5-1-121 न नञ्पूर्वात् तत्पुरुषात् अचतुरसङ्गतलवणवटयुधकतरसलसेभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तस्य भावः स्त्वतलौ आ च त्वात्
index: 5.1.121 sutra: न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः
'तस्य भावः' (इति) त्व-तलौ आ त्वात् च , अ-चतुर-संगत-लवण-वट-युध-कत-रस-लसेभ्यः नञ्पूर्वात् तत्पुरुषात् न
index: 5.1.121 sutra: न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः
'भावः' इत्यस्मिन् अर्थे अग्रे विहिताः अपवादप्रत्ययाः चतुर-संगत-लवण-वट-युध-कत-रस-लस-शब्दान् वर्जयित्वा अन्येषां विषये नञ्-तत्पुरुष-समासात् पूर्वम् न विधीयन्ते ।
index: 5.1.121 sutra: न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः
इत उत्तरे ये भाव. प्रत्ययाः, ते नञ्पूर्वात् तत्पुरुषात् न भवन्ति चतुरादीन् वर्जयित्वा। वक्ष्यति पत्यन्तपुरोहितादिभ्यो यक् 5.1.128 इति। अपतित्वम्, अपतिता। अपटुत्वम्, अपटुता। अरमणीयत्वम्, अरमणीयता। नञ्पूर्वातिति किम्? बार्हस्पत्यम्। प्राजापत्यम्। तत्पुरुषातिति किम्? न अस्य पटवः सन्तीति अपटुः, तस्य भावः आपटवम्। आलघवम्। अचतुरादिभ्यः इति किम्? आचतुर्यम्। आसङ्गत्यम्। आलवण्यम्। आवट्यम्। आबुध्यम्। आकत्यम्। आरस्यम्। आलस्यम्।
index: 5.1.121 sutra: न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः
इतः परं ये भावप्रत्ययास्ते नञ्तत्पुरुषान्न स्युश्चतुरादीन्वर्जयित्वा । अपतित्वम् । अपटुत्वम् । नञ्पूर्वात्किम् । बार्हस्पत्यम् । तत्पुरुषात्किम् । नास्य पटवः सन्तीत्यपटुस्तस्य भाव आपटवम् । अचतुरेति किम् । आचतुर्यम् । आसङ्गत्यम् । आलवण्यम् । आवट्यम् । आयुध्यम् । आकत्यम् । आरस्यम् । आलस्यम् ॥
index: 5.1.121 sutra: न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः
तस्य भावस्त्वतलौ 5.1.119 इत्यनेन सूत्रेण 'भावः' अस्मिन् अर्थे 'त्व' तथा 'तल्' प्रत्ययौ उच्येते ।ब्रह्मणस्त्वः 5.1.136 इति सूत्रपर्यन्तम् एतयोः प्रत्यययोः भिन्नाः अपवादाः अपि पाठिताः सन्ति । एतेषाम् अपवादानाम् विषये द्वौ नियमौ वर्तमानसूत्रेण निर्दिष्टौ स्तः -
1.यदि प्रातिपदिकम् नञ्-तत्पुरुष-समासेन निर्मितमस्ति, तर्हि 'भावः' अस्मिन् अर्थे त्व-तल्-प्रत्यययोः एव प्रयोगः करणीयः, अपवादरूपेण विहितानाम् प्रत्ययानाम् प्रयोगः न करणीयः ।
उदाहरणानि कानिचन एतादृशानि -
'भावः' अस्मिन् अर्थे पत्यन्तपुरोहितादिभ्यो यक् 5.1.128 इति किञ्चन सूत्रम् पाठ्यते । अनेन सूत्रेण 'पति' शब्दः यस्य अन्ते विद्यते तादृशात् शब्दात् 'यक्' प्रत्ययः भवति । यथा - सेनापतेः भावः सैनापत्यम् । परन्तु नञ्-तत्पुरुष-समासेन निर्मितस्य 'अपति' शब्दस्य विषये वर्तमानसूत्रेण अयम् यक्-प्रत्ययः निषिध्यते, अतः 'अपतेः भावः' अस्मिन् अर्थे औत्सर्गिकौ त्व-तल्-प्रत्ययौ एव भवत, याभ्याम् 'अपतित्वम्' तथा 'अपतिता' एतौ शब्दौ भवतः ।
इगन्ताच्च लघुपूर्वात् 5.1.131 इत्यनेन सूत्रेण 'शुचि' शब्दात् 'भावः' अस्मिन् अर्थे 'अण्' प्रत्ययः भवति - शुचेः भावः शौचम् । परन्तु नञ्-तत्पुरुष-समासेन निर्मितात् 'अशुचि' शब्दात् वर्तमानसूत्रेण अस्य प्रत्ययस्य निषेधः भवति, अतः ओत्सर्गिकौ त्व-तल्-प्रत्ययौ एव भवतः । न शुचिः अशुचिः, अशुचेः भावः अशुचित्वम्, अशुचिता ।
स्मर्तव्यम् -
[1] 'अशौचम्' अयमपि कश्चन शब्दः भाषायाम् प्रयुज्यते, परन्तु तस्य अर्थः भिन्नः अस्ति -
अ) न विद्यते शौचम् यस्मिन् तत् अशौचम् - इति बहुव्रीहिसमासेन अत्र शब्दः सिद्ध्यति ।
आ) 'न शौचम्' इति नञ्-तत्पुरुषसमासेन अयम् शब्दः सिद्ध्यति ।
[2] नञ्-बहुव्रीहिसमासेन निर्मितः यः 'अशुचि' शब्दः, तस्य विषये अपि वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः तस्मात् शब्दात् अपि 'भावः' अस्मिन् अर्थेे इगन्ताच्च लघुपूर्वात् 5.1.131 इत्यनेनैव 'अण्' प्रत्ययः एव क्रियते । न विद्यते शुचिः यस्य सः अशुचिः, अशुचेः भावः अशौचमाशौचम् वा (नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् 7.3.30 इति उत्तरपदवृद्धिः, वैकल्पिका पूर्वपदवृद्धिश्च) ।
अनेन सूत्रेण उक्तः निषेधः 'चतुर', 'संगत', 'लवण', 'वट'. 'युध', 'कत', 'रस', 'लस' - एतेषाम् शब्दानां विषये न विद्यते । एतेषाम् सर्वेषाम् विषये गुणवचनब्राह्मणादिभ्यः कर्मणि च 5.1.124 अनेन सूत्रेण विहितः ष्यञ्-प्रत्ययः नञ्-तत्पुरुष-समासस्य विषये अपि विधीयते । यथा -
अचतुरस्य भावः आचतुर्यम् ।
असंगतस्य भावः आसङ्गत्यम्
अलवणस्य भावः आलवण्यम् ।
अवटस्य भावः आवट्यम् ।
अयुधस्य भावः आयुध्यम् ।
विशेषः - काशिकायाः केषुचन संस्करणेषु 'युध' इत्यस्य स्थाने 'बुध' इति शब्दः दृश्यते । अबुधस्य भावः आबुध्यम् ।
अकतस्य भावः आकत्यम् ।
अरसस्य भावः आरस्यम् ।
अलसस्य भावः आलस्यम् ।
विशेषः - गुणवचनब्राह्मणादिभ्यः कर्मणि च 5.1.124 अस्मिन् सूत्रे पाठितः ब्राह्मणादिगणः आकृतिगणः अस्तीति स्वीक्रियते, अतः च एते सर्वे शब्दाः ब्राह्मणादिगणे समाविश्यन्ते । अतएव एतेभ्यः ष्यञ्-प्रत्ययः भवति ।
स्मर्तव्यम् -
अनेन सूत्रेण उक्तः निषेधः केवलं नञ्-तत्पुरुषसमासस्य विषये एव अस्ति ; नञ्-बहुब्रीहिसमासस्य विषये न । यथा, 'न विद्यन्ते अस्य पटवः सः अपटुः' अस्मिन् अर्थे नञ्-बहुब्रीहिसमासेन जायमानात् 'अपटु' शब्दात् तु इगन्ताच्च लघुपूर्वात् 5.1.131 इत्यनेन अण्-प्रत्ययः भवत्येव - अपटोः भावः आपटवम् ।
भावकर्मार्थप्रकरणे गुणवचनब्राह्मणादिभ्यः कर्मणि च 5.1.124 इत्यस्मात् अग्रे उक्ताः प्रत्ययाः 'भावः' अस्मिन् अर्थे तु सन्ति एव, परन्तु 'कर्म' अस्मिन् अर्थे अपि प्रोक्ताः सन्ति ।अस्यां स्थितौ वर्तमानसूत्रेण उक्तः निषेधः द्वयोः अपि अर्थयोः विषये स्वीक्रियते इति ज्ञेयम् । यथा - न शुचिः अशुचिः, अशुचेः कर्म अशुचित्वम्, अशुचिता ।
यद्यपि अनेन सूत्रेण नञ्-तत्पुरुष-समासस्य विषये अपवादप्रत्ययविधानम् निषिध्यते, तथापि प्रारम्भे अपवाद-प्रत्ययं कृत्वा ततः नञ्-तत्पुरुषसमासविधानम् भवितुमर्हत्येव । यथा - शुचेः भावः शौचम् (अण्-प्रत्ययः), न शौचम् इति अशौचम् ।
अस्मिन् सूत्रे उक्तः निषेधः 'भावः' अस्मिन् अर्थे विहितानाम् प्रत्ययानां विषये अस्ति । एतेभ्यः शब्देभ्यः 'कर्म' अस्मिन् अर्थे अपि एतादृशम् एव प्रत्ययविधानम् भवति वा - अस्मिन् विषये व्याख्यानेषु स्पष्टरूपेण किमपि न उच्यते ।
index: 5.1.121 sutra: न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः
न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतर- सलसेभ्यः - न नञ्पूर्वात् । इतः परमिति । त्वतल्विधेरूध्र्वमित्यर्थः, नञ्पूर्वादित्युत्तरस्य प्रतिषेध इति भाष्यादिति । भावः । चतुरादीनिति । चतुर, सङ्गत, लवण, वट, युध, कत, रस, लस, — एतान्वर्जयित्वेत्यर्थः । अपतित्वमिति । इह॒पत्यन्तपुरोहितादिभ्यः॑ इति यक्न भवति । अपटुत्वमिति । इह॒इगन्ताच्च लघुपूर्वा॑दित्यण्न भवति । बार्हस्पत्यमिति ।पत्यन्तपुरोहितादिभ्यः॑ इति यक् । आपटवमिति ।इगन्ताच्च लघुपूर्वा॑दित्यण् । अपटुशब्दस्य बहुव्रीहित्त्वात्तत्पुरुषत्वाऽभावान्नास्याऽणो निषेध इति भावः । आचतुर्यमिति । अचतुरस्य भावः । ब्राआहृणादित्वात्ष्यञ् । आसंगत्यमिति । असङ्गतशब्दात्ष्यञ् । आलवण्यमिति । अलवणशब्दात्ष्यञ् । आवटमिति । न वटः अवटः, तस्मात्ष्यञ् । आयुध्यमिति । आयुधशब्दात्ष्यञ् । आकत्यमिति । अकतशब्दात्ष्यञ् । आरस्यमिति । अरसशब्दात्ष्यञ् । आलस्यमिति । लसतीति लसः । न लसः अलसः । तस्मात्ष्यञ् ।
index: 5.1.121 sutra: न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः
ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति त्वतलोरयं प्रतिषेध इति भ्रान्ति वारयति। इत उतरे ये प्रत्यया इति। एतच्च ठा च त्वात्ऽ इति सम्बन्धाल्लभ्यते। चतुरादीनीति। चतुराद्यन्ताÄस्तत्पुरुषान्नञ्पूर्वानित्यर्थः। ननु'पृथ्वादिभ्य इमनिज्वा' इत्यादिभिः परिणणिताभ्यः प्रकृतिभ्य उतरो बावप्रत्ययो विधीयते। न च तत्र काचिन्नञ्पूर्वा प्रकृतिर्गृह्यते। तदन्तविधिश्च ग्रहणवता प्रातिपदिकेन प्रतिषिध्धः। यत्र तर्हि स्वरूपग्रहणं नास्ति पत्यन्ताद्यग्भवति, हायनान्तादण् भवति, ठिगन्ताच्च लघुपूर्वात्ऽ,'योपदाद्गुरुपोतमाद्वुञ्' इति, तत्र नञ्पूर्वातत्पुरुषादस्त्येव प्रसङ्गस्तद्दर्शयति - वक्ष्यति पत्यन्त पुरोहितादिभ्यो यगिति। अपतित्वमपतितेति। ततु ठा च त्वात्ऽ इत्यधिकार इत्युक्तम्, ततश्च पत्यन्तेत्यनेनैव त्वतलोरप्यधिकृतयोविधानम्। ततः किम् ? यक इव त्वतलोरप्यं प्रतिषेधः प्राप्नोति। अस्त्वेवमधिकृतयो स्त्वतलोः प्रतिषेधः,'तस्य भावः' इत्यनेन पुनस्त्वतलौ भविष्यतः; बाधकाभावात्। यदि पत्यन्तादिप्वेवास्योपयोगः, पत्यन्तेत्यस्यैव पुरस्तादिदं पठितव्यम्, तदेवोतरत्राप्यनुवर्तिष्यते। एवं तर्ह्त्र प्रदेशे प्रतिषेधाधिकअरस्योपादानादिमनिजादीनामपि प्रतिषेदो विज्ञायते। ननु चोक्तम् -'तदन्तविध्यभावादप्रसङ्गः' इति ? एवं तर्ह्येतज्ज्ञापयति-अस्त्युतरत्र तदन्तविधिरित। किमेतस्य ज्ञापने प्रयोजनम् ? नञ्पूर्वाद्बहुव्रीहेरन्यपूर्वाच्च तत्पुरुषात्पृथ्वाद्यन्तादिमनिजादिः सिद्धो भवति - न विद्यन्ते पृथ्वो यस्य अपृथुः, परमपृथुः, तस्य भाव इति। नात्रोमनिजादिरिष्यते, अत एव वृत्तिकारेणापि नास्य पटवः सन्तीत्यपटुअरित्यादि व्यावर्त्य दर्शितम्, तस्मादिहास्य करणे प्रयोजनं चिन्त्यम्। आचतुर्यमित्यादौ ब्राह्मणादित्वात्ष्यञ् ॥