विभक्तिश्च
1-4-104 विभक्तिः च आ कडारात् एका सञ्ज्ञा तिङः त्रीणि त्रीणि सुपः
Sampurna sutra
Up
सुपः तिङः विभक्तिः च
Neelesh Sanskrit Brief
Up
सुप्-प्रत्यया: तिङ्-प्रत्यया: च विभक्तिसंज्ञकाः भवन्ति ।
Neelesh English Brief
Up
The सुप्-प्रत्ययाः and the तिङ्-प्रत्ययाः are called विभक्ति.
Kashika
Up
त्रीणित्रीणीत्यनुवर्तते। त्रीणित्रीणि विभक्तिसंज्ञाश्च भवन्ति सुपस्तिङश्च। विभक्तिप्रदेशाः — <<अष्टन आ विभक्तौ>> ७.२.८४ इत्येवमादयः॥
Siddhanta Kaumudi
Up
सुप्तिङौ विभक्तिसंज्ञौ स्तः । तत्र सु औ जस् इत्यादीनां सप्तानां त्रिकाणां प्रथमादयः सप्तम्यन्ताः प्राचां संज्ञास्ताभिरिहापि व्यवहारः ॥
Laghu Siddhanta Kaumudi
Up
सुप्तिङौ विभक्तिसंज्ञौ स्तः॥
Neelesh Sanskrit Detailed
Up
सुप् - सुँ-औ-जस्-अम्-औट्-शस्-टा-भ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसिँ-भ्याम्-भ्यस्-ङस्-ओस्-आम्-ङि-ओस्-सुप् ।
तिङ्-तिप्-तस्-झि-सिप्-थस्-थ-मिप्-वस्-मस्-त-आताम्-झ-थास्-आथाम्-ध्वम्-इट्-वहि-महिङ् ।
<<स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप् >> 4.1.2 इति सूत्रेण पाठितानाम् एकविंशतेः सुप्-प्रत्ययानाम्, तथा च <<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> 3.4.78 इति सूत्रेण विहितानाम् अष्टादशानां तिङ-प्रत्ययानाम् त्रिकं (त्रयाणां सङ्घं) कृत्वा प्रत्येकं समूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा दीयते - इति अस्य सूत्रस्य आशयः । तद्यथा -
सुप्-प्रत्ययानां विभक्तिसंज्ञा -
1. सुँ-औ-जस् इति प्रथमसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः प्रथमा इति संज्ञया अपि क्रियते ।
2. अम्-औ-जस् इति द्वितीयसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः द्वितीया इति संज्ञया अपि क्रियते ।
3. टा-भ्याम्-भिस् इति तृतीयसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः तृतीया इति संज्ञया अपि क्रियते ।
4. ङे-भ्याम्-भ्यस् इति चतुर्थसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः चतुर्थी इति संज्ञया अपि क्रियते ।
5. ङसिँ-भ्याम्-भ्यस् इति पञ्चमसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः पञ्चमी इति संज्ञया अपि क्रियते ।
6. ङस्-ओस्-आम् इति षष्ठसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः षष्ठी इति संज्ञया अपि क्रियते ।
7. ङि-ओस्-सुप् इति सप्तमसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः सप्तमी इति संज्ञया अपि क्रियते ।
अत्र निर्दिष्टाः प्रथमा इत्यतः सप्तमी इति संज्ञाः केन अपि विशिष्टेन सूत्रेण न विधीयन्ते, परन्तु पाणिनिना स्वयमेव <<प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा>> 2.3.46, <<कर्मणि द्वितीया>> 2.3.2 इत्यादिषु सूत्रेषु कृतः अस्ति; अतः एतानि नामानि व्याकरणशास्त्रे संज्ञारूपेण एव स्वीकृताः सन्ति । एताः संज्ञाः पाणिनेः प्राक् विद्यमानाः आचार्याः अपि प्रयुञ्जते स्म, तेभ्यः एव पाणिनिना एताः स्वीकृताः सन्ति - इति सिद्धान्तकौमुदीकारः अस्मिन् सन्दर्भे स्पष्टी करोति ।
तिङ्-प्रत्ययानां विभक्तिसंज्ञा -
1. तिप्-तस्-झि इति प्रथमसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः <<तिङस्त्रीणि ...>> 1.4.101 इति सूत्रेण प्रथमः इति संज्ञया अपि कृता अस्ति ।
2. सिप्-थस्-थ इति द्वितीयसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः <<तिङस्त्रीणि ...>> 1.4.101 इति सूत्रेण मध्यमः इति संज्ञया अपि कृता अस्ति ।
3. मिप्-वस्-मस् इति तृतीयसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः <<तिङस्त्रीणि ...>> 1.4.101 इति सूत्रेण उत्तमः इति संज्ञया अपि कृता अस्ति ।
4. त-आताम्-झ इति चतुर्थसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः <<तिङस्त्रीणि ...>> 1.4.101 इति सूत्रेण प्रथमः इति संज्ञया अपि कृता अस्ति ।
5. थास्-आथाम्-ध्वम् इति पञ्चमसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः <<तिङस्त्रीणि ...>> 1.4.101 इति सूत्रेण मध्यमः इति संज्ञया अपि कृता अस्ति ।
6. इट्-वहि-महिङ् इति षष्ठसमूहे विद्यमानानां प्रत्ययानां विभक्तिः इति संज्ञा भवति । एतेषाम् एव निर्देशः <<तिङस्त्रीणि ...>> 1.4.101 इति सूत्रेण उत्तमः इति संज्ञया अपि कृता अस्ति ।
यद्यपि भाषायाम् व्याकरणस्य सन्दर्भेण विभक्तिः इति संज्ञा केवलं सुप्-प्रत्ययानां कृते एव प्रयुज्यते, तथापि व्याकरणशास्त्रे तिङ्-प्रत्ययानाम् अपि विभक्तिः इत्येव संज्ञा भवति ।
केषाञ्चन तद्धितप्रत्यानाम् अपि विभक्तिसंज्ञा
अष्टाध्याय्याम् तद्धितप्रकरणे विद्यमानाः प्रायेण 20 तद्धितप्रत्ययाः <<प्राग्दिशो विभक्तिः>> 5.3.1 इत्यनेन विभक्तिसंज्ञकाः भवन्ति । एते प्रत्ययाः तिङ्-संज्ञकाः उत सुप्-संज्ञकाः न सन्ति, अतः तेषां प्रकृतसूत्रेण विभक्तिसंज्ञा नैव सम्भवति; अतश्च तेषां विभक्तिसंज्ञाविधानार्थं <<प्राग्दिशो विभक्तिः>> 5.3.1 इति सूत्रं निर्मितम् अस्ति ।
Balamanorama
Up
<<विभक्तिश्च>> - अथ 'न विभक्तो तुस्माः' इत्याद्युपयोगिनी विभक्तिसंज्ञामाह — विभक्तिश्च । 'सुप' इति पूर्वसूत्रात्सुब्ग्रहणम्,तिङस्त्रीणी॑त्यतस्तिङ्ग्रहणं चानुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञाबलात् । तदाह — सुप्तिङाविति । चकारः पुरुषवचनसंज्ञाभिः समावेशार्थः । तेन एकसंज्ञाधिकारस्थत्वेऽपि न पर्यायत्वम् । अन्यथा 'रामेभ्यः' 'भवाम' इत्यादौ विभक्तिसंज्ञाविरहेणन विभक्ता॑विति निषेधो न स्यात् । ननु प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा, कर्मणि द्वितीया, कर्तृकरणयोस्तृतीया, चतुर्थी सम्प्रदाने, अपादाने पञ्चमी, षष्ठी शेषे, सम्पतम्यधिकरणे चेत्यादौ कथं प्रथमादिव्यवहारः , सूत्रकृता पाणिनिना प्रथमादिसंज्ञानामनुक्तत्वादित्यत आह — तत्रेति । तेषु स्वादिप्रत्ययेषु मध्य इत्यर्थः । इत्यादीनामिति । आदिना — अम् — औट् — शस् — इत्यादीनां ग्रहणम् । प्राचामिति । पाणिनेः पूर्वेषां स्फोटायनाद्याचार्याणां शास्त्रे प्रथमाद्याः सप्तम्यन्ताः संज्ञाः स्थिता इत्यन्वयः । किं तत् इत्यत आह — ताभिरिति । ताभिः=प्रथमादिसंज्ञाभिरिहापि=पाणिनीयशास्त्रेऽपि व्यवहारः — सम्भवतीत्यर्थः ।
Padamanjari
Up
चकारः पुरुषवचनसंज्ञाभ्यां समावेशार्थः। तिङं व्यवहितानामपि स्वरितत्वादनुवृत्तिः। तिङं विभक्तित्वे प्रयोजनम् - आतामादौ'न विभक्तौ तुस्माः' इति निषेधः, सुपां तु त्यदाद्यत्वादिकमपि॥