वमुत अश्वता । जडस्य भावः जडत्वमुत जडता ।
'त्व' तथा 'तल्' प्रत्यययोः विषये एतत् स्मर्तव्यम् -
'त्व' प्रत्ययान्तशब्दाः नित्यम् नपुंसकलिङ्गे एव प्रयुज्यन्ते - गोत्वम्, अश्वत्वम्, जडत्वम् - आदयः ।
'तलन्तः' इति किञ्चन सूत्रम् लिङ्गानुशासने विद्यते, येन तल्-प्रत्ययान्तशब्दाः नित्यम् स्त्रीलिङ्गे एवप्रयुज्यन्ते । यथा - गोता, अश्वता, जडता - आदयः । अत्र 'तल्' प्रत्यये लकारः लिति 6.1.193 इत्यनेन स्वरविधानार्थमस्ति । प्रक्रियायामादौ तस्य लोपः भवति, अग्रे च अजाद्यतष्टाप् 4.1.4 इत्यनेन टाप्-प्रत्ययः क्रियते -
घट + तल्
→ घट + त [इत्संज्ञकस्य लोपः]
→ घट + त + टाप् ['तलन्तः' इति स्त्रीत्वम्, अजाद्यतष्टाप् 4.1.4 इति टाप्]
→ घटता
विशेषः - पदार्थेषु विद्यमानः भावः त्रिविधः भवति - जातिः, गुणः तथा क्रिया । यथा, 'गोत्वम्' इति जातिः (structure) अस्ति इत्युच्यते; 'नीलत्वम्' इति गुणः(quality) अस्ति इत्युच्यते ; तथा च 'पाचकत्वम्' इति क्रिया (action) अस्ति इत्युच्यते । अस्मिन् विषये अधिकं पिपठिषवः तर्कसङ्ग्रहमुत न्यायशास्त्रस्य अन्यान् ग्रन्थान् पश्यन्तु ।
index: 5.1.119 sutra: तस्य भावस्त्वतलौ
तस्य भावस्त्वतलौ - तस्य भावः । षष्ठन्ताद्भाव इत्यर्थे त्वतलौ स्त इत्यर्थः । भावशब्दस्य अभिप्रायादावपि वृत्तेराह — प्रकारो भाव इति । त्वतल्प्रत्ययौ यत उत्पत्सेयेते तस्मात्प्रकृतिभूतशब्दाद्व्यक्तिबोधे जायमाने यज्जात्यादिकं विशेषणतया भासते तद्व्यक्तिविशेषणं भावशब्देन विवक्षितमित्यर्थः । यथा-गोशब्दाद्धि व्यक्तिबोधे जायमाने गोत्वं विशेषणत्वेन भासते, गोशब्दस्य गोत्ववतीषु व्यक्तिषु, गोत्वे च शक्तिग्रहणात् । न हि गोत्वं विहाय गोव्यक्तिषु गोशब्दस्य शक्तिग्रहः । सम्भवति अतीतानागतानां वर्तमानानां चाऽनन्तत्वेन युगपदुपस्थित्यसम्भवाद्गोशब्दात् प्राणित्वपशुत्वादिरूपेणाऽपि गोव्यक्तिप्रतीत्यापत्तेश्च । ततश्च सर्वासु गोव्यक्तिष्वनुगतं तदितरव्यक्तिभ्यो व्यावृत्तं कञ्चिद्धर्मविशेषं शक्यतावच्छेदकं पुरस्कृत्य गोशब्दः प्रवर्तत इति सिद्धान्तः । एवं घटादिशब्दा अपि घटत्वादित्तद्धर्मं पुरस्कृत्य प्रवर्तन्ते । तदिदं शब्दप्रवृत्तिनिमित्तं बोधः । त्वान्तं क्लीबं तलन्तं स्त्रियामिति । लिङ्गानुशासनसूत्रसिद्धमिदम् ।